वैश्वदेवप्रकारः
व्यजनाकारे बलिहरणक्रमः
ततः पादौ प्रक्षाल्य, द्विराचम्य, त्रिः प्राणानायम्य, ‘श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थं प्रातर्वैश्वदेवं करिष्ये ।’ इति सङ्कल्प्य, औपासनाग्निं, विच्छिन्नाग्निश्चेत् पचनाग्निं वा प्रतिष्ठापयेत् ।
भार्यादिः पाककृज्जनः वैश्वदेवार्थं स्थापितम् अन्नं द्वेधा विभज्य, एकं भागम् अन्तर्यामिनिवेदनाय स्थापयित्वा, अन्यं सूपव्यञ्जनसहितम् आदाय, ‘भू॒तम्’ इत्युक्त्वा यजमानाय दद्यात् । ‘तत् सु॑भू॒तं सा वि॒राट् तन्मा क्षा॑यि’ इत्युच्चरन् यजमानो गृहीत्वा, अग्नावधिश्रित्य, वामभागे निक्षिप्य, प्रोक्ष्य, द्वेधा विभज्य, उत्तरभागं त्रेधा विभज्य, दक्षिणभागं द्वेधा विभज्य, अग्निं परिषिच्य, अग्नावेकां समिधं दर्भं वा प्रक्षिप्य, दक्षिणभागयोः पूर्वभागात् आमलकप्रमाणम् आदाय, हविष्पात्रं वामहस्तेन स्पृशन्, ‘संहताङ्गुलिना उत्तानेन पाणिना अङ्गुष्ठशिरसा सन्निपीड्य, ‘ओम् अ॒ग्नये॒ स्वाहा᳚’ । अग्नय इदं न मम ।’, ओम् विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा᳚ । विश्वेभ्यो देवेभ्य इदं न मम ॥’, ‘ओम् ध्रु॒वाय॑ भौ॒माय॒ स्वाहा᳚ । ध्रुवाय भौमायेदं न मम ।’, ‘ओम् ध्रु॒व॒क्षित॑ये॒ स्वाहा᳚ । ध्रुवक्षितय इदं न मम ।’, ओम् अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अच्युतक्षितय इदं न मम ।’, ‘ओम् अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ । अग्नये स्विष्टकृत इदं न मम ।’ इति षड् आहुतीर्हुत्वा, सूपं व्यञ्जनं वा ‘अहविष्यं स्वाहा’ इति उत्तरतो हुत्वा, दर्भं प्रक्षिप्य, परिषेचयेत् ।
दक्षिणभागद्वयम् एकीकृत्य सूपेन व्यञ्जनेन वा मिश्रीकृत्य, अग्नेः पश्चात् भूमौ अपस्सम्मृज्य, व्याहृतिभिः प्रोक्ष्य, ‘ओम् धर्मा॑य॒ स्वाहा᳚ । धर्मायेदं न मम ।’, तदुत्तरतः - ‘ओम् अध॑र्माय॒ स्वाहा᳚ । अधर्मायेदं न मम ।’ इत्युक्त्वा, उभयं परिषिच्य, धर्मस्य पश्चिमादारभ्य सर्वानपि बलीन् प्रत्येकम् अद्भिः सम्मृज्य, प्रोक्ष्य, ‘ओम् अ॒द्भ्यस्स्वाहा᳚ । अद्भ्य इदं न मम ।’ इत्युक्त्वा, परिषिच्य, तत्पूर्वतः ‘ओम् ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स्स्वाहा᳚ । ओषधिवनस्पतिभ्य इदं न मम ।’ तत्पूर्वतः ‘ओम् र॒क्षो॒दे॒व॒ज॒नेभ्य॒स्स्वाहा᳚ । रक्षोदेवजनेभ्य इदं न मम ।’ इत्युक्त्वा, उभयं परिषिच्य, अधर्मबलेरुत्तरतः पश्चिमादारभ्य ‘ओम् गृह्या᳚भ्य॒स्स्वाहा᳚ । गृह्याभ्य इदं न मम ।’ तत्पुरतः ‘ओम् अ॒व॒साने᳚भ्य॒स्स्वाहा᳚ । अवसानेभ्य इदं न मम ।’, ‘ओम् अ॒व॒सान॑पतिभ्य॒स्स्वाहा᳚ । अवसानपतिभ्य इदं न मम ।’ तत्पूर्वतः ‘ओम् स॒र्व॒भू॒तेभ्य॒स्स्वाहा᳚ । सर्वभूतेभ्य इदं न मम ।’ इति चोक्त्वा, चतुर्णाम् एकं परिषेचनं कृत्वा, अधर्मबलेः पश्चिमादारभ्य ‘ओम् कामा॑य॒ स्वाहा᳚ । कामायेदं न मम ।’ तत् परिषिच्य, तत्पूर्वतः ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । अन्तरिक्षायेदं न मम ।’ परिषिच्य, तत्पुरतः ‘ओम् यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ यन्नाम्नो॑ भा॒गो यन्नाम्ने॒ स्वाहा᳚ । नाम्न इदं न मम।’ परिषिच्य, सर्वबलेर्दक्षिणतः, पश्चिमादारभ्य, ‘ओम् पृ॒थि॒व्यै स्वाहा᳚ । पृथिव्या इदं न मम ॥’ तत्पुरतः ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । अन्तरिक्षायेदं न मम ।’, ‘ओम् दि॒वे स्वाहा᳚ । दिव इदं न मम ॥’, ‘ओम् सूर्या॑य॒ स्वाहा᳚ । सूर्यायेदं न मम ।’ ‘ओम् च॒न्द्रम॑से॒ स्वाहा᳚ । चन्द्रमस इदं न मम ॥’, ‘ओम् नक्ष॑त्रेभ्य॒स्स्वाहा᳚ । नक्षत्रेभ्य इदं न मम ॥’, ‘ओम् इन्द्रा॑य॒ स्वाहा᳚ । इन्द्रायेदं न मम ॥’, ‘ओम् बृह॒स्पत॑ये॒ स्वाहा᳚ । बृहस्पतय इदं न मम ।’ ‘ओम् प्र॒जाप॑तये॒ स्वाहा᳚ । प्रजापतय इदं न मम ।’, ‘ओम् ब्रह्म॑णे॒ स्वाहा᳚ । ब्रह्मण इदं न मम ॥’ सर्वेषाम् एकं परिषेचनम् ।
आादितः पूर्वबलिपर्यन्तं चतुष्टयम् । मध्ये धर्मबलिपर्यन्तं चतुष्टयम् । तत्पुरतो बलिद्वयं च कुर्यात् । अयमेव व्यजनाकारः ।
एतद्दक्षिणतः - प्राचीनावीती, भूमावपस्सम्मृज्य, प्रोक्ष्य, ‘ओम् स्व॒धा पि॒तृभ्यः॑ (स्वाहा)’ इति पितृतीर्थेन बलिं दत्वा, ‘पितृभ्य इदं न मम’ ।
उपवीती तदुत्तरतः भूमिम् अद्भिस्सम्मृज्य, प्रोक्ष्य, ‘ओम् (नमो॑) रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ । रुद्राय पशुपतय इदं न मम ।’ प्राचीनावीती पितृबलिम् अप्रदक्षिणं परिषिच्य, उपवीती रुद्रबलिं परिषिच्य, सर्वेषां बलीनां प्रत्येकम् अद्भिः भूमिं सम्मृज्य, प्रोक्ष्य, बलिहरणं कुर्यात् ।
अवशिष्टान्ने मुष्टिमेकं पात्रान्तरे गृहीत्वा, बहिर्गत्वा, अद्भिर्भूमिं सम्मृज्य, प्रोक्ष्य, ‘ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚ । दिवाचरेभ्य भूतेभ्यः इदं न मम’ इति परिषिच्य, आचम्य, वैश्वदेवसात्त्विकत्यागं कृत्वा (कुर्यात्) ।
भार्यादिना पितृबलिं रुद्रबलिं च बहिः प्रक्षेप्य, इतरेषु च बलिषु अन्यत्रापनीतेषु सत्सु अग्निसमीपम् आगत्य, प्राणान् आयम्य, ‘अग्रदानं करिष्ये’ इति सङ्कल्प्य, अग्नेः पश्चात् उत्तरभागत्रये पूर्वभागम् आदाय, (मनुष्यबलेः पुरतः)
