आहरणम्
नारिकेल-पात्रे तीर्थम् आदाय
उद्धरिण्या जलम् आदाय
आस्त्र-मन्त्रेण (वीर्यायास्त्राय फट्) वाम-पाणि-तलं संशोध्य
प्रणवेन मृदं निधाय
जलम् आदाय
श्वेत-मृत्-सिद्धिः
गन्धद्वारान्दुराधर्षां नित्यपुष्टाङ्करीषिणीम्, ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम्
इति श्वेत-मृत्-सेचनं कृत्वा
अस्त्र-मन्त्रेण दशसु दिुक्षु रक्षां कृत्वा
प्रणवेन संमिश्री-कृत्य
मूल-मन्त्रेणाभिमन्त्र्य
यथा-सम्प्रदायं नृ-सिंह-बीजं विलिख्य
भगवान् पवित्रं वासुदेवः पवित्रं शत-धारं सहस्र-धारम् अ-परिमित-धारं अरिष्टम् अ-च्छिद्रम् अ-च्युतम् अन्-अन्तं अ-क्षयम् अ-व्ययं परम-पवित्रं भगवान् वासु-देवः पुनातु
इति पवित्र-मन्त्रेण जलं निस्राव्य
भगवत्-पाद-युगलं स्मृत्वा
तर्जन्या मृदं जलं चैकी-कृत्य
भगवत्-पाद-युगलं स्मृत्वा
दक्षिण-पाणिना मृदम् उपगूह्य
विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो अस्कभायदुत्तरँ सधस्थं विचक्रमाणस्त्रेधोरुगायः [[TODO: परिष्कार्यम्]]
इति मन्त्रेण पञ्चोपनिषन्-मन्त्रैः
(ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने नमः
ॐ यां नमः पराय पुरुषात्मने नमः
ॐ रां नमः पराय विश्वात्मने नमः
ॐ वां नमः पराय निवृत्त्य्-आत्मने नमः
ॐ लां नमः पराय सर्वात्मने नमः)
मूल-मन्त्रेण चाभिमन्त्र्य
द्वादशाक्षरेण इष्टं सम्प्रार्थ्य1
[[30]]
विष्णोरराटमसि विष्णोः पृष्ठमसि विष्णोश्श्नप्त्रेस्थो विष्णोस्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवेत्वा
[[TODO: परिष्कार्यम्]]
इति सप्तभिर् वैष्णवैर् मन्त्रैर् अभिमन्त्र्य
श्वेत-धरणम्
तर्जन्या प्रणवेन मूर्ध्नि किञ्चिन् न्यस्य
अनामिकया लालाटे चतुर्-अङ्गुलं
नासिका-मूलम् आरभ्य ललाटान्तं वा ऊर्ध्वं
द्व्य्-अङ्गुलं त्र्य्-अङ्गुलं वा विस्तृतं
कुक्षौ नाभ्ब्य्-आदि-द्वादशाङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुल-विस्तृतं
हृदये प्रादेश-मात्रम् अष्टाङ्गुलं वा उर्ध्वञ् चतुर्-अङ्गुलं विस्तृतं
कण्ठे चतुर्-अङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुल-विस्तृतं
दक्षिण-कुक्षि-पार्श्वे द्वादशाङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुलं विस्तृतं
दक्षिण-बाहु-मूले द्वादशाङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुलं विस्तृतं
