०८ स्नानाङ्ग-देवर्षि-पितृ-तर्पण-विधिः

सङ्कल्पादि

पादौ प्रक्षाल्य
आचम्य
प्राणानायम्य -

श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, स्नानाङ्गं देवर्षि-पितृ-तर्पणं करिष्ये

इति सङ्कल्प्य
देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा

देव-तर्पणम्

[[33]]

ॐ ब्रह्मादयो ये देवास् तान् देवांस् तर्पयामि
ॐ सर्वान् देवांस् तर्पयामि ॐ सर्व-देव-गणांस् तर्पयामि
ॐ सर्व-देव-पत्नीस् तर्पयामि
ॐ सर्व-देव-गण-पत्नीस् तर्पयामि

इति देव-तीर्थेन विसृजेत्।

ऋषि-तर्पणम्

अङ्गुष्ठ-सक्त-निवीती उदङ्-मुखः,

ॐ कृष्ण-द्वैपायनादयो ये ऋषयस् तान् ऋषींस् तर्पयामि।
ॐ सर्वान् ऋषींस् तर्पयामि।
ॐ सर्व-ऋषि-गणांस् तर्पयामि।
ॐ सर्व-ऋषि-पत्नीस् तर्पयामि।
ॐ सर्व-ऋषि-गण-पत्नीस् तर्पयामि

इति ऋषि-तीर्थेन विसृजेत्।

पितृ-तर्पणम्

प्राचीनावीती, दक्षिणा-मुखः,

ॐ सोमः पितृ-मान्यम् ओङ्गिरस्वान् अग्निः कव्यवाहन इत्य् आदयो ये पितरस् तान् पितॄंस् तर्पयामि।
ॐ सर्वान् पितॄंस् तर्पयामि।
ॐ सर्व-पितृ-गणांस् तर्पयामि।
ॐ सर्व-पितृ-पत्नीस् तर्पयामि।
ॐ सर्व-पितृ-गण-पत्नीस् तर्पयामि -

इति पितृ-तीर्थेन विसृजेत्।

ऊर्जं॒ वह॑न्तीर् अ॒मृतं॑ घृ॒तं
पयः॑ की॒लालं॑ परि॒स्रु॑तम्।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥

इति जले, अञ्जलिना त्रिः प्रदक्षिणी-कृत्य दक्षिण-पार्श्व-तीरं संशोध्य। “तृप्य॑त॒, तृप्य॑त॒ तृप्य॑त" इति त्रिर् जलाञ्जलिं तीरे प्रक्षिप्य,
तत्-तीरं पुनस् संशोधयेत्।
उपवीति - आचामेत्।

अवगाहन-स्नानं विना गौण-स्नानेषु नैमित्तिक-स्नानेषु1 च देवर्षि-पितृ-तर्पणन् न कुर्यात्।

सात्त्विक-त्यागः

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातस् स्नानाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्

इति सात्त्विक-त्यागं कृत्वा -

अनेन प्रातस् स्नानाख्येन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः

इति प्रातस् स्नानं समाचरेत् -

[[34]]


  1. अस्पृश्य-स्पर्श-सेवान्ते त्व् अश्रु-साते क्षुरे भगे।
    स्नानं नैमित्तिकं ज्ञेयं देवर्षि-पितृ-वर्जितम्॥ ↩︎