अथ यतीनां नित्यधर्माः
ब्राह्मे मुहूर्ते
‘उत्तिष्ठ ब्रह्मणस्पते । देव यन्तस्त्वेमहे ।
மலமூத்ரங்களைக் கழித்து க்ருஹஸ்தனுக்குக் கூறிய முறையை விட இரண்டு பங்கு அதிகமாக ப்ரக்ஷாளனம் செய்து கொள்ள வேண்டும். ஒரு நாளில் ஒரு தடவைதான் ஸ்நாநம் செய்ய வேண்டும்.
கௌபீனம் (கோவணம்) தரித்தல், இடுப்பில் மட்டும் வஸ்த்ரம் தரித்தல், ஊர்த்வபுண்ட்ரம் தரித்தல், எப்பொழுதும் மௌஞ்சி-மான் தோல் - பலாசதண்டம் இவற்றைத் தரித்தல், தேவர்ஷி பித்ருதர்ப் பணங்கள் - ஸந்தயாவந்தனம் - ஜபம் - உபஸ்தானம் - ஆதாரசக்த் யாதி தர்ப்பணம் - ப்ரஹ்மயஜ்ஞம் - ஸமிதாதானம்- ஆசார்யாதீன னாய் அங்கங்களுடன் கூடிய வேதத்தை அத்யயனம் செய்தல் மாத்யாஹ்நிகம் - பிக்ஷை எடுத்தல் - அதை ஆசார்யனுக்குக் காட்டி அவனிடமிருந்து உத்தரவு பெற்று - பகவானுக்கு நிவேதனம் செய்து அதை புஜித்தல் - மீண்டும் வேதாத்யயனம் செய்தல், ஸாயங்காலவேளை வந்ததும் ஸாயம்ஸந்த்யை - ஸ்மிதாதானம் - மீண்டும் இரவில் பிக்ஷை எடுத்துப் புஜித்தல் - மீண்டும் வேதாத்ய யனம் செய்தல் ஆகியவை உபநயனம் பஞ்சஸம்ஸ்காரம் பெற்ற ப்ரஹ்மசாரிகளுடைய தர்மங்கள்.
இவர்களுக்கு வஸ்த்ர நிஷ்பீடனம் சொல்லப்படவில்லை.
பிறகு ஸந்ந்யாஸிகளின் தர்மங்கள்
ஸந்ந்யாஸிகள் ஓரளவு ஸம்ஸ்க்ருதஜ்ஞானம் உள்ளவர்களா கவே இருப்பார்கள் ஆகையாலும், மற்றைய ஆச்ரமிகளுக்கு இவை வேண்டாவாகையாலும் இந்த ப்ரகரணத்திற்குத் தமிழ் ஆக்கம் தரப்படவில்லை.
[[622]]
श्रीर्वष्णव सदाचारनिर्णये
उप प्रयन्तु मरुतस्सुदानवः ।
इन्द्र प्राशुर्भवासचा । प्रेतु ब्रह्मणस्पतिः ।
प्रदेव्ये तु सूनृता । अच्छावीरं न पङ्क्तिराधसम् ।
देवा यज्ञं नयन्तु नः ।’
इति मन्त्रेण शयनादुत्थाय ‘हरिहरिरिति’ सप्तकृत्वः उच्चार्य, “ग्राहग्रस्ते” इत्यादिप्रहर्षजनकेन उच्चैस्स्वरेण सङ्कीर्तयेत्’ इत्यन्तं पूर्ववद् अनुष्ठाय, ‘सखा मा गोपाय’ इति त्रिदण्डम् आदाय, ‘ओम् नमः क्षितिधराय’ इति मन्त्रेण महावराहं क्षितिधरम् अनुध्यायन्-
டு
“नमोस्तु प्रियदत्तायै तुभ्यं देवि ! वसुन्धरे । त्वं माता सर्वलोकानां पादस्पर्शं क्षमस्व मे ॥ समुद्रवसने! देवि ! पर्वतस्तनमण्डिते ! विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥”
इति वामपादविन्यासपूर्वकं भूमि प्रार्थ्य,
‘विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथि-
वीमनु विक्रमे निर्भक्तस्त्रयं द्विष्मो विष्णोः क्रमोऽस्यभि-
शस्तिहा वैष्टुभेन छन्दसाऽन्तरिक्षमन विक्रमे निर्भक्त-
स्मयं द्विष्मो विष्णोः क्रमोsस्यरातीयतो हन्ता जाग-
