सङ्कल्पादि
मूल-मन्त्रेण पञ्च-विंशति-कृत्वः, अभ्यस्तेन त्रिः प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, चरम-श्लोक-महा-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य -
अस्य श्री-चरम-श्लोक-महा-मन्त्रस्य पार्थ-सारथि ऋषिः, अनुष्टुप्-छन्दः, परमात्मा श्री-कृष्णो देवता
इति न्यस्य - “श्री-कृष्ण-प्रीत्य्-अर्थे जपे विनियोगः” इत्य् उक्त्वा
चरम-श्लोक-मन्त्रेण कूर्परम् आरभ्य अङ्गुल्य्-अग्र-पर्यन्तं स्व-हस्तौ परस्परं त्रिः परामृश्य, ततश् शुद्धयोर् हस्तयोर् मन्त्रस्य व्यापक-न्यासं कृत्वा
[[52]]
कर-न्यासः
“सर्व-धर्मान् परित्यज्य, अङ्गुष्ठाभ्यां नमः” इत्य् अङ्गुष्ठयोस् तर्जनीभ्यां,
“मामेकं, तर्जनीभ्यां नमः” इति तर्जन्योः, अङ्गुष्ठाभ्यां,
“शरणं व्रज, मध्यमाभ्यां नमः” इति मध्यमयोः अङ्गुष्ठाभ्यां,
“अहं त्वा अनामिकाभ्यां नमः” इत्य् अनामिकयोः अङ्गुष्ठाभ्यां,
“सर्व-पापेभ्यो मोक्षयिष्यामि, कनिष्ठिकाभ्यां नमः” इति कनिष्ठिकयोः, अङ्गुष्ठाभ्यां, न्यस्य
“मा शुचः, कर-तल-कर-पृष्ठाभ्यां नमः” इति कर-तल-कर-पृष्ठयोः परामृशेत्
इति कर-न्यासः
अङ्ग-न्यासः
चरम-श्लोक-मन्त्रेण पाणिभ्यां शिरः-प्रभृति-पादान्तं वर्म-वेष्टनवत्-स्व-पार्श्वयोः स्पर्श-रूपं व्यापक-न्यासं कृत्वा
“सर्व-धर्मान् परित्यज्य, ज्ञानाय हृदयाय नमः” इत्य् अङ्गुष्ठ-युक्त-तर्जन्या हृदये,
“मामेकं, ऐश्वर्याय शिरसे स्वाहा” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके,
“शरणं व्रज, शक्त्यै शिखायै वौषट्” इत्य् अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये, न्यस्य
“अहं त्वा, बलाय कवचाय हुम्,” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा,
“सर्व-पापेभ्यो मोक्षयिष्यामि, तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य
“माशुचः, वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात्
इत्य् अङ्ग-न्यासं कृत्वा
ध्यानादि
ध्यानम्॥
कर-कमल-निदर्शितात्म-मुद्रः
परिकलितोन्नत-बर्हि-बर्ह-चूडः।
इतर-कर-गृहीत-वेत्र-तोत्रो
मम हृदि सन्निधिम् आतनोतु शौरिः॥
यत्-प्रपत्तिं विना सर्वैर् यस्य माया दुरत्यया।
धनञ्जय-रथ-स्थस् तत् प्रपद्ये परमं महः
इति ध्यात्वा यथा-शक्ति चरम-श्लोक-मन्त्र-जपं कुर्यात्
[[53]]