०२ सङ्कल्पादि

कृतञ् च करिष्यामि भगवन्न् इत्य् एव भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन अभिगमनेन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि

इति सङ्कल्प्य

भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य

इति बल-मन्त्रम् अनुसन्धाय –

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया सक्वीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदम् अभिगमनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति

इति सात्त्विक-त्यागं कृत्वा –

एतत्-क्रिया-विरोधीनि प्राचीनान्य् अ-शुभानि मे।
कर्माण्य् अन्-अन्तान्य् अच्छेद्यान्य् अनादीन्य् अ-शुचीनि च॥
स्वयैव कृपया देवो विनाश्यास्मन् मनो-रथान्।
पूरयत्व् इति सम्प्रार्थ्य मन्त्रम् एतम् उदीरयेत्॥

इति करिष्यमाण-कैङ्कर्य-प्रतिबन्धक-निवृत्तिं सम्प्रार्थ्य –

त्वय्य् आराधन-कामो ऽयं व्रतञ् चरितुम् इच्छति।
सङ्कल्प्य सिद्ध्यै भगवन् पूरयास्य मनो-रथान्॥

इति मन्त्रेण कैङ्कर्य-परिपूर्तिं सम्प्रार्थ्य –

अस्मद्-देशिकम् अस्मदीय-परम् अचार्यान् अ-शेषान् गुरून्
श्रीमल्-लक्ष्मण-योगि-पुङ्गव-महा-पूर्णौ मुनिं यामुनम्। रामं पद्म-विलोचनं मुनि-वरं नाथं शठ-द्वेषिणं
सेनेशं श्रीयम् इन्दिरा-सहचरन् नारायणं संश्रये॥

इति स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरु-परम्परा-प्रपदन-पूर्वकं भगवन्तं प्रपद्य –

सव्यं पादं प्रसार्य श्रित-दुरित-हरं दक्षीणं कुञ्चयित्वा
जानुन्य् आधाय सव्येतरम् इतर-भुजन् नाग-भोगे निधाय। पश्चाद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे
देवी-भूषादि-जुष्टो जनयतु जगतां शर्म वैकुण्ठ-नाथः॥

इति ध्यात्वा॥

[[7]]

ॐ वासु-देवाय नमः- ॐ सङ्कर्षणाय नमः- ॐ प्रद्युम्याय नमः- ॐ अनिरुद्धाय नमः -

इति व्यूह-नाम-चतुष्टयं सङ्कीर्त्य॥

ॐ केशवाय नमः ॐ नारायणाय नमः ॐ माधवाय नमः ॐ गोविन्दाय नमः ॐ विष्णवे नमः ॐ मधुसूदनाय नमः ॐ त्रिविक्रमाय नमः ॐ वामनाय नमः ॐ श्री-धराय नमः ॐ हृषीकेशाय नमः ॐ पद्मनाभाय नमः ॐ दामोदराय नमः

इति द्वादश-व्यूह-नामानि सङ्कीर्त्य -

ॐ मत्स्याय नमः ॐ कूर्माय नमः ॐ वराहाय नमः ॐ नारसिंहाय नमः ॐ वामनाय नमः ॐ परशु-रामाय नमः ॐ श्री-रामाय नमः ॐ बल-रामाय नमः ॐ कृष्णाय नमः ॐ कल्किने नमः

इति दशावतार-नामानि च सङ्कीर्त्य -

ॐ श्रीं श्रियै नमः ॐ भूं भूम्यै नमः ॐ नीं नीलायै नमः

इति देव्यादि-नामान्य् अपि सङ्कीर्त्य -

सत्-सङ्गाद् भव निस्पृहो गुरु-मुखाच्छ्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्म-शकलं प्रक्षीण-कर्मान्तरः।
न्यासाद् एव निरङ्कुशेश्वर-दया-निर्लून-मायान्वयो
हार्दानुग्रह-लब्ध-मध्य-धमनि-द्वाराद् बहिर् निर्गतः॥
मुक्तो ऽर्चिर् दिन-पूर्व-पक्ष-षडुदङ्मासाब्दवातांशुमद्
ग्लौ-विद्युद्-वरुणेन्द्र-धातृ-महितस् सीमान्त-सिन्ध्वाप्लुतः ।
श्री-वैकुण्ठम् उपेत्य नित्यम् अजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥
प्रातर् नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः।
श्लोक-द्वयेन सङ्क्षिप्तं सुव्यक्तं वरदो ऽब्रवीत्॥

इति श्लोक-द्वयं सङ्कीर्त्य - पूर्वाचार्य-प्रणीत-स्तोत्र-रत्न-दया-शतक-मुकुन्द-माला-वेङ्कटेश-सुप्रभाताभीतिस् तव दशावतार-स्तोत्रादीनि स्तोत्राण्य् अपि शृण्वताम् अपि हर्ष-जनकेनोच्चैस् स्वरेण सङ्कीर्त्य तत्-कालोचित-द्वयादि-मन्त्रान् उच्चरन्, अवकाशे सति पश्चिमयाम् अ-कर्तव्यं वेदाभ्यासं च कुर्यात्।

[[8]]

ततस् सन्ध्यायाम् आसन्नायां “सन्धातृत्वेन सर्वेषां सन्ध्या" इति परिकीर्तितं भगवन्तम् उपासितुं जिगमिषुः “श्री-हरिर् हरिर् हरिर्” इति कीर्तयन् शयनाद् उत्थाय - “ओं नमः क्षिति-धराय” इति मन्त्रेण क्षिति-धरं महा-वराहम् अनुध्यायन् वाम-पादं भूमौ विन्यस्य –

नमो ऽस्तु प्रिय-दत्तायै तुभ्यं देवि वसुन्धरे।
त्वम् माता सर्व-लोकानाम् पाद-स्पर्शं क्षमस्व मे॥

इति भुवं प्रपद्य - पद-क्रमान् कुर्वन्,

विष्णोः क्रमोस्यभिमाति हागायत्रेण छन्दसापृथिवी मनुविक्रमे निर्भक्तस्सययन्द्विष्मो विष्णोः क्रमोस्यभिशस्ति हात्रैष्टुभेन छन्दसान्तरीक्ष मनुविक्रमे निर्भ क्तस्सयन्द्विष्मो विष्णोः क्रमोस्यरातीयतो हन्ताजागतेन छन्दसादिवमनुविक्रमे निर्भक्तस्सयन्द्विष्मो विष्णोः क्रमोसीशत्रूयतो हन्तानुष्टुभेन छन्दसादिशोनुविक्रमे निर्भक्तस्स्यन्द्विष्मः" [[TODO: परिष्कार्यम्]]

इति पादेन्द्रियाधि-दैवतं, त्रिविक्रमं, ध्यायेत्॥

[[9]]