तेन छन्दसा दिवमनुविक्रमे निर्भक्तस्तयं द्विष्मो विष्णोः
Dयतिधर्माः
क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु-
विक्रमे निर्भक्तस्तयं द्विष्मः ॥’
[[623]]
इति मन्त्रेण त्रिविक्रमं ध्यायन् पदक्रमान् कृत्वा । ‘केशवाय नमः’ इति केशवम् अनुध्यायन् स्नानदेशं गच्छेत्, ‘विष्णोस्स्थानमसि’ इति मन्त्रेण त्रिदण्डम् शुचौ देशे निधाय शौचाद्यर्थं मृत्तिकाम् आदाय तीर्थदेशं गत्वा, शुचौ देशे निक्षिप्य, मूत्रादिकं विसृज्य उद्धृतजलेनैव शौचं कुर्यात् । तदभावे तटाकादौ वा कुर्यात् ।
शौचप्रकारस्तु मूत्रोत्सर्गे सोपमृदः चतस्रो मृदः लिङ्गे । वामहस्ते द्वादश मृदः । हस्तद्वयेऽष्टौ । पादयोः तिस्रः । अनन्तरं गण्डूषत्रिराचमन-प्राणायामपुनराचमनानि ।
मलोत्सर्गे तु सोपमृदः विंशतिसङ्ख्याः मृदो गुदे । वामहस्ते चत्वारिंशत् । हस्तद्वयेऽष्टाविंशतिः । पादयोः प्रत्येकं नव । मिलितयोः तिस्रः । करद्वये च पुनस्तिस्रः । आचमन-प्राणायामपुनराचमनानि पूर्ववत् कार्याणि । ततः प्रणवेन दन्तधावनं पूर्वोक्तस्नानं च कृत्वा, कटिसूत्र - कौपीने धृत्वा, मृज्जलाभ्याम् ऊरू जङ्घे पादौ च प्रक्षाल्य,
‘युवा सुवासाः परिवीत आगात् सउ श्रेयान् भवति
जायमानः । तं धीरासः कवय उन्नयन्ति स्वाधियों
मनसा देवयन्तः ।
इति काषायं गृहीत्वा धृत्वा पादौ प्रक्षाल्य, आचम्य,
[[624]]
श्रीवेष्णव सदाचारनिर्णये
‘वरुणस्य स्कम्भनमसि । वरुणस्य स्कम्भसर्जनमसि ।
वरुणस्यर्तसदनमसि । वरुणस्योर्जसदनमसि’
इति मन्त्रचतुष्केणाचम्य, पुनराचम्य, मन्त्रस्नानं मानसिकस्नानं च पूर्ववत् कृत्वा, ऊर्ध्वपुण्ड्राणि धृत्वा पादौ प्रक्षाल्य, पवित्र-गोवालपवित्रं च धृत्वा, सपवित्रानामिकां जलपवित्रेण आवेष्टय, आचम्य, ‘स्नानङ्गं केशवादितर्पणं करिष्ये’ इति सङ्कल्प्य, दक्षिणहस्तेन ‘केशवाय नमस्तर्पयामि’ इत्यादि द्वादशमन्त्रैस्तर्पयित्वा हस्तद्वयेन देवतीर्थेन
।
‘ओम् भूस्तर्पयामि । ओम् भुवस्तर्पयामि । ओम् सुवस्तर्पयामि । ओम् भूर्भुवस्सुवर्महर्नमस्तर्पयामि । ओम् भूः स्वधोम् । ओम् भुवस्स्वधोम् । ओम् सुवस्स्वधोम् । ओम् भूर्भुवस्सुवर्महर्नमस्स्वधोम् ।”
इति च तर्पयित्वा चतुष्काचमन पुनराचमनानि कृत्वा, पूर्वोक्तप्रकारेण सन्ध्यावन्दनं कुर्यात् ।
अर्घ्यप्रदाने तु प्रायश्चितार्थ्यानन्तरं
लिह
‘नारायणाय
विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्’ इति
विष्णुगायल्या एकम् अर्घ्यं दद्यात् ।
आदाय,
FOR
केशवादितर्पणानन्तरं ‘सखा मा गोपाय’ इति त्रिदण्डम्
