श्रीः
॥ कूश्माण्डहोमविधिः ॥
अमावास्यायां, पौर्णमास्यां वा अन्यत्र वा विहितकाले सर्वाणि केशश्मश्रुनखालोमानि वापयित्वा, स्नात्वा, प्रातरौपासनं कृत्वा, ‘ओम् नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नम॑ᳶ पृथि॒व्यै ॥’, ‘सप्र॑थ स॒भाम्मे॑ गोपाय । ये च॒ सभ्या᳚᳚स्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑तᳵ कुरु । सर्व॒मायु॒रुपा॑सताम् ।’ ॥ ‘ओं सर्वेभ्यः श्रीवैष्णवेभ्यो नमः’ इति श्रीवैष्णवान् प्रणम्य, ‘अशेषे हे परिषत् भवत्पादमूले मया समर्पिताम् इमां सौवर्णीं यत्किञ्चिद्दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य …. गोत्रस्य …. शर्मणः सपत्नीकस्य मम (विवाहप्रभृति एतत्क्षणपर्यन्तं - सेतुस्नानाकरणे) (तत्करणे तु - सेतुस्नानप्रभृति एतत्क्षणपर्यन्तम् इति) (प्रपन्नस्य तु प्रपत्त्युत्तरक्षणमारभ्य एतत्क्षणपर्यन्तमिति निर्देशपूर्वकं) संभावितबुद्धिपूर्वक, अबुद्धिपूर्वक, अकृत्यकरण, कृत्याकरण, भगवदपचार, भागवतापचार, असह्यापचाररूप, नानाविधानन्तापचार, अस्पृश्यस्पर्शन, अभक्ष्यभक्षण, अभोज्यभोजन, अपेयपान, अपाङ्क्तेयसहभोजन, अप्रवेश्यप्रवेशन, असंभाष्यसंभाषणादि जनित भगवन्निग्रहसङ्कल्पशान्तिद्वारा, भ्रूणहत्याया अर्वाञ्चि एनांसि यावन्ति मयि संभवन्ति तावतामेनसां निर्हरणद्वारा च भगवत्प्रीत्यर्थं सकृत्कूश्माण्डैर्होतुं योग्यतासिद्धिमनुगृहाण’ इति संप्रार्थ्य, त्रिः प्राणानायम्य, गुरुपरम्परामनुसन्धाय, ‘स्वशेषभूतेन मया स्वीयैः सर्वपरिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥’ इत्युक्त्वा, ‘हरिरोंतत् …. भगवत्प्रीत्यर्थं …. गोत्रस्य शर्मणः सपत्नीकस्य मम (विवाहप्रभृति एतत्क्षणपर्यन्तम् = इति सेतस्नानाकरणे) (तत्करणे तु - सेतुस्नानप्रभृति एतत्क्षणपर्यन्तम् इति) (प्रपन्नस्य तु प्रपत्त्युत्तरक्षणमारभ्य एतत्क्षणपर्यन्तमिति निर्देशपूर्वकं) संभावितबुद्धिपूर्वक, अबुद्धिपूर्वक, अकृत्यकरण, कृत्याकरण, भगवदपचार, भागवतापचार, असह्यापचाररूप, नानाविधानन्तापचार, अस्पृश्यस्पर्शन, अभक्ष्यभक्षण, अभोज्यभोजन, अपेयपान, अपाङ्क्तेयसहभोजन, अप्रवेश्यप्रवेशन, असंभाष्यसंभाषणादि जनित भगवन्निग्रहसङ्कल्पशान्तिद्वारा, भूणहत्याया अर्वाश्चि एनांसि यावन्ति मयि संभवन्ति तावतामेनसां निर्हरणद्वारा च भगवत्प्रीत्यर्थं सकृत्कूष्माण्डैर्होष्यामि’ इति सङ्कल्प्य (‘कृतञ्चेति मन्त्रं, बलमन्त्रं च अनुसन्धाय) पत्न्यर्थं पुनः प्राणानायम्य, पूर्ववत् सङ्कल्प्य, सात्त्विकत्यागं कृत्वा, स्थालीपाकवत् हविः श्रपणादिकं, पात्रसादनकाले चरुः, समिद्द्वयं च सादयित्वा अग्निमुखान्तं कृत्वा, अवदानधर्मेण अवदाय, सावित्रीं पुरोऽनुवाक्यामनूच्य, सावित्र्यैव याज्यया जुहोति ॥
‘ओम् तथ्स॑वि॒तुर्वरे᳚᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ᳶ प्रचो॒दया॒दोम् तथ्स॑वि॒तुर्वरे᳚᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ᳶ प्रचो॒दया॒त्स्वाहा᳚᳚ ॥ (सवित्र इदं)
स्विष्टकृदर्थमवदाय, अन्तः परिधि सादयित्वा, ‘यद्देवा देवहेळनं’ इत्यनुवाकत्रयेण आज्याहुतीर्जहोति ॥
