द्वितीय-मुद्रण-भूमिका
अयम् आह्निक-ग्रन्थः
पाञ्च-कालिक-नित्य-कर्मानुष्ठान–बद्ध-श्रद्ध–समस्तास्तिक-जन-सुखावगमाय
पूर्वाचार्यासु गृहीताह्निक-ग्रन्थेभ्यस् समुद्धृत्य सङ्कलितः
श्री-काञ्ची-पुर-वासिना
श्रीमद्-वेदान्त-रामानुज-संयमि-सार्वभौम-लब्ध-समस्तार्थ-जातेन
डेङ्कणी-कोट्टै-तिरुमलै–श्री-निवासाचार्येण
अनेक-पण्डित-साहाय्येन परिशोध्य
चॆन्न-पुरी-विराजमानायाम् आनन्द-मुद्राक्षर-शालायां
द्वितीय-वारं मुद्रापितो विजयतेश्वरां विरोधि-कृद्-वत्सरे वैशाख-मासे ।
भो भो आर्य-मिश्राः पञ्च-काल-परायणाः!
पञ्च-काल-प्रकाशो नाम आह्निक-ग्रन्थो ऽयं
बहूनाम् आस्तिकानाम् महात्मनां प्रेरणया
अनेक-सङ्ख्यावत्-साहाय्य-सम्पत्त्या च
दासेन सम्पादितः,
क्रोधि-वत्सरे (1904) सम्मुद्र्य प्राकाश्यत।
तदात्वे मुद्रितास् सर्वे ऽप्य् आदर्शा
नातिचिराद् एव अ-क्रीयन्तेति
निबन्धोयम् आस्तिकानाम् महा-पुरुषाणां बहूनाम्
आदर-पात्रताम् अभजद् अधिकाधिकाम् इति,
यत् सत्यम् आत्मन्य् एव बहु-मानस् सुमहान् आबध्यते,
सदाचार्यानुग्रहो भागवतोत्तमाभिमानश् च
नूनं सर्वम् अपि श्रेयो ऽविकलं सम्पादयतीति
सर्वाभ्युपतगो ऽयम् अंशो ऽनेन व्यक्ती क्रियते।
अथ चास्यादर्शान् बहवो ऽद्यापि चिक्रीषन्तो
लेख-मुखेन निजम् अभिलषितं संसूचयन्तीति
द्वितीय-वारम् अस्य मुद्रणे प्रवृत्तिर् उपाजायत,
प्रधम-मुद्रणे येषां साहाय्यं नालभ्यत
तेषां बहूनां पण्डित-प्रकाण्डानां साह्यम् अस्मिन् मुद्रणे ऽलभ्यत।
अपेक्षित-स्थलेषु मुख्यतमा विषयाश् च
नूत्नतया समयोज्यन्त शास्त्र-सम्मताः।
प्रथम-मुद्रणे ऽनुबन्धतया मुद्रितानि स्तोत्राणि तु
ग्रन्थ-विसरभयान् नाद्यामुद्र्यन्त।
सन्त्य् एव तेषां मुद्रितानि प्रत्येक-पुस्तकानीति
न ततस् संभाव्यते क्वापि न्यूनता,
सन्ध्या-वन्दन-मन्त्र-विपृतिः परं नातिसङ्क्षेप-विस्तरा
अवश्यापेक्षितार्थ-मात्र-बोधिका ऽत्रामुद्र्यत।
अग्नि-सन्धान-प्रत्याब्दिक-श्राद्धयोः प्रयोगौ
परम् अत्य्-आवश्यकत्वाद्
अस्मिन् पर्याये ऽत्र नूत्नतया समयोज्येताम्।
निबन्धो ऽयं यथा पूर्व-पर्यायं
ततो ऽधिकम् एव वा
आस्तिकानां प्रीति-पात्रं भविष्यतीति
सुदृढं विश्वसिमि।
मुद्रण-पर्याये ऽत्र शोधनादिषु साहाय्यम्
अव्याजेनादरेणाचरितवतां सङ्ख्यावतां सुमहान्तं परिश्रमं
मूर्धेतरेण न प्रतिकर्तुं शकोनमिति च निवेदयामि।
डॆङ्कणीकॊट्टै तिरुमलै श्री-निवास-दासः।
विषयानुक्रमणिका
ब्राह्म-मुहूर्त-कर्तव्यम् [१] श्री-वङ्गीश-कृत-प्रातर्निर्वेदि-कारिका [५] अभिगमन-प्रकरणम् [७] मल-मूत्रोत्सर्जन-विधिः [९] शौच-विधिः [१०] आचमन-विधिः [१२] दन्त-धावन-विधिः [१३] भगवच्-छास्त्रोक्त-स्नान-विधिः [१४] धर्म-शास्त्रोक्त-स्नान-विधिः [१९] ऊर्ध्व-पुण्ड्र-विधिः [३०] स्नानाङ्ग-देवर्षि-पितृ-तर्पण-विधिः [३३] प्रातस् सन्ध्या-वन्दन-विधिः [३५] मूल-मन्त्र-जप-विधिः [४४] द्वय-जप-विधिः [५१] चरम-श्लोक-जप-विधिः [५२] द्वादशाक्षर-जप-विधिः [५४] षड्-अक्षर-जप-विधिः [५५] आधार-शक्त्यादि-तर्पण-क्रमः [५७] देवर्षि-काण्डर्षि-तर्पण-विधिः [५९] वस्त्र-निष्पीडन-क्रमः [६०] ब्रह्म-यज्ञ-क्रमः [६१] गृहागमन-प्रकारः [६४] औपासन-विधिः [६६] अभिगमनाराधन-क्रमः [७०] उपादान-प्रकरणम् [७१] समित्-तुलसी-दर्भाहरण-विधिः [७३] आन्तरोपादान-क्रमः [७५] इज्या-प्रकरणम् [७६] माध्याह्निक-स्नान-विधिः [७६] माध्याह्निक-सन्ध्या-वन्दन-विधिः [७८] भगगद्-आराधन-क्रमः [८१] वैश्वदेव-क्रमः [१२०] भोजन-क्रमः [१३०] ताम्बूल-चर्वण-क्रमः [१३७] स्वाध्याय-प्रकरणम् [१३७] सायं सन्ध्या-वन्दन-विधिः [१३९] प्रदोषादिषु जपादि-नियम-विधिः [१४३] योगप्रकरणम् [१४४] अष्टाङ्ग-योग-क्रमः [१४५] श्री-वैकुण्ठ-चिन्तन-प्रकारः [१४८] ग्रन्थोपसंहारः [१५६]
श्री श्री-निवास-पर-ब्रह्मणे नमः,
श्रीमते रामानुजाय नमः,
श्रीमते निगमान्त-महा-देशिकाय नमः,
पञ्च-काल-प्रकाशः
अनुबद्धः-
श्रीसन्ध्यर्थ-दीपिका
विषयानुक्रमणिका,
विषयानुक्रमः
अग्नि-सन्धानक्रमः
श्राद्धप्रयोगः