‘ओम् भूः । ओम् भुवः । अ सुवः । ओम् महः । ओम् जनः । ओम् तपः । ॐ सत्यम् । इत्यनं,
• “ओम् भूर्भुवस्सुवर्म हर्ण उ स्वधोम्” इति च तर्पयित्वा’ इत्यधिकः पाठः कोशान्तरे ।
यतिधर्माः
‘विष्णोर्मनसा पूते स्थ’
इति मूलं,
‘दुपदादिवेन्मुमुचानः । स्विन्नः स्नात्वी मलादिव ।
पूतं पवित्रेणेवाज्यम् । आपश्शुन्धन्तु मैनसः ।’
इति मध्यं च प्रोक्ष्य,
‘इन्द्रस्य वज्ञोऽसि वार्त्रघ्नस्त्वयाऽयं वृवं वध्यात् ।
शर्म मे यच्छ यत् पापं तन्निवारय ।’
[[625]]
इत्यामूलाग्रं त्रिः पर्यायेण अभिमृश्य, जपस्थानसमीपे ‘विष्णोस्स्थानमसि’ इति त्रिदण्डं निवेश्य, ‘आसनमन्त्रेत्यादि’, पूर्ववत् कृत्वा, जलपवित्रेण हस्तौ विधाय, गायत्रीं मूलमन्त्रं च पूर्वोक्तरीत्या जपेत् । षडोङ्कारगायव्यास्तु विशेषः उपदेश-
लभ्यः ।
प्रातः उपस्थानात् पूर्वं सूर्याय विष्णुगायल्या एकम् अध्यं वस्वा, अनन्तरं प्राणानायम्य, उपस्थानं कुर्यात् । उपस्थाने विशेषः-
‘अन्तितो न दूरात्’ इत्यनन्तरं-
‘ओमिति ब्रह्म । ओमितोद सर्वम् । ओमित्येतदनु-
कृति हस्म वा
अप्योश्रावयेत्याश्रावयन्ति ।
ओमिति सामानि गायन्ति । ओं शोमिति शस्त्राणि
[[79]]
[[626]]
शंसन्ति । ओमित्यध्वर्युः
प्रतिगरं प्रति-
गृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्नि-
होलमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह
ब्रह्मोपाप्नवानीति । ब्रह्मवोपाप्नोति ॥’
इत्यनुवाकं जपेत् । शेषं पूर्ववत् । नाभिवादनम् ।
‘आधारशक्त्यादि समस्तपरिवाराय’ इत्यन्तं तर्पयेत् । चतुष्काचमनपुनराचमनसात्विकत्यागादि पूर्ववत् ।
अनन्तरम् अभिगमनाराधनं कृत्वा, अभिगमनं समाप्य, उपादानं पूर्ववत् कृत्वा, इज्यां सङ्कल्प्य माध्याह्निकस्नानं पूर्ववत् कृत्वा, माध्याह्निके अर्घ्यदानानन्तरं विष्णुगायल्या अर्घ्यम् एकं दद्यात् । उपस्थाने तु ‘सूर्यो विपश्चिन्मनसा पुनातु’ इत्यनन्तरं,
‘हँ सश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदितिथि
र्दुरोणसत् । नृषद्वंरसदृतसहयोम्सदब्जा योजा
ऋतजा अद्रिजा ऋतं बृहत् ।
इति जपेत् । शेषं पूर्ववत् । नाभिवादनम् ।
पञ्चाङ्गनमस्कार-चतुष्काचमनपुनराचमनसात्त्विक-
त्यागादि कृत्वा, प्राणानायम्य,
यतिधर्माः
“श्रीभगवदाज्ञया पूर्वाहोरात्र संभावित-जन्तुहिंसाजनित पापनिवृत्तिद्वारा भगवत्प्रीत्यर्थं प्राणा-
यामषट्कं करिष्ये”
frop
[[627]]
इस सङ्कल्य्य, प्राणायामषट्कं कृत्वा, सात्त्विकत्यागानन्तरं जलादिनिवेदनपूर्वकम् इज्याराधनं कृत्वा, पुनः प्राणानायस्य, ‘श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थं प्राक्प्रणीतादिभिक्षाटनं करिष्ये’
