सङ्कल्पादि
मूल-मन्त्रेण पञ्च-विंशति-कृत्वो ऽभ्यस्तेन त्रिः प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, द्वादशाक्षर-महा-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य -
अस्य श्री-वासुदेव-द्वादशाक्षर-महा-मन्त्रस्य भगवान् सङ्किर्षण ऋषिः, जगती-च्छन्दः, वासुदेवः परमात्मा देवता -
इति न्यस्य
“वासुदेव-प्रीत्य्-अर्थे जपे विनियोगः” इत्य्-उक्त्वा
कर-न्यासः
द्वादशाक्षर-मन्त्रेण कूर्परम् आरभ्य अङ्गुल्य्-अग्र-पर्यन्तं स्व-हस्तौ परस्परं त्रिः परामृश्य
ततश् शुद्धयोर् हस्तयोर् मन्त्रस्य व्यापक-न्यासं कृत्वा -
“ॐ ॐ, अङ्गुष्ठाभ्यां नमः” इत्य् अङ्गुष्ठयोस् तर्जनीभ्यां,
“ॐ नमः तर्जनीभ्यां नमः” इती तर्जन्योः, अङ्गुष्ठाभ्यां,
“ॐ भगवते मध्यमाभ्यां नमः” इति मध्यमयोः, अङ्गुष्ठाभ्यां,
“ॐ वासुदेवाय, अनामिकाभ्यां नमः” इत्य् अनामिकयोः, अङ्गुष्ठाभ्यां,
“ॐ ॐ नमः, कनिष्ठिकाभ्यां नमः” इति कनिष्ठिकयोः, अङ्गुष्ठाभ्यां, न्यस्य
“ॐ भगवते वासुदेवाय, कर-तल-कर-पृष्ठाभ्यां नमः” इति कर-तल-कर-पृष्ठयोः परामृशेत्
इति कर-न्यासः
अङ्ग-न्यासः
द्वादशाक्षर-मन्त्रेण पाणिभ्यां शिरः-प्रभृति-पादान्तं वर्म-वेष्टनवत्-स्व-पार्श्वयोः स्पर्श-रूपं व्यापक-न्यासं कृत्वा,
[[54]]
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इत्य् अङ्गुष्ठ-युक्त-तर्जन्या हृदये,
“ॐ नमः, ऐश्वर्याय शिरसे स्वाहा” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके,
“ॐ भगवते, शक्त्यै शिखायै वौषट्” इत्य् अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये न्यस्य
“ॐ वासुदेवाय, बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां, तनुं, पाणिभ्यां वर्मवत् स्पृष्ट्वा
“ॐ ॐ नमः, तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य
“ॐ भगवते वासुदेवाय वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं, पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात्
इत्य् अङ्ग-न्यासः,
ध्यानादि
॥ ध्यानम् ॥
अ-शुभम् अपनयन्तं पक्ष-जैस् साम-घोषैर्
अ-चलम् इव चरन्तं हैमम् आरुह्य तार्क्ष्यम्।
सजल इव पयोदश् श्यामलश् शार्ङ्ग-धन्वा
शमयितु परितापं सर्वमेत्य स्वयं नः॥
चातुर्व्यूहं परम्ब्रह्म षाड्गुण्य-परिकर्मितम्।
पञ्च-रात्रस्य कृत्स्नस्य प्रसूतिं पर्युपास्महे॥
इति ध्यात्वा
यथा-शक्ति द्वादशाक्षर-मन्त्र-जपं कुर्यात्।