वाक्य-गुरु-परम्परां, श्लोक-गुरु-परम्परां, पञ्च-संस्कार-प्रदात्र्-आचार्य-परम्पराञ् चानुसन्धाय
मूल-मन्त्रेण पञ्च-विंशति कृत्वः1, अभ्यस्तेन त्रिः प्राणनायम्य
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं प्रातस् सन्ध्यायां, अष्टोत्तर-शत-कृत्वः, अष्टाक्षर-महा-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य
अस्य श्रीमदष्टाक्षर-महा-मन्त्रस्य अन्तर्यामी नारायण ऋषिः बदरिकाश्रम-वासी नारायण ऋषिर् वा देवी गायत्री-च्छन्धः, परमात्मा श्रीमन्-नारायणो देवता
इति न्यस्य
अञ्जलिं बद्ध्वा
[[44]]
अं बीजम्
आय शक्तिः
मं कीलकम्
ह्रीं कवचम्
ऐम् अस्त्रम्
बुद्धिस् तत्त्वं
शुक्लादिर् वर्णः
उदात्तादिस् स्वरः
श्री-वैकुण्ठः क्षेत्रम्
जीव-परमात्मनोस् स्वस्वामिभावस् सम्बंधः
श्रीमन्-नारायणप्रीत्य्-अर्थे जपे विनियोगः -
इति ध्यात्वा
कर-न्यासः
मूल-मन्त्रेण कूर्परम् आरभ्य अङ्गुल्य्-अग्र-पर्यन्तं स्व-हस्तौ परस्परं, त्रीः परामृश्य, ततश् शुद्धयोर् हस्तयोः मन्त्रस्य व्यापक-न्यासं कुर्यात्।
दक्षिण-हस्ताङ्गुष्ठाग्रेण, “ॐ ॐ” इति दक्षिण-तर्जनी-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं प्रणवं न्यस्येत्
“ॐ नं” इति मध्यमा-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः - “ॐ” इति प्रत्येकं प्रणवं न्यस्येत्
“ॐ मों” इति अनामिका-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः- “ॐ” इति प्रत्येकं प्रणवं न्यस्येत्
“ॐ नां” इति कनिष्ठका-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं प्रणवं न्यस्येत्।
वाम-हस्ताङ्गुष्ठाग्रेण, “ॐ रां” इति वाम-तर्जनी-मध्यम-पर्वणि न्यस्य
अद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्
“ॐ यं” इति मध्यमा-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्
“ॐ णां” इति अनामिका-मध्यम-पर्वणि न्यस्य
आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्
“ॐ यं” इति कनिष्ठिका-मध्यम-पर्वणि न्यस्य
अद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्।
[[45]]
एष स्थिति-न्यासो गृह-स्थस्य।
अथ संहार-न्यासः, यतीनां वन-स्थानाञ् च -
वाम-हस्ताङ्गुष्ठाग्रेण,
“ॐ ॐ” इति तर्जनी-मध्यम-पर्वणि
“ॐ नं” इति मध्यमा-मध्यम-पर्वणि
“ॐ मों” इति अनामिका-मध्यम-पर्वणि
“ॐ नां” इति कनिष्ठिका-मध्यम-पर्वणि
न्यस्य
आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्।
दक्षिण-हस्ताङ्गुष्ठाग्रेण,
“ॐ रां” इति कनिष्ठिका-मध्यम-पर्वणि “ॐ यं” इति अनामिका-मध्यम-पर्वणि “ॐ णां” इति मध्यमा-मध्यम-पर्वणि “ॐ यं” इति तर्जनी-मध्यम-पर्वणि न्यस्य - आद्य्-अन्त-पर्वणोः “ॐ” इति प्रत्येकं न्यस्येत्।
अथ सृष्टि-न्यासः, ब्रह्म-चारिणां -
दक्षिण-हस्ताङ्गुष्ठाग्रेण,
“ॐ ॐ” इति तर्जनी-मध्यम-पर्वणि “ॐ नं” इति मध्यमा-मध्यम-पर्वणि “ॐ मों” इति अनामिका-मध्यम-पर्वणि “ॐ नां” इति कनिष्ठिका-मध्यम-पर्वणि न्यस्य - आद्य्-अन्त-पर्वणोः, “ॐ” इति प्रत्येकं न्यस्येत्।
वाम-हस्ताङ्गुष्ठाग्रेण,