इति सङ्कल्प्य,
‘ओम् भूः, ओम् भुवः, ओं सुवः, ओम् भूर्भुवस्सुवः’ इति शिक्यं भिक्षापात्रं पत्रं वा कवचं च प्रोक्ष्य, शिवयं वामहस्ते विधाय,
छ
‘प्रणूनं ब्रह्मणस्पतिर्मन्त्रं वद (त्युक्थ्यं ) ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥’ इति भिक्षापात्रे पत्रे वा जलं निनीय, सप्तव्याहृतिभिः गोवालपवित्रेण, तत् प्रक्षाल्य,
‘दिशः प्रदिर्श आदिशो विविश उद्दिशस्स्वाहा
दिग्भ्यो नमो दिग्भ्यः’ ( तै. सं. का- १. प्र-३. अनु-१०)
इति शिवये पात्र पत्नं वा निधाय, प्रणवेन कवचेन शिक्यं विधाय, अवकुण्ठनवस्त्रेण, प्रणवेन देहावकुण्ठनं कृत्वा, ‘सखा मा गोपाय’ इति मन्त्रेण विदण्डम् आदाय, बहिर्निर्गत्य, सूर्याभिमुखस्तिष्ठन्
[[628]]
श्रीवैष्णव सदाचार निर्णये
‘हँ सश्शुचिषद्… ऋतं बृहत्’,
‘योऽसौ विष्ण्वाख्यादिव्ये पुरुषोऽन्तर्व्यवस्थितः । सोऽहं नारायणो देवः पुरुषो लोकसाक्षिकः ॥’
इति ध्यात्वा,
‘आसत्येन रजसाभवना विपश्यन्’
इति प्रदक्षिणीकृत्य,
ॐ
‘प्राणापानव्यानोदानसमाना मे शुद्धयन्ताञ्ज्यो-
तिरहं विरजा विपाप्मा भूयास स्वाहा ।
वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतो बुद्धयाकूति-
सङ्कल्पा मे शुद्धयन्ताञ्ज्योतिरहं विरजा विपाप्मा
मे
भूयास स्वाहा ।
शिरः पाणिपादपार्श्वपृष्ठोदरजङ्घशिश्योपस्थपायवो
21/-
शुद्धचन्ताज्ज्योतिरहं विरजा विपाप्मा
भूयास स्वाहा ।
त्वक्चर्ममा सरुधिरमेदोस्थिमज्जा में शुद्धय-
न्ताज्ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा ।
शब्दस्पर्शरूपरसगन्धा मे
शुद्धचन्ताज्ज्योतिरहं
विरजा विपाप्मा भूयास स्वाहा ।
यतिधर्माः
पृथिव्यप्तेजोवाय्वाकाशा मे शुद्ध चन्ताज्ज्योति-
रहं विरजा विपाप्मा भूयास स्वाहा ।
अन्नमय प्राणमय मनोमय विज्ञानमयानन्दमया
में शुद्धचन्ताज्ज्योतिरहं विरजा विपाप्मा भूयास
स्वाहा ।
विविट्टिस्स्वाहा । घषोत्काय स्वाहा ।
ए
उत्तिष्ठ पुरुष हरीलोहितपिङ्गलाक्षि देहि देहि ददाति में शुद्धताज्ज्योतिरहं विरजा
विपाप्मा भूयास स्वाहा । ओं स्वाहा ।
इति जपेत् ।
[[629]]
(तै उ-प्र-२. अनु- ५१ to ६० )
[[15]]
(अब मूले ‘प्राणापान……
.. भूयास स्वाहा, ओं स्वाहा’ इत्यन्तं जपित्वा, इति आद्यन्तग्रहणेन मन्त्राः दर्शिताः । त इह स्फुटप्रतिपत्त्यर्थं कात्स्न्येन निर्दिष्टाः ।)
‘ओम नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै
नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये
नमो विष्णवे बृहते करोमि” (तै आ-प्र-२. अनु-१२).