[अथ गृहप्रीतिं अभ्युदयं तदङ्गपुण्याहवाचनञ्च कृत्वा, (औपासनाग्निः अन्यत्र रक्षितश्चेत् ) शुचौ देशे स्थण्डिले दक्षिणतः प्राचीस्तिस्रः पश्चिमतः उदीचीश्च तिस्रो लेखाः उल्लिख्य, शकलं निधाय, सशेषमद्भिः अवोक्ष्य, शकलं नैर्ऋत्यां निरस्य, अप उपस्पृश्य, ‘भूर्भुवस्सुवरोम्’ इति रक्षितमग्निं प्रतिष्ठाप्य, अवोक्षणतोयशेषं प्रागुत्सिच्य, प्राक्तोयमन्यन्निधाय, (औपासनाग्निः पूर्वं स्थण्डिल एव निहितश्चेत् तम्) अग्निमिध्वा प्रागग्रैः उदगग्रैश्च दर्भैः अग्निं, पुरस्तात् दक्षिणतः पश्चात् उत्तरतः परिस्तीर्य, दक्षिणानुत्तरान् उत्तरानधरांश्च कृत्वा, अग्नेरुत्तरतः दर्भान् संस्तीर्य, तेषु द्वन्द्वं न्यञ्चि पात्राणि - दर्व्याज्यस्थाल्यौ, प्रोक्षणीप्रणीतापात्रे, इध्मेतरदर्व्यौ च - सादयित्वा, (पवित्रयोस्संस्कारः) समौ साग्रौ दर्भौ तृणं काष्ठं वाऽन्तर्धाय छित्वा, प्रादेशमात्रे पवित्रे कृत्वा, अप उपस्पृश्य, अद्भिरनुमृज्य, सपवित्रेण पाणिना पात्राणि संमृश्य, (प्रोक्षणीसंस्कारः) अग्नेः पश्चात् उदगग्रान् दर्भान् संस्तीर्य, तेषु प्रोक्षणीपात्रं निधाय, अक्षतैस्सह अप आसिच्य, उदगग्राभ्यां पवित्राभ्यां प्राचीः त्रिरुत्पूय, पात्राण्युत्तानानि कृत्वा, इध्मञ्च विस्रस्य, सपवित्रेण उत्तानपाणिना पात्राणि सर्वाभिरद्भिः त्रिः प्रोक्ष्य, प्रोक्षणीपात्रं दक्षिणतो निधाय, (प्रणीतासंस्कारः) प्रणीतापात्रमादाय, अग्नेः पश्चात् दर्भेषु निधाय, तस्मिन्नप आनीय, उदगग्राभ्यां पवित्राभ्यां ता अपः त्रिरुत्पूय, समं प्राणैर्हृत्वा, उत्तरेणाग्निं पृथग्दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य, ‘वरुणाय नमः सकलाराधनैः स्वर्चितम्’ इत्यभ्यर्च्य, ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य, ‘अस्मिन् कूश्माण्डहोमकर्मणि ब्रह्माणं त्वां वृणे’, ‘ब्रह्मणे नमः सकलाराधनैस्स्वर्चितम्’ इत्यभ्यर्च्य, (आज्यसंस्कारः) आज्यं विलाप्य, अग्नेः पश्चादाज्यस्थालीं निधाय, तस्यामाज्यं निरूप्य, उदीचोऽङ्गारान् परिस्तरणाद्बहिः उदीच्यां निरूह्य, तेष्वाज्यमधिश्रित्य, ज्वलता तृणेनावद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य, त्रिः पर्यग्निकृत्वा, उदगुद्वास्य, अङ्गारानग्नौ प्रत्यूह्य, अग्नेः पश्चात् दर्भेष्वाज्यस्यालीं निधाय, उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रे (पवित्रग्रन्थिं विस्त्रस्य, अप उपस्पृश्य) प्रागग्रमग्नौ प्रहरति । (दर्वीसंस्कारः) येन जुहोति तदग्नौ प्रतितप्य, दर्वीद्वयं दभैस्संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, निधाय, दर्भानद्भिः संस्पर्श्य अग्नौ प्रहरति ॥
अथ परिधीन् परिदधाति - अग्नेः पश्चात् स्थविष्ठो मध्यमः (उदगग्रः परिधिः) अणीयान् द्राघीयान् दक्षिणार्ध्यः (प्रागग्रः परिधिः) । अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः (प्रागग्रः परिधिः) एतान् परिधीन् अन्योन्यसंसृष्टान् कृत्वा द्वे आघारसमिधौ मध्यमं परिधिमुपस्पृश्य, ऊर्ध्वे दक्षिणत उत्तरतश्च अग्नावादधाति ॥