“ॐ रां” इति कनिष्ठिका-मध्यम-पर्वणि “ॐ यं” इति अनामिका-मध्यम-पर्वणि “ॐ णां इति मध्यमा-मध्यम-पर्वणि “ॐ यं” इति तर्जनी-मध्यम-पर्वणि न्यस्य - आद्य्-अन्त-पर्वणोः, “ॐ” इति प्रत्येकं न्यस्येत्।
[[46]]
करे ऽङ्गन्यासवत्
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इति दक्षिण-तर्जन्या दक्षिणाङ्गुष्ठे न्यस्य
“ॐ नं, ऐश्वर्याय शिरसे स्वाहा” इति दक्षिणाङ्गुष्ठेन दक्षिण-तर्जन्यां न्यस्य
“ॐ मों, शक्त्यै शिखायै वौषट्” इति दक्षिणाङ्गुष्ठेन दक्षिण-मध्यमायां न्यस्य
“ॐ नां, बलाय कवचाय हुम्” इति दक्षिणाङ्गुष्ठेन दक्षिणानामिकायां न्यस्य
“ॐ रां, वीर्यायास्त्राय फट्” इति दक्षिणाङ्गुष्ठेन दक्षिण-कनिष्ठिकायां न्यस्य
“ॐ यं, तेजसे नेत्राभ्यां नमः” इति वाम-तर्जन्या वामाङ्गुष्टे न्यस्य
“ॐ णां, तेजसे उदराय नमः” इति वामाङ्गुष्ठेन वाम-तर्जन्यां न्यस्य
“ॐ यं, तेजसे पृष्ठाभ्यां नमः” इति वामाङ्गुष्ठेन वाम-मध्यमायां न्यस्य
“ॐ यं, तेजसे बाहुभ्यां नमः” इति वामाङ्गुष्ठेन वामानामिकायां न्यस्य
“ॐ यं, तेजसे ऊरुभ्यां नमः” इति वामाङ्गुष्ठेन वाम-कनिष्ठिकायां न्यस्य
“ॐ यं, तेजसे जानुभ्यां नमः” इति दक्षिणाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य
“ॐ यं, तेजसे पादाभ्यां नमः” इति वामाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य
मूल-मन्त्रेण पाणिभ्यां शिरः-प्रभृति-पादान्तं वर्म-वेष्टनवत्-स्व-पार्श्वयोः स्पर्श-रूपं व्यापक-न्यासं कृत्वा
एष स्थिति-न्यासो गृह-स्तस्य।
अथ संहार-न्यासः, यतीनां वन-स्थानाञ् च -
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इति वाम-तर्जन्या वामाङ्गुष्ठे न्यस्य “ॐ ॐ नं, ऐश्वर्याय शिरसे स्वाहा” इति वामाङ्गुष्ठेन वाम-तर्जन्यां” न्यस्य “ॐ ॐ मों, शक्त्यै शिखायै वौषट्” इति वाम-मध्यमायां वाम-तर्जन्यां न्यस्य “ॐ ॐ नां, बलाय कवचाय हुम्” इति वामानामिकायां वाम-तर्ज्यन्यां न्यस्य “ॐ ॐ रां, वीर्यायास्त्राय फट्” इति वाम-कनिष्ठिकायां वाम-तर्जन्यां न्यस्य “ॐ ॐ यं, तेजसे नेत्राभ्यां नमः” इति दक्षिणाङ्गुष्ठेन दक्षिण-कनिष्ठिकायां न्यस्य “ॐ ॐ णां, तेजसे उदराय नमः” इति दक्षिणाङ्गुष्ठेन दक्षिणानामिकायां न्यस्य “ॐ ॐ यं, तेजसे पृष्ठाभ्यां नमः” इति दक्षिणाङ्गुष्ठेन दक्षिण-मध्यमायां न्यस्य “ॐ ॐ यं, तेजसे बाहुभ्यां नमः” इति दक्षिणाङ्गुष्ठेन दक्षिण-तर्जन्यां न्यस्य “ॐ ॐ यं, तेजसे ऊरुभ्यां नमः” इति दक्षिण-तर्जन्या दक्षिणाङ्गुष्ठे न्यस्य “ॐ ॐ यं, तेजसे जानुभ्यां नमः” इति वामाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य “ॐ ॐ यं, तेजसे पादाभ्यां नमः” इति दक्षिणाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य
अथ सृष्टि-न्यासः ब्रह्म-चारिणाम्