इति नमस्कृत्य,
[[630]]
श्री व ष्णव सदाचार निर्णये
‘ये ते पन्थानस्सवितः पूर्व्यासोऽरेणवो वितता
अन्तरिक्षे । तेभिर्नो अद्य पथिभिस्सुगेभी रक्षा च
तो अधि च देव ब्रूहि’ । (तै सं-का-७. प्र ५. अनु-२४)
‘विष्णुस्तिर्यगयोध्वं मे वैकुण्ठो विदिशो दिशः । पातु मां सर्वतो रामः धन्वी चक्री च केशवः ॥’
इति भगवन्तं ध्यात्वा, मौनेन ( श्रोत्रिय) गृहं गत्वा, प्रणवम् उच्चार्य, ‘भवति! भिक्षां देहि’ इति, ‘भवन्! भिक्षां देहि’ इति वा प्रार्थ्य, हस्तोदकपूर्वकं भिक्षां परिगृह्य, पुनर्हस्तोदकं गृहीत्वा, एवं भिक्षाद्वयं भिक्षात्रयं वा प्रतिगृह्य भिक्षाम् अभिमृशन्,
पूर्णा दविपरापत सुपूर्णा पुनरापत । वस्नेव विक्री-
[[1]]
णावहा इषमूर्जं शतक्रतो । (का- १. प्र-८. अ-४ )
इति जपित्वा,
‘पुनर्मनः पुनरायुर्म आगात् पुनश्चक्षुः पुनश्वोवं म
आगात् पुनः प्राणः ( 1 पुनराकूतं म आगात् । पुनश्चित्तं
पुनराधीतं म आगात् ।) वैश्वानरो मेऽदब्धस्तनूपा
J
अवबाधतान्दुरितानि विश्वा (तै. आ. प्र. २. अ. ५)
- मूले दृश्यमाना आनुपूर्वी आन्ध्रपाठानुसारिणी । द्राविडपाठे तु ‘पुनः प्राणः
पुनराधीतं म आगात्’ इत्येव ।
ह
यतिधर्माः
[[631]]
इति जपित्वा, प्रणवेन कवचं बद्ध्वा, निवृत्य, ‘विष्णोस्स्थानंमसि’ इति भोजनसमीपदेशे त्रिदण्डं निधाय, ‘विष्णो हव्यरक्षस्व’ इति शिक्यं भोजनपाले निधाय, पादप्रक्षालन-चतुष्काचमन - पुनराचमनानि कृत्वा, भिक्षाटनं परिसमाप्य, भोजनस्थाने उपविश्य, प्राणान् आयम्य, ‘अनुयागं करिष्ये’ इति सङ्कल्प्य, स्वार्ची सम्पूज्य, भिक्षां दशभिः प्रणवैः गायन्या च प्रोक्ष्य, स्वार्चायें निवेद्य, पुनः प्रोक्ष्य, अष्टाक्षरेणाभिमन्त्य, अन्तर्यामिणे भिक्षां निवेद्य, भोजनपाले दक्षिणपार्श्वे निक्षिप्तअतिहस्वकदलोदले निक्षिप्त पाचतुष्टये,
‘इदं विष्णुविचक्रमे वेधा निदधे पदम् ।
समूढमस्य पाँसुरे’ विष्णवे हविनिवेदयामि’
इति बलिं प्राच्यादिपले निधाय, ‘विष्णव इदं न मम’ इत्युद्देश्यत्यागं कृत्वा,
ब्रह्मज्ञानं प्रथमं पुरस्तात् । विसीमतस्सुरुचों वेन
आवः । सबुध्निया उपमा अस्य विष्ठाः । सतश्च
योनिमसतश्च विवः
तैब्रा अष्ट- २-प्र-८- अनु- ८ )
‘ब्रह्मणे हविनिवेदयामि’, ‘ब्रह्मणः इदम्’ इति तद्दक्षिणपत्रे