दक्षिण-कण्ठ-पार्श्वे चतुर्-अङ्गुलम् विस्तृतं
वाम-कुक्षि-पार्श्वे द्वादशाङ्गलम् ऊर्ध्वं त्र्य्-अङ्गुलं विस्तृतं
वाम-बाहु-मूले द्वादशाङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुलं विस्तृतं
वाम-कण्ठ-पार्श्वे चतुर्-अङ्गुलम् ऊर्ध्वं त्र्य्-अङ्गुलं विस्तृतं
जघनो परिपृष्ठ-भागे त्र्य्-अङ्गुलं आयतं विस्तृतञ् च
ककुदे त्र्य्-अङ्गुलम् आयतं त्र्य्-अङ्गुलं विस्तृतञ् च,
भगवत्-पादाकृतीन् पुण्ड्रान्,
चतुश्-चक्रं नमस्यामि केशवं कनक-प्रभम्।
नारायणं घन-श्यामं चतुश् शङ्खं नमाम्य् अहम्।
माधवं मणि-भङ्गाभं चिन्तयामि चतुर्-गदम्।
चन्द्र-भासं चतुश् शार्ङ्गं गोविन्दम् अहम् आश्रये॥
विष्णुं चतुर्-हलं वन्दे पद्म-किञ्जल्क-सन्निभम्।
चतुर्-मुसलम् अब्-जाभं संश्रये मधुसूदनम्।
अग्नि-वर्णं चतुः खड्गं भावयामि त्रिविक्रमम्।
वामनं बाल-सूर्याभं चतुर्-वज्रं विभावये।
श्री-धरं पुण्डरीकाभं चतुः-पट्टं समाश्रये। चतुर्-मुद्गरम् अभ्येमि हृषीकेशं तटित्-प्रभम्।
पञ्चायुधं पद्म-नाभं प्रणमाम्य् अर्क-रोचिषम्।
दामोदरं चतुः पाशं इन्द्र-कोप-निभं भजे।
वासुदेवम् उपासेहं पूर्णेन्द्व्-अयुत-सन्निभम्॥
इत्य् आदि-ध्यान-पुरस्-सरं “ॐ केशवाय नमः" इत्य् आदि-मन्त्रैः ललाटादि-स्थानेषु क्रमेण धृत्वा, शेषं द्वादशाक्षरेण मूर्ध्नि धारयेत्।
श्री-चूर्णम्
विष्णु-गात्र-परामृष्टं हरिद्रा-चूर्णं, “श्रियै नमः" इति ललाटे
“अमृतोद्भवायै नमः” इति कुक्षौ -
[[31]]
“कमलायै नमः” इति हृदये
“चन्द्र-शोभिन्यै नमः” इति कण्ठे
“विष्णु-पत्न्यै नमः” इति दक्षिण-कुक्षि-पार्श्वे
“वैष्णव्यै नमः” इति दक्षिण-बाहु-मूले
“वरारोहायै नमः” इति दक्षिण-कण्ठ-पार्श्वे
“हरि-वल्लभायै नमः" इति वाम-कुक्षि-पार्श्वे
“शार्ङ्गिण्यै नमः” इति वाम-बाहु-मूले"
“देव-देविकायै नमः” इति वाम-कण्ठ-पार्श्वे
“महा-लक्ष्म्यै नमः” इति पृष्टे
“लोक-सुन्दर्यै नमः” इति ककुदे
“सर्वाभीष्ट-फल-प्रदायै नमः” इति शिरसि
दीपाकारं धारयेत्।
प्रणामादि
“ॐ केशवाय नमः" इत्य् आदि-क्रमेण पुण्ड्रान् अङ्गुलीभिः स्पृष्ट्वा
पुनः “केशवाय नमः” इत्य् आदि-क्रमेण अञ्जलिञ् च कुर्यात्।
ऊर्ध्व-पुण्ड्र-धारणानन्तरं हस्तौ न प्रक्षालयेत्।
आपदि
अ-शक्तौ अपदि वा मृत्तिका-सेचन-मन्त्र-जपादिकं पूर्ववत् कृत्वा