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इति दक्षिण-तर्जन्या दक्षिणाङ्गुष्ठे न्यस्य “ॐ नं, ऐश्वर्याय शिरसे स्वाहा” इति दक्षिणाङ्गुष्ठेन दक्षिण-तर्जन्यां न्यस्य “ॐ मों, शक्त्यै शिखायै वौषट्” इति दक्षिणाङ्गुष्ठेन दक्षिण-मध्यमायां न्यस्य “ॐ नां, बलाय कवचाय हुम्” इति दक्षिणाङ्गुष्ठेन दक्षिणानामिकायां न्यस्य “ॐ रां, वीर्यायास्त्राय फट्” इति दक्षिणाङ्गुष्ठेन दक्षिण-कनिष्ठिकायां न्यस्य “ॐ यं, तेजसे नेत्राभ्यां नमः” इति वामाङ्गुष्ठेन वाम-कनिष्ठिकायां न्यस्य “ॐ णां, तेजसे उदराय नमः” इति वामाङ्गुष्ठेन वामानामिकायां न्यस्य “ॐ यं, तेजसे पृष्ठभ्यां नमः” इति वामाङ्गुष्ठेन वाम-मध्यमायां न्यस्य “ॐ यं, तेजसे बाहुभ्यां नमः” इति वामाङ्गुष्ठेन वाम-तर्जन्यां न्यस्य “ॐ यं, तेजसे ऊरुभ्यां नमः” इति वाम-तर्जन्या वामाङ्गुष्ठे न्यस्य “ॐ यं, तेजसे जानुभ्यां नमः” इति दक्षिणाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य “ॐ यं, तेजसे पादाभ्यां नमः” इति वामाङ्गुष्ठेन तद्-इतराङ्गुली-नख-मुखेषु न्यस्य
[[47]]
अङ्ग-न्यासः
चाक्रिकः
“ॐ ॐ” इति, दक्षिणाङ्गुष्ठ-सहित-कनिष्ठिकया नाभौ विन्यस्य
“ॐ नं” इति, अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये विन्यस्य -“ॐ मों” इति, अन्-अङ्गुष्ठाभिर् अङ्गुलीभिः जान्वोः विन्यस्य
“ॐ नां " इति साङ्गुष्ठाभिर् अङ्गुलीभिः पादयोः विन्यस्य
“ॐ रां” इति मध्यमाङ्गुल्या शिरसि विन्यस्य
“ॐ यं” इति तर्जनी-मध्यमाभ्यां नेत्रयोः विन्यस्य
“ॐ णां” इति साङ्गुष्ठानामिकया मुख-मध्ये घ्राणस्य पुरतः विन्यस्य
“ॐ यं” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये विन्यस्य -
एष स्थिति-न्यासो गृह-स्थस्य -
अथ संहार-न्यासः यतीनां वन-स्थानाञ् च -
“ॐ ॐ” इति साङ्गुष्ठाभिर् अङ्गुलीभिः पादयोः न्यस्य “ॐ नं” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिः जान्वोः न्यस्य “ॐ मों” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिः गुह्ये न्यस्य “ॐ नां” इति दक्षिणाङ्गुष्ठ-कनिष्ठिकाभ्यां नाभौ न्यस्य “ॐ रां” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये न्यस्य “ॐ यं” इति साङ्गुष्ठानामिकया मुख-मध्ये घ्राणस्य पुरतः न्यस्य “ॐ णां” इति तर्जनी-मध्यमाभ्यां नेत्रयोः न्यस्य “ॐ यं” इति मध्यमाङ्गुल्या शिरसि न्यस्य
अथः सृष्टि-न्यासः ब्रह्म-चारिणाम्
“ॐ ॐ” इति मध्यमाङ्गुल्या शिरसि न्यस्य “ॐ नं” इति तर्जनी-मध्यमाभ्यां नेत्रयोः न्यस्य “ॐ मों” इति साङ्गुष्ठानामिकया मुख-मध्ये घ्राणस्य पुरतः न्यस्य “ॐ नां” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये न्यस्य “ॐ रां” इति दक्षिणाङ्गुष्ठ-कनिष्ठिकाभ्यां नाभौ न्यस्य “ॐ यं” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये न्यस्य “ॐ णां” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् जान्वोः न्यस्य “ॐ यं” इति साङ्गुष्ठाभिर् अङ्गुलीभिः पादयोः न्यस्य
[[48]]
हृदयादि
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इति, अङ्गुष्ठ-युक्त-तर्जन्या हृदये न्यस्य
“ॐ नं, ऐश्वर्याय शिरसे स्वाहा” इति, अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके न्यस्य
“ॐ मों, शक्त्यै शिखायै वौषट्” इति अङ्गुष्ट-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये न्यस्य
“ॐ नां, बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा
“ॐ रां, वीर्यायास्त्राय फट्” इती साङ्गुष्ठ-तर्जन्या, अंसयोः क्रमेण शब्दयेत्
“ॐ यं, तेजसे नेत्राभ्यां नमः” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य
“ॐ णां, तेजसे उदराय नमः” तेजसे उदराय नमः” इति नाभ्याम् अङ्गुलीभिर् न्यस्य
“ॐ यं, तेजसे पृष्ठाभ्यां नमः” इति पृष्ठयोः अङ्गुलीभिर् न्यस्य
“ॐ यं, तेजसे बाहुभ्यां नमः” इति बाह्वोः, अङ्गुलीभिर् न्यस्य
“ॐ यं, तेजसे ऊरुभ्यां नमः” इति ऊर्वोः अङ्गुलीभिर् न्यस्य
“ॐ यं तेजसे जानुभ्यां नमः” इति जान्वोः, अङ्गुलीभिर् न्यस्य
“ॐ यं, तेजसे पादाभ्यां नमः” इति पादयोः, अङ्गुलीभिर् न्यस्य
" ॐ, वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं, पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात्
सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण, भ्रामयन् सन् अत्मनः प्राकारं कुर्यात्
“ॐ बलाय कवचाय हुम्” इति देहावकुण्ठनं कुर्यात्
ध्यानादि
[[49]]
ततः
इदं गुरुभ्यः पूर्वेभ्यः क्रियते शिरसा नमः।
मन्त्र-ज्ञान-प्रदातृभ्यस् तद्-गुरुभ्यो ऽपि साम्प्रतम्।
नमस् ते मन्त्र-राजाय नमस् ते ऽष्टाक्षरात्मने।
नमस् ते चेतनाधार-परब्रह्माभिधायिने।
स्थित्वा ऽन्तर् हृदये सर्वान् आत्मनस् सन्नियच्छते।
ऋषये ऽष्टाक्षरस्यान्तर्यामिणे हरये नमः।
अष्टाक्षर-महा-मन्त्र-वर्ण-सङ्ख्याभिधायिनीम्।
छन्दश् च देवीं गायत्रीं शिरसा प्रणमाम्य् अहम्।
मन्त्रस्य दैवतञ् चापि परमात्मानम् अव्ययम्।
नारायणं परं ब्रह्म नतो ऽस्मि शिरसा हरिम्।
मन्त्र-शक्तिस् स्थिता यस्मिन्न् आश्रिते ऽष्टार्थ-साधिनी।
वदन् नारायणायेति शक्तिं तां प्रणतोस्म्य् अहम्।
अकाराद् उत्थिताद् बीजाद् वासुदेवाभिधायिनः।
तद्-बीजम् अस्य प्रभवं प्रणवं प्रणतोस्म्य् अहम्
इति गुर्वादीन् प्रणम्य
मनसा गन्धाद्यैर् अभिपूज्य ॥ध्यानम्॥
सव्यं पादं प्रसार्य श्रित-दुरित-हरं दक्षिणं कुञ्चयित्वा जानुन्य् आधाय सव्येतरम् इतर-भुजं नाग-भोगे निधाय। पश्चाद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे देवी-भूषादि-जुष्टो जनयतु जगतां शर्म वैकुण्ठ-नाथः॥
[[50]]
इति ध्यात्वा
मन्त्रार्थम् अपि चिन्तयन् मूल-मन्त्रं जपेत्
ततः मूल-मन्त्रेण प्राणायामं कुर्यात्।
द्राविडम्
तिरुमन्त्रत्तिनुडैय अर्थङ्गलै सविस्तारमाक श्रीमद्रहन्यत्रयसारत्तिल् मूलमन्त्राधिकारत्तिल् कंडुकोल् वतु, जपकालत्तिल् अनुसन्धिक्किऱत्तुक्काक मूलमन्त्रत्तिनुडैय अर्थम् इतिन् कीलै सङ्ग्रहमाय् शोल्लप्पट्टिरुक्किऱतु; - सर्वरक्षक वास सर्वेश्वरनुक्कु अनन्यार्ह निरुपाधिक शेषभूतनुं, तनक्कुदावनल्लातवनुं, निरपेक्षस्वतन्त्रनाकातननुं, ज्ञानस्वरूपनुं, ज्ञानगुणकनुं, अणुस्वरूपनुं, देहादिविलक्षणनुमान नान् (जीविन्) सर्वात्माक्कलुक्कुम् उपायनायुं, उपेयनायुं, आधारनायुं, अन्तर्बहिर्व्याप्तियुल्लवनायुं सर्वज्ञत्व, सर्वशक्तित्व, परत्व, सौलभ्यादि गुणमुल्लवनुं, लक्ष्मी विशिष्टनुमान नारायणनुक्कु सर्वदेश, सर्वकाल, सर्वावस्थोचित सर्वविधकैङ्कर्यङ्गलै पण्णक्कडवेन् -
-
वाम-तर्जनी-मूल-पर्वारभ्य एकैक-पर्वणि प्रादक्षिण्य-क्रमेण वामाङ्गुष्ठाग्रं न्यस्य गणयेत्। ↩︎