द्वितीयबलिं निधाय, ‘न मम’ इत्युक्त्वा,
‘उदुत्यञ्जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
[[632]]
‘चित्रन्देवानामुदकादनी कश्चक्षुमित्रास्य वरुण-
स्वाग्नेः । आप्राद्यावापृथिवी अन्तरिक्ष सूर्य
आत्मा जगतस्तस्थुषश्च स्वाहा’
‘सूर्याय हविनिवेदयामि’, ‘सूर्यायेदं’ इति विष्णुबलेः पश्चाद्भागस्थे पत्रे तृतीयबलिं निधाय, ‘न मम’ इत्युक्त्वा, ‘सर्वेभ्यो भूतेभ्यो हविर्निवेदयामि’ ‘सर्वभूतेभ्य इदम्’
इति ब्रह्मबलेः पश्चात् पत्रे तुरीयबलिं निधाय, ‘न मम’ इत्युद्देश्यत्यागं कृत्वा,
‘ओम् भूर्भुवस्सुवरि’ ति सर्वान् बलीन् पृथक् पृथक् परिषिच्य बलोन् अन्यत्र निधाय, यथाप्रकारेण भोजनं कुर्यात् ।
परिषेचने ‘ऋतं त्वा सत्येन परिषिश्वामि’ इति द्वितीयपरिषेचनम् ।
भोजनोत्थानानन्तरं षोडशगण्डूषाचमनानि कृत्वा, प्रणवेन दन्तधावनं कुर्यात् । ततः चतुष्काचमन पुनराचमनानि कृत्वा,
वाङ्म आसन्नसोः प्राणोक्ष्योश्चक्षुः कर्णयोश्श्रोत्रं
बाहुर्यो बलमूरुवो रोजोऽरिष्टा विश्वान्यङ्गानि
तनूस्तनुवा मे सह नमस्ते अस्तु मामाहिंसीः ।
(तै सं-का-५. प्र-५. अनु- ९ )
इति प्रत्यङ्गम् अभिमृश्य,यतिधर्माः
[[633]]
‘इदं विष्णुः… पाँसुरे’ इति दक्षिणपादाङ्गुष्ठे ऊर्ध्वोद्धृतपाणिना जलं निनीय,
‘प्राणे निविष्टोऽमृतं जुहोमि… ब्रह्मणि म आत्मामृतस्वाय’ इति हृदयम् अभिमृशेत् ।
‘नारायणाय… तन्नो विष्णुः प्रचोदयात्’ इति सूर्याय अध्यं
दत्वा,
‘हँ’ सश्शुचिषद्… बृहत्, ’ ‘उद्वयं तमसस्परि… दृशे विश्वाय सूर्यम्’ इत्यादित्यम् उपतिष्ठेत ।
‘दिशः प्रदिशः’ इति पात्रं पत्रं वा शोधयेत् ।
ततः इज्यां परिसमाप्य, कृतञ्चेत्यादिना स्वाध्यायं सङ्कल्प्य द्वादशाक्षरादिमन्त्रजपं कुर्यात् ॥
सायं सन्ध्यायां प्रायश्चित्तार्घ्यप्रदानानन्तरं विष्णुगायत्र्या अर्घ्यम् एकं दत्त्वा ‘अथाते स्याम वरुण प्रियासः’ इत्यनन्तरं प्रातः कालवत् ‘ओमिति ब्रह्म’ इत्यनुवाकं जपेत् । शयनसमये-
‘वासुदेव! प्रसुप्तोऽस्मि यावन्नोदयते रविः । अहं तावन्निवत्स्यामि सर्वभूतहिताय वै ॥’
इति भगवन्तं ध्यायन् योगं सङ्कल्प्य अपररानयोगपर्यन्तं पूर्ववत् सर्वं कुर्यात् ।
इति यतीनां नित्यधर्माः ।
[[80]]