अथाग्निं परिषिञ्चति - ‘अदि॒तेऽनु॑मन्यस्व’, (दक्षिणतः प्राचीनम्), ‘अनु॑म॒तेऽनु॑मन्यस्व’, (पश्चादुदीचीनम्), ‘सर॑स्व॒तेऽनु॑मन्यस्व’, (उत्तरतः प्राचीनम्), ‘देव॑ सवितः॒ प्रसु॑व’, इति समन्तं परिषिच्य, इध्ममाज्येनाभ्यज्य, ‘अस्मिन् कूश्माण्डहोमकर्मणि ब्रह्मन् इध्ममाधास्ये’ इति ब्रह्माणं पृष्ट्वा (ओम् आधत्स्व) इति ब्रह्मणा प्रत्युक्ते इध्ममग्नावादध्यात् ॥
अथाघारावाघारयति - प्रजापतिं मनसा ध्यायन् इतरदर्व्या जुहोति - वायव्यादाग्नेयान्तं, स्वाहा᳚᳚ - प्रजापतय इदं न मम । प्रधानदर्व्या जुहोति - नैर्ऋतादेशानान्तं, स्वाहा᳚᳚ - इन्द्रायेदं न मम ॥ अथाज्यभागौ यजति - (வடபாகத்தில்) ‘अ॒ग्नये॒ स्वाहा᳚᳚’ - अग्नय इदं न मम । (தென்பாகத்தில்) ‘सोमा॑य॒ स्वाहा᳚᳚’ - सोमायेदं न मम ॥ * सङ्कल्पप्रभृति मध्ये सम्भावितसमस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होच्यामि (நடுவில்) ‘ओम् भूर्भुव॒स्सुव॒स्स्वाहा᳚᳚’ - प्रजापतय इदं न मम ॥
(*अथात्र चरुहोमपक्षे - (मध्ये) ‘अ॒ग्नये॒ स्वाहा᳚᳚’ - अग्नय इदं न मम । सङ्कल्पप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावितसमस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि - ‘ओम् भूर्भुव॒स्सुव॒स्स्वाहा᳚᳚’ प्रजापतय इदं न मम । चरुं श्रपयित्वा अभिघार्य उदीचीनमुद्वास्य प्रतिष्ठितमभिधार्य प्रधानदर्व्यामुपस्तीर्य चरुं द्विरवदाय (पञ्चावत्तिनां त्रिः) सकृदभिघार्य, ‘ओम् तथ्स॑वि॒तुर्वरे᳚᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ᳶ प्रचो॒दया॒दोम् तथ्स॑वि॒तुर्वरे᳚᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ᳶ प्रचो॒दया॒त्स्वाहा᳚᳚ - देवाय सवित्र इदं न मम । पुनः पूर्ववत् दर्व्यामुपस्तीर्य, सकृदवदाय (पञ्चावत्तिनां द्विः) अन्तःपरिधि सादयित्वा, ‘यद्देवाः’ इत्यादिमन्त्रैः आज्याहुतयः कार्याः ॥)]
यद्दे॑वा देव॒हेळ॑न॒न्देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚᳚न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त स्वाहा᳚᳚ ॥ १ ॥ (देवेभ्य आदित्येभ्य इदं न मम)
देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म । तस्मा᳚᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑स॒स्स्वाहा᳚᳚ ॥ २ ॥ (विश्वेभ्यो देवेभ्य इदं न मम)
ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म स्वाहा᳚᳚ ॥ ३ ॥ (द्यावापृथिवीभ्यां सरस्वत्या इदं न मम)
इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म स्वाहा᳚᳚ ॥ ४ ॥ (इन्द्राग्निभ्यां मित्रावरुणाभ्यां सोमाधातृबृहस्पतिभ्य इदं न मम)
स॒जा॒त॒शँ॒सादु॒त जा॑मिशँ॒साज्ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टन्दे॒वकृ॑त॒य्यँदेन॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि॒ स्वाहा᳚᳚ ॥ ५ ॥ (अग्नये जातवेदसे इदं न मम)
यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याँ॑ शि॒श्नैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार््ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता स्वाहा᳚᳚ ॥ ६ ॥ (अग्नये गार्हपत्याय इदं न मम)
येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्य॒न्तम॑सो निर्मु॒मोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हञ्ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚᳚ख्षि॒ स्वाहा᳚᳚ ॥ ७ ॥ (अग्नये ज्योतिषे इदं न मम)
यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि॒ स्वाहा᳚᳚ ॥ ८ ॥ (अग्नये इदं न मम)
यन्मयि॑ मा॒ता गर्भे॑ स॒ति । एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚᳚ ॥ ९ ॥ (अग्नये गार्हपत्याय इदं न मम)
यदा॑पि॒पेष॑ मा॒तर॑म्पि॒तर᳚᳚म् । पु॒त्रᳶ प्रमु॑दितो॒ धयन्न्॑ । अहिँ॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि॒ स्वाहा᳚᳚ ॥ १० ॥ (अग्नये इदं न मम)
यद॒न्तरि॑ख्षम्पृथि॒वीमु॒त द्याम् । यन्मा॒तर॑म्पि॒तरँ॑व्वा जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚᳚ ॥ ११ ॥ (अग्नये गार्हपत्याय इदं न मम)
यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा᳚᳚ । यदेन॑श्चकृ॒मा नूत॑नँ॒य्यत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚᳚ ॥ १२ ॥ (अग्नये गार्हपत्याय इदं न मम)
अति॑क्रामामि दुरि॒तय्यँदेनः॑ । जहा॑मि रि॒प्रम्प॑र॒मे स॒धस्थे᳚᳚ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृता॒न्नु लो॒कँ स्वाहा᳚᳚ ॥ १३ ॥ (अग्नये इदं न मम)
त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚᳚ ॥ १४ ॥ (अग्नये गार्हपत्याय इदं न मम)
दि॒वि जा॒ता अ॒फ्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नी॒स्स्वाहा᳚᳚ ॥ १५ ॥ (अद्भ्यः शुन्धनीभ्यः इदं न मम)
यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म । यद्वा॒ दिवा॒ नूत॑नँ॒य्यत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत न॒स्स्वाहा᳚᳚ ॥ १६ ॥ (अद्भ्यो हिरण्यवर्णाभ्यः इदं न मम)
इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युराच॑के॒ स्वाहा᳚᳚ ॥ १७ ॥ (वरुणाय इदं न मम)
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षी॒स्स्वाहा᳚᳚ ॥ १८ ॥ (वरुणाय इदं न मम)
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् स्वाहा᳚᳚ ॥ १९ ॥ (अग्नीवरुणाभ्याम् इदं न मम)
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यख्ष्व नो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि॒ स्वाहा᳚᳚ ॥ २० ॥ (अग्नीवरुणाभ्याम् इदं न मम)
त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जँ स्वाहा᳚᳚ ॥ २१ ॥ (अग्नये अयसे इदं न मम)
यददी᳚᳚व्यन्नृ॒णम॒हं ब॒भूवादि॑थ्सन्वा सञ्ज॒गर॒ जने᳚᳚भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च सव्विँदा॒नौ प्रमु॑ञ्चताँ॒ स्वाहा᳚᳚ ॥ २२ ॥ (अग्नीन्द्राभ्याम् इदं न मम)
यद्धस्ता᳚᳚भ्याञ्च॒कर॒ किल्बि॑षाण्य॒ख्षाणा᳚᳚व्वँ॒ग्नुमु॑प॒जिघ्न॑मानः । उ॒ग्रं॒प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑फ्स॒रसा॒वनु॑दत्तामृ॒णानि॒ स्वाहा᳚᳚ ॥ २३ ॥ (उग्रंपश्याराष्ट्रभृद्भ्यां अप्सरोभ्य इदं न मम)
उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒ख्षवृ॑त्त॒मनु॑दत्तमे॒तत् । नेन्न॑ ऋ॒णानृ॒णव॒ इथ्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॒ स्वाहा᳚᳚ ॥ २४ ॥ (उग्रंपश्याराष्ट्रभृद्भ्यां च अप्सरोभ्य इदं न मम)
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । ख्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाँ॑सि शिश्रथᳵ कृ॒तानि॒ स्वाहा᳚᳚ ॥ २५ ॥ (वरुणायेदं न मम)