उद्धृताऽसीवराहेण कृष्णेन शतबाहुना, भूमिर्धेनुर्धरणी लोकधारिणी, मृत्तिके हन मे पापं यन्मया दुष्कृतङ्कृतम्। त्वयाहतेन पापेन जीवामि शरदश्शतम्। मृत्तिके देहि मे पुष्टिन्त्वयि सर्वम्प्रतिष्ठितम्। [[TODO: परिष्कार्यम्]]
इति मन्त्रेण प्रणवेन वा
दामोदरं केशवञ् च
न कदाचित् परित्यजेत्
इत्य् उक्त-रीत्या ललाटे ककुदे च ऊर्ध्व-पुण्ड्रौ धारयेत्।
केशव-दामोदर-मन्त्राभ्यां केशव-दामोदरौ ध्यायेत्।
गुरु-स्मृतिः
अस्मद्-गुरुभ्यो नमः अस्मत्-परम-गुरुभ्यो नमः।
अस्मत्-सर्व-गुरुभ्यो नमः।
श्रीमते वेदान्त-गुरवे नमः।
श्रीमते रामानुजाय नमः।
श्री-पराङ्कुश-दासाय नमः।
श्रीमद्-यामुन-मुनये नमः।
श्री-राम-मिश्राय नमः।
श्री-पुण्डरीकाक्षाय नमः।
श्रीमन्-नाथ-मुनये नमः।
श्रीमते शठ-कोपाय नमः।
श्रीमते विष्वक्सेनाय नमः।
श्रियै नमः।
श्री-धराय नमः
[[32]]
अस्मद्-देशिकम् अस्मदीय-परमाचार्यान् अ-शेषान् गुरून्
श्रीमल्-लक्ष्मण-योगि-पुङ्गव-महा-पूर्णौ मुनिं यामुनम्।
राम पद्म-विलोचनं मुनि-वरं नाथं शठ-द्वेषिणं
सेनेशं श्रियम् इन्दिरा-सहचरं नारायणं संश्रये॥
इति
एन्नुयिर् तन्दलित्तवरैच्चरणम्पुक्कु यानडै वे यवर् कुरुक्कणिरै वणङ्गि, प्पिन्नरुलार्पेरुम्बूदूर् वन्दवळ्ळल् पेरियनम्बि यालवन्दार् मणक्काल्नम्बि, नन्नेरियै यवर्कुरैत्त वुय्यक्कोण्डार् नादमुनि शडकोपन् शेनैनादन्, इन्नमुदत्तिरुमगलेनिऱवरै मुन्निट्टेम्पेरुमान्तिरुवडिकलडैकिनेऱने
इति च गुरु-परम्परां सङ्ग्रहेण स्वाचार्य-प्रभृति-भगवत्-पर्यन्तं विस्तरेण तद्-विषय-पद्यैश् चानुसन्धाय
माला-पवित्रादि
तुलसी-काष्ठ-मालां, पद्माक्ष-मालां, श्री-पवित्र-मालाञ् च कण्ठे नाभि-दघ्नाः धृत्वा
शिरसि च पवित्र-मालां धृत्वा
द्वाभ्यां दर्भाभ्यां, द्व्य्-अङ्गुल-वलयं, एकाङ्गुल-ग्रन्थिमत्,
चतुर्-अङ्गुलाग्रं, सकृत् प्रदक्षिणी-कृतं पवित्रं
द्वि-गुणी-कृतं ब्रह्म-ग्रन्थिं वा,
अनामिका-मूल-पर्व-मध्यम-पर्वणोर् मध्ये
हस्त-द्वये वा, दक्षिण-हस्ते वा धारयेत्।
ब्रह्म-यज्ञ-जपयोः ब्रह्म-ग्रन्थिं,
तद् इतरेषु कर्मसु यथा-रुचि पवित्रं ब्रह्म-ग्रन्थिं वा,
भोजने वर्तुलं, पवित्रं धारयेत्।
-
“तत्-पाद-भक्ति-ज्ञानाभ्यां फलम् अन्यत् कदाचन।
न याचेत् पुरुषो विष्णुं”इति वचनात् भगवत्-पाद-भक्ति-ज्ञान-रूपेष्टं सम्प्रार्थ्येत्य् अर्थः[[??]] - ↩︎