पादौ प्रक्षाल्य - द्विर् आचम्य - वस्त्र-प्रावृत-शिराः, प्राङ्-मुखो वा पूर्वोत्तर-दिग्-भागाभिमुखो वा, कुक्कुटासन-संस्थितः - अन्तर्-जानु-करः - शाल्मलि–अश्वत्थ–कोविदार–शमि–क्रमुक–पालाश–मोचा–कार्पास–कुश–नारिकेल–विभीतक–दर्भा वर्जयित्वा - अर्क–न्यग्रोध–खदिर–करञ्ज-मूल–ककुभ-मूल–अपामार्ग-निम्ब–जम्ब्व्–आम्र–क्षीर-युक्त–कण्टक-युक्त–काष्ठानाम् अन्यतम-दन्त-काष्ठानि, षोडशाङ्गुल-दीर्घाणि द्वादशाङ्गुलानि वा वक्र-ग्रन्थि-रहितानि, कनिष्ठिकाग्रवत्-स्थूलानि
आयुर्-बलं यशो-वर्चः प्रजां पशु-वसूनि च।
ब्रह्म-प्रज्ञाञ् च मेधाञ् च त्वन् नो देहि वनस्पते
इति मन्त्रेणाभिमन्त्र्य - गृहीत्वा; प्रक्षाल्य,
दन्त-धावन-मन्त्रस्य मार्कण्डेय ऋषिः अनुष्टुप् छन्दः, वनस्पतिर् देवता
इति शिरो-जिह्वा हृदयेषु न्यस्य - “दन्त-धावने विनियोगः" इत्य् उक्त्वा तेनैव मन्त्रेण र्दन्त-धावनङ् कुर्यात् - काष्ठालाभे तत् तत् पर्णानि तृणं वा गृह्णीयात् - वाम-भागाधो देशम् आरभ्य प्रादक्षिण्येन दन्त-धावनं, जिह्वा-निर्लेखनञ् च कृत्वा - दन्त-काष्ठम् प्रक्षाल्य - नैर्ऋत्यां शुद्ध-देशे निरस्य - षोडश-गण्डूषान् कुर्यात् - प्रतिपत्-पर्व-षष्ठी-चतुर्दश्य्-एकादश्य्-अष्टमीषु त्रि-जन्मसु च काष्ठेन दन्त-धावनन् न कुर्यात् - एकादश्य्-अमावास्ययोस् तु, जम्बू–प्लक्षाम्र-पर्णान्य् एव गृह्णीयात् - नान्यत् - श्राद्ध-दिने तैर् अपि न कुर्यात् - तृण-पर्णादीनाम् अप्य् अ-भावे, द्वादश-गण्डूशान् कुर्यात् - गोष्ठे, देवालये नद्यां, श्मशाने, शुचि-स्थले, सलिले, यज्ञ-शालायां, दन्त-धावनं न कुर्यात् - गण्डूष-काले तर्जन्या दन्त-शोधनं न कुर्यात् - तत् तोयञ् च न पिबेत् - द्विर् आचामेत्।
[[13]]