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॒ स्वाहा᳚᳚ ॥ २६ ॥ (वरुणायेदं न मम)
इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युराच॑के॒ स्वाहा᳚᳚ ॥ २७ ॥ (वरुणाय इदं न मम)
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षी॒स्स्वाहा᳚᳚ ॥ २८ ॥ (वरुणाय इदं न मम)
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् स्वाहा᳚᳚ ॥ २९ ॥ (अग्नीवरुणाभ्याम् इदं न मम)
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यख्ष्व नो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि॒ स्वाहा᳚᳚ ॥ ३० ॥ (अग्नीवरुणाभ्याम् इदं न मम)
सङ्कु॑सुको॒ विकु॑सुको निर््ऋ॒थो यश्च॑ निस्व॒नः । तेऽस्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीचतँ॒ स्वाहा᳚᳚ ॥ ३१ ॥ (सङ्कुसुकविकुसुकनिर्ऋथनिस्स्वनेभ्य इदं न मम)
निर्य॑क्ष्ममचीचते कृ॒त्यान्निऱ्ऋ॑तिञ्च । तेन॒ योऽस्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि॒ स्वाहा᳚᳚ ॥ ३२ ॥ (निर्यक्ष्मनिर्ऋतिभ्याम् इदं न मम)
दु॒श्शँ॒सा॒नु॒शँ॒साभ्या᳚᳚ङ्घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योऽस्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि॒ स्वाहा᳚᳚ ॥ ३३ ॥ (दुश्शँसानुशँसाभ्यां घणानुघणाभ्यामिदं न मम)
सव्वँर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टँ॒ स्वाहा᳚᳚ ॥ ३४ ॥ (त्वष्ट्र इदं न मम)
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚᳚ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒यक्ष्मँ॑ सुवामि ते॒ स्वाहा᳚᳚ ॥ ३५ ॥ (अग्नये इदं न मम)
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भिर॑ख्षतादि॒मँ स्वाहा᳚᳚ ॥ ३६ ॥ (अग्नये इदं न मम)
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सँशि॑शाधि । मा॒तेवा᳚᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॒त् स्वाहा᳚᳚ ॥ ३७ ॥ (विश्वेभ्यो देवेभ्यः इदं न मम)
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाँ॒ स्वाहा᳚᳚ ॥ ३८ ॥ (अग्नये पवमानाय इदं न मम)
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य᳚᳚म् । दध॑द्र॒यिं मयि॒ पोषँ॒ स्वाहा᳚᳚ ॥ ३९ ॥ (अग्नये पवमानाय इदं न मम)
अ॒ग्निर् ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यँ स्वाहा᳚᳚ ॥ ४० ॥ (अग्नये पवमानाय इदं न मम)
अग्ने॑ जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ळ॒ञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ स्वाहा᳚᳚ ॥ ४१ ॥ (अग्नये जातवेदसे इदं न मम)
सह॑सा जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्रणु॑दा नस्स॒पत्ना॒न् स्वाहा᳚᳚ ॥ ४२ ॥ (अग्नये जातवेदेसे इदं न मम)
अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाँ॑सति । ताँस्त्वव्वृँ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒माभ॑र॒ स्वाहा᳚᳚ ॥ ४३ ॥ (अग्नये इदं न मम)
अग्ने॒ यो नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ । तव्वँ॒यँ स॒मिध॑ङ्कृ॒त्वा तुभ्य॑म॒ग्नेऽपि॑ दध्मसि॒ स्वाहा᳚᳚ ॥ ४४ ॥ (अग्नये इदं न मम)
