०३ मल-मूत्रोत्सर्जन-विधिः

ततस् स्नानीय-तिलाक्षत-दर्भ-वस्त्रादि-दृष्टादृष्टार्थं स्नानोपकरणं सर्वं सम्भृत्य - तमस्-तिरोहित-दुष्ट-जन्तु-पलायनार्थं वैणव-दण्डं संगृह्य - निर्गम-मार्गं सञ्चाल्य - केशवम् अनुध्यायन्, सङ्कीर्तयन्, गृहान् निर्गत्य - विशुद्ध-देशे निक्षिप्त-स्नानोपकरणः, स्वाश्रमादिभ्यो नैर्ऋत्यान् दिशि द्वित्रेषु पात-प्रमितां भुवम् अतिक्रम्य - क्रिमि-कीटाद्य्-अ-दूषिताः, आखु-कृष्ट–हलोत्खात–कूलस्थ–शर्करामेध्य-संयुक्त–पर-शौच-शिष्ट–ऊषर–वल्मीक–जल-मध्य-स्थ–स्व-गृह-स्थित–सिकता–पांसु–कर्दम-व्यतिरिक्ता मृदस् सङ्गृह्य - शौच-स्थले, यत्र क्वचिद् वा निधाय - सन्त्यक्त-पादुकस् सन्,सुदूरङ् गत्वा, त्रिः कर-ध्वनिङ् कृत्वा - उत्तरीयेण शिरः प्रावृत्य - निवीतं ब्रह्म-सूत्रं दक्षिण-कर्णे आवेष्ट्य - घ्राणम् आस्यञ् चोत्तरीयेण प्रच्छाद्य - अ-याज्ञीयैश् शुष्कैस्-तृणैः पर्णैर् वा भूमिम् आच्छाद्य - दिवा-सन्ध्ययोश् चोधङ्-मुखः, रात्रौ दक्षिणा-मुखः, मौनादि-नियम-युक्तः, देवालय–नदी–गो–ब्राह्मण–अग्नि–सूर्य–चन्द्र–नक्षत्र–वाय्व्-अश्वत्थाद्य्-अन्-अभीमुखः, आराम–उद्यान–तुलसी-वन–सस्य–श्मशान–ऊषर–वल्मीक–गिरि–दुर्ग–गर्त–क्षेत्र–खलाध्वामेध्य–सिकता-च्छाया; गुल्म–चत्वर–वारि–कष्ट–गोष्ठ–वृक्ष-मूल–दर्भ-मूल–तटाकाब्धि–नदी-तट–गोमय–यज्ञ-शाला–शाद्वल–गृहाङ्कण–पाषाण–रन्ध्र–कीटादि-जन्तु-देश-व्यतिरिक्ते; गो–स्त्री–द्विज–देवालयानां सन्निधौ, वाम-हस्तेन मेहनङ् गृहीत्वा, विण्-मूत्रे परित्यजेत् - चिर-कालं तत्र न तिष्टेत् - स्व-मलं न पश्येत् - न निष्ठीवेत् - नोच्छ्वसेत् - आर्द्र-वाससा मल-मूत्रे न विसृजेत् - अ-याज्ञिय-काष्ठादिना पुरीष-लेपं वाम-हस्तेन निघर्षयेत् -

[[10]]

