११ द्वय-जप-विधिः

मूल-मन्त्रेण पञ्च-विंशति-कृत्वः, अभ्यस्तेन त्रिः प्राणानायम्य -

श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं शरणागति-महा-मन्त्र-जपं करिष्ये

इति संकल्प्य -

अस्य श्री-शरणागति-महा-मन्त्रस्य लक्ष्मी-नारायण ऋषिः, देवी गायत्री-च्छन्दः, परमात्मा श्री-लक्ष्मी-नारायणो देवता

इति, न्यस्य -

लक्ष्मी-नारायण-प्रीत्य्-अर्थे जपे विनियो

इत्य् उक्त्वा
द्वय-मन्त्रेण कूर्परम् आरभ्य, अङ्गुल्य्-अग्र-पर्यन्तं, स्व-हस्तौ परस्परं त्रिः परामृश्य, ततश् शुद्धयोर् हस्तयोर् मन्त्रस्य व्यापक-न्यासं कृत्वा -

“श्रीमन्-नारायण-चरणौ अङ्गुष्ठाभ्यां नमः” इत्य् अङ्गुष्ठयोस् तर्जनीभ्यां,
“शरणं, तर्जनीभ्यां नमः” इति तर्जन्योर् अङ्गुष्ठाभ्यां,
“प्रपद्ये, मध्यमाभ्यां नमः” इति मध्यमयोः, अङ्गुष्ठाभ्यां,
“श्रीमते, अनामिकाभ्यां नमः” इति, अनामिकयोः, अङ्गुष्ठाभ्यां,
“नारायणाय कनिष्ठिकाभ्यां नमः" इति, कनिष्ठिकयोः अङ्गुष्ठाभ्यां न्यस्य -

[[51]]

“नमः, कर-तल-कर-पृष्ठाभ्यां नमः” इति कर-तल-कर-पृष्ठयोः परामृशेत्
इति कर-न्यासः

अङ्ग-न्यासः

द्वय-मन्त्रेण पाणिभ्यां शिरः-प्रभृति-पादान्तं वर्म-वेष्टनवत्-स्व-पार्श्वयोः स्पर्श-रूपं व्यापक-न्यासं कृत्वा

“श्रीमन्-नारायण-चरणौ, ज्ञानाय हृदयाय नमः” इत्य् अङ्गुष्ठ-युक्त-तर्जन्या हृदये,
“शरणं, ऐश्यर्याय शिरसे स्वाह” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके,
“प्रपद्ये, शक्त्यै शिखायै वौषट्” इत्य् अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये, न्यस्य,
“श्रीमते, बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा
“नारायणाय, तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य,
“नमः, वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं,
पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात्
इत्य् अङ्ग-न्यासः

ध्यानादि

॥ ध्यानम् ॥

क्षीराम्भो-निधि-रत्न-मण्टप-महा सौवर्ण-सिंहासने
वामाङ्के स्थितया प्रसन्न-वदनं श्री-कान्तया ऽऽलिङ्गितम्।
दोर्दण्डाङ्कित-शङ्ख–पङ्क-ज–गदा-चक्रैर् उदार-श्रियं
त्वां नित्यं कलयामि जन्म-विमुखो लक्ष्मीश नारायण

इति ध्यात्वा - यथा-शक्ति द्वय-मन्त्रं जपेत्।