यो न॒श्शपा॒दश॑पतो॒ यश्च॑ न॒श्शप॑त॒श्शपा᳚᳚त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पँ समू॑हताँ॒ स्वाहा᳚᳚ ॥ ४५ ॥ (उषोनिम्रुग्भ्याम् इदं न मम)
यो न॑स्स॒पत्नो॒ यो रणो॒ मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न स्वाहा᳚᳚ ॥ ४६ ॥ (अग्नय इदं न मम)
यो मान्द्वेष्टि॑ जातवेदो॒ यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् । सर्वाँ॒स्तान॑ग्ने॒ सन्द॑ह॒ याँश्चा॒हन्द्वेष्मि॒ ये च॒ माँ स्वाहा᳚᳚ ॥ ४७ ॥ (अग्नये इदं न मम)
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिफ्सा᳚᳚च्च॒ सर्वाँ॒स्तान्म॑ष्म॒षा कु॑रु॒ स्वाहा᳚᳚ ॥ ४८ ॥ (अग्नये इदं न मम)
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तव्वीँ॒र्यम् बल᳚᳚म् । सँशि॑तङ्क्ष॒त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑त॒स्स्वाहा᳚᳚ ॥ ४९ ॥ (अग्नये इदं न मम)
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल᳚᳚म् । ख्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाम् अ॒हँ स्वाहा᳚᳚ ॥ ५० ॥ (ब्रह्मण इदं न मम)
पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्र॑म्म॒ आगा॒त्पुनः॑ प्रा॒णः पुन॒राधी॑तं म॒ आगा᳚᳚त् । वै॒श्वा॒न॒रो मेऽद॑ब्धस्तनू॒पा अव॑बाधतान्दुरि॒तानि॒ विश्वा॒ स्वाहा᳚᳚ ॥ ५१ ॥ (अग्नये वैश्वानराय इदं न मम)
सिँ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा᳚᳚ह्म॒णे सूर्ये॒ या । इन्द्रँ॒य्या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना स्वाहा᳚᳚ ॥ ५२ ॥ (त्विष्यै देव्यै इदं न मम)
या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्रँ॒य्या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना स्वाहा᳚᳚ ॥ ५३ ॥ (त्विष्यै देव्यै इदं न मम)
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ । इन्द्रँ॒य्या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना स्वाहा᳚᳚ ॥ ५४ ॥ (त्विष्यै देव्यै इदं न मम)
रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे᳚᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚᳚ । इन्द्रँ॒य्या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना स्वाहा᳚ ॥ ५५ ॥ (त्विष्यै देव्यै इदं न मम)
(५६-५९) ‘अग्नेऽभ्यावर्तिन्निति चतसॄणाम् अग्निर्ऋषिः त्रिष्टुप् छन्दः अभ्यावर्तिनो देवता - आज्यहोमे विनियोगः ॥’
अग्ने᳚᳚ऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚᳚ प्र॒जया॒ धने॑न॒ स्वाहा᳚ ॥ ५६ ॥ (अग्नये अभ्यावर्तिन इदं न मम) ।
अग्ने᳚᳚ अङ्गिरश्श॒तन्ते॑ सन्त्वा॒वृत॑स्स॒हस्र॑न्त उपा॒वृतः॑ । तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि॒ स्वाहा᳚ ॥ ५७ ॥ (अग्नये अभ्यावर्तिन इदं न मम)
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नᳶ पाहि वि॒श्वत॒स्स्वाहा᳚ ॥ ५८ ॥ (अग्नये अभ्यावर्तिन इदं न मम) ।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॒ स्वाहा᳚ ॥ ५९ ॥ (अग्नये अभ्यावर्तिन इदं न मम) ॥
