शुचौ देशे कुक्कुटासन-संस्थितः, बाहू द्वयं, जान्व्-अन्तरे कृत्वा - प्राङ्-मुख उदङ्-मुखो वा वाग् यतः - दक्षिण-हस्त-तलं, गोकर्णाकारं कृत्वा - वाम-हस्तेन जलं स्पृशन्, देव-तीर्थेन 1माष-मग्नञ् जलम् आदाय - “ॐ अच्युताय नमः” “ॐ अनन्ताय नमः” “ॐ गोविन्दाय नम” इति निश्शब्दं हृदयङ् गमं प्रतिमन्त्रं 2 ब्रह्म-तीर्थेन पिबेत् - अङ्गुष्ठ-मूलेन अपस् स्पृष्ट्वा - ओष्ठ-द्वयं द्विः परिमृज्य - तद्-अङ्गुष्ठ-मूलं, पुनः प्रक्षाल्य - अङ्गुष्ठाग्रेण “ॐ केशवाय नमः” इति दक्षिण-कपोलम्, “ॐ नारायणाय नमः” इति वाम-कपोलम् - साङ्गुष्ठानामिकया, “ॐ माधवाय नमः” इति दक्षिण-नेत्रम्, “ॐ गोविन्दाय नमः” इति वाम-नेत्रम् - साङ्गुष्ठ-तर्जन्या, “ॐ विष्णवे नमः" इति दक्षिण-नासिकाम्, “ॐ मधुसूदनाय नमः” इति वाम-नासिकाम् - साङ्गुष्ठ-कनिष्ठिकया,“ॐ त्रिविक्रमाय नमः” इति दक्षिण-श्रोत्रम्, “ॐ वामनाय नमः” इति वाम-श्रोत्रं - साङ्गुष्ठ-मध्यमया, “ॐ श्री-धराय नमः” इति दक्षिण-भुज-मूलम्, “ॐ हृषीकेशाय नमः” इति वाम-भुज-मूलम् - केवलाङ्गुष्ठेन “ॐ पद्मनाभाय नमः” इति नाभिम् - तलेन हृदयञ् च संहताभिस् सर्वाङ्गुलीभिः, “ॐ दामोदराय नमः” इति मूर्धानञ् च प्रत्यङ्गम् उदक-स्पर्श-पूर्वकं स्पृशेत्।
[[12]]