शौच-विधिः

दक्षिणेन हस्तेन पूर्व-स्थापितां मृदङ् गृहीत्वा - शौच-स्थलं गत्वा - गुद–लिङ्ग–पाद–हस्त-शौचार्थं, पूर्व-स्थापितां, तदा स्थापितां वा मृदं चतुर्धा विभज्य - स्थापयित्वा - उदङ्-मुखः परिचारकेणोद्धृत-जल-प्रक्षेप-पूर्वकं शौचङ् कुर्यात् - उद्धृत-तोयाभावे, तटाकादौ शौचङ् कुर्यात् - नदीषु भगवत्-तीर्थेषु च न कदाचिच् छौचङ् कुर्यात् - तटाकादौ बाह्य-मृत्तिकां, नाहरेत् - आकूर्पराद् आमणि-बन्धाद् वा जलान् मृदम् आहृत्य - शोधिते तीरे निक्षिप्य - जलस्यारत्नि-मात्रात् परतः स्थले स्थित्वा - दिवा-सन्ध्ययोश् चोदङ्-मुखः, रात्रौ दक्षिणा-मुखः, सव्यङ् करम् अन्तर्-जानु इतरङ् करं बहिर्-जानु कृत्वा - मृदं दक्षिण-करेण गृहीत्वा - वाम-करे क्षिप्त्वा - गुदं मेहनञ् च विशोधयेत् - मूत्र-पुरीषयोर् युगपत् प्रवृत्तौ पुरीषस्य प्रथमम् - क्रमेण प्रवृत्तौ, यथा-क्रमं शौचं कुर्यात् - अत्र विण्-मूत्रयोस् साहित्ये षण्-मृत्तिकाभिर् मूत्र-शौचं कुर्यात् - पञ्च-दशभिर् द्वादशभिर् वा गुद-शौचं कुर्यात् - गुद-लिङ्गान्यतर-शौचानन्तरं, पञ्चभिष् षड्भिर् वा मृत्तिकाभिर् वाम-हस्तं, प्रक्षाल्य - अन्-अन्तरम् अन्य-शौचं कुर्यात् - मूत्र-शौचे, आर्द्रामलक-मात्रा-मृत्तिकाः, गुद-शौचे प्रथम-मृत्तिका-प्रसृति-मात्रा, द्वितीया तृतीया च, तद्-अर्ध-परिमाणा - इतरास् तु आर्द्रामलक-द्वि-गुणाः तत्-समा वा - सर्वत्र गुद-लिङ्ग-शौचेषु प्रतिमृत्तिकं, अन्तरान्तरा वाम-हस्तं, मृज्-जलाभ्यां प्रक्षालयेत् - यावन् मृल्-लेपो नापैति तावद् दक्षिणेन पाणिना आपो देयाः - कट्य्-आदौ मल-सम्बन्ध-शङ्कायां सप्त-मृत्तिका देयाः - उत्थाय - वामं करं दशभिः, पादौ प्रत्येकं सप्तभिः, संहत-करौ दशभिः सप्तभिर् वा शोधयेत् - मूत्र-मात्र-प्रवृत्तौ पञ्चभिस् त्रिभिर् वा मृत्तिकाभिर् लिङ्ग-शौचं कुर्यात् - वाम-हस्ते पञ्च, हस्तयोस् तिस्रो मृदो देयाः - ततो नख-शोधनं कृत्वा शौच-देशं प्रक्षालयेत् - अ-ज्ञानतस् शुक्लोत्सर्गे तु मूत्र-शौचाद् द्वि-गुणम्, - इदम् अहश् शौचम् - अहश् शौचापेक्षया रात्राव् अर्धम्; पथि-पादः स्त्रीणाम् अर्धम् - ब्रह्म-चारिणो द्वि-गुणम् वान-प्रस्थ-यत्योश् चतुर्-गुणं यथा-शक्त्य् आतुरस्य-एवं, धर्म-शास्त्राद्य्-उक्त-स्व-वर्णाश्रमावस्थाद्य्-अनुगुण-दृष्टादृष्टार्थ-मृत्-सङ्ख्या-वर्ण-परिमाणादि-नियमवत् गन्ध-लेप-क्षय-करम् अर्शः पीडा-रहितं शौचं कुर्यात् - अन्यतो गत्वा करौ पादौ प्रक्ष्याल्य - आसीनो वाम-भागे मूत्रोत्सर्गे चतुरश् षड् वा , पुरीषे ऽष्टौ द्वादश वा गण्डूषान् कृत्वा - मूत्रोत्सर्गे द्विर् आचामेत् - उभयोत्सर्गे त्रिर् आचामेत्।

[[11]]