(समित्पाणिः अग्नेर्दक्षिणतः पत्न्या सह उदङ्मुखः तिष्ठन् ‘वैश्वानराय प्रतिवेदयामः’ इति द्वादशर्चेन सूक्तेन अग्निमुपस्थाय, ‘यन्मे मनसा’ इत्यनया स्वाहान्ततया समिधमग्नौ प्रक्षिप्य, पत्न्यर्थमपि मन्त्रवृत्त्या समिधमाधाय, स्विष्टकृतं जुहोति ।)
उत्थाय, समिधमाधाय अञ्जलिं बद्ध्वा,
१. वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णँ स॑ङ्ग॒रो दे॒वता॑सु । स ए॒तान्पाशा᳚᳚न्प्र॒मुच॒न्प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ॥
२. वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यथ्स॑ङ्ग॒रम॒भिधावा᳚᳚म्या॒शाम् । अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तथ्सु॑वामि ॥
३. अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् ॥
४. विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒स्सर्वा᳚᳚न्प॒थो अ॑नुष्व ॥
५. स प्र॑जा॒नन्प्रति॑गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तञ्ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒सञ्च॑रेम ॥
६. त॒तन्तन्तु॒मन्वेके॒ अनु॒सञ्च॑रन्ति॒ येषा᳚᳚न्द॒त्तं पित्र्य॒माय॑नवत् । अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातु॒ञ्चेच्छ॒क्नवाँ॒सस्स्व॒र्ग ए॑षाम् ॥
७. आर॑भेथा॒मनु॒ सँर॑भेथाँ समा॒नं पन्था॑मवथो घृ॒तेन॑ । यद्वां᳚᳚ पू॒र्तं परि॑विष्ट॒य्यँद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सँर॑भेथाम् ॥
८. यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याय्यँन्मा॒तरं॑ पि॒तर॑व्वाँ जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गाऱ्ह॑पत्य॒ उन्नो॑ नेषद्दुरि॒ता यानि॑ चकृ॒म ॥
९. भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑ख्षम॒भिश॑स्त एनः । द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑विथ्सि लो॒कात् ॥
१०. यत्र॑ सु॒हार्द॑स्सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोग॑न्त॒न्वाँ॒ स्वाया᳚᳚म् । अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तर॑ञ्च पु॒त्रम् ॥
११. यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा᳚᳚स्यन्नु॒त वा॑ करि॒ष्यन्न् । यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु ।
१२. यदन्न॒मद्मि॑ बहु॒धा विरू॑प॒व्वाँसो॒ हिर॑ण्यमु॒त गाम॒जामवि᳚᳚म् । यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु ॥
समित्आधानम् -यन्मे॒ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन । सर्वस्मा᳚᳚न्मेळि॑तो मो॒ग्धि॒ त्वँ हि वेत्थ॑ यथात॒थँ स्वाहा᳚ ॥
पत्न्यर्थं पुनश्च अनुसन्धाय, समिधावग्नौ प्रक्षिपेत् ॥
ह॒व्य॒वाह॑मभिमाति॒षाह᳚᳚म् । र॒ख्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् । अ॒ग्निँ स्वि॑ष्ट॒कृत॒मा हु॑वे॒मोम् ॥ इति पुरोऽनुवाक्यामनूच्य, स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रुन्न॒ᳶ पन्था᳚᳚म्प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयु॒स्स्वाहा᳚ ॥
इति याज्यया ‘अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ इति जुहोति ॥ (अग्नये स्विष्टकृत इदं न मम) ॥
जयादि प्रतिपद्यते । (परिधिप्रगरः – ब्रह्मोद्वासनम् – अभ्युदयः – पुण्याहम् – ब्राह्मणभोजनम् ॥)
॥ कूश्माण्डहोमः समाप्तः ॥