‘अकामोपहताय श्रोत्रियाय अग्रं ददामि’ इति भूमौ निधाय, ‘अकामोपहताय श्रोत्रियायेदं न मम’ इत्युक्त्वा, परिषिच्य, प्राणानायम्य, ‘देवयज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘विद्यु॑दसि’ इत्यद्भिः हस्तौ सम्मृज्य अग्निं परिषिच्य, अग्नौ दर्भं प्रक्षिप्य, उत्तरभागद्वये पश्चिमभागात् हर्विर्गृहीत्वा,
‘ओम् दे॒वेभ्य॒स्स्वाहा᳚’ इत्यग्नौ हुत्वा, ‘देवेभ्यः इदं न मम’ इत्युक्त्वा, दर्भं प्रक्षिप्य, पुनः परिषिच्य, ‘वृष्टि॑रसि’ इत्यद्भिर्हस्तौ सम्मृज्य, पुनः प्राणान् आयम्य, प्राचीनावीती, ‘पितृयज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘विद्यु॑दसि’ इति हस्तौ सम्मृज्य, अग्नेः दक्षिणतो भूमिम् अद्भिः सम्मृज्य, प्रोक्ष्य, देवयज्ञशेषात् हविर्गृहीत्वा, ‘ओम् पि॒तृभ्य॑स्स्व॒धा नमः॑’ इति पितृतीर्थेन बलिं निधाय, ‘पितृभ्य इदं न मम’ इत्युक्त्वा, अप्रदक्षिणं परिषिच्य, ‘वृष्टि॑रसि’ इति हस्तौ सम्मृज्य, उपवीती, प्राणानायम्य, ‘भूतयज्ञेन यक्ष्ये’ इति सङ्कल्प्य ‘विद्यु॑दसि’ इति हस्तौ सम्मृज्य, देव-पितृयज्ञशिष्टं हविर्गृहीत्वा, ‘ओम् भू॒तेभ्यो॒ नमः॑’ इत्यग्रदानात् पश्चिमे देवतीर्थेन भूतबलिं दत्वा, ‘भूतेभ्यः इदं न मम’ इत्युक्त्वा, परिषिच्य, ‘वृष्टि॑रसि’ इति हस्तौ सम्मृज्य, प्राणानायम्य ‘मनुष्ययज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘विद्यु॑दसि’ इति हस्तौ सम्मृज्य, मध्यमभागात् हविराहृत्य, अग्र-भूतबल्योर्मध्ये, ‘म॒नु॒ष्ये᳚भ्यो हन्ता᳚’ इति देवतीर्थेन भूमौ बलिं निधाय, ‘मनुष्येभ्य इदं न मम’ इत्युक्त्वा, परिषिच्य, ‘वृष्टि॑रसि’ इति हस्तौ सम्मृज्य, पात्रान्तरे अवशिष्टान्ने मुष्टिद्वयं गृहीत्वा, बहिरागत्य, वैहायसबलेः पुरतः भूमिं सम्मृज्य, प्रोक्ष्य - ‘ऐन्द्र-वारुण-वायव्याः सौम्या याम्याश्च नैर्ऋताः । वायसाः प्रतिगृह्णन्तु बलिं भूमौ मयार्पितम् ॥’ इति बलिं निक्षिप्य, ‘वायसेभ्यः इदं न मम’ इति परिग्राह्य, परिषिच्य, तत्पुरतः - ‘यौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ । ताभ्यां बलिं प्रदास्यामि स्याताम् एतावहिंसकौ ॥ श्वभ्यामिदं न मम’ इति दत्त्वा, परिषिच्य, ‘ओम् श्री विष्ण॑वे॒ स्वाहा᳚’ इत्यग्नौ दर्भं प्रक्षिप्य, ‘श्रीविष्णवे परमात्मन इदं न मम’ इत्युक्त्वा, ‘अग्ने॒ नय॑’ इत्यग्निम् उपस्थाय, प्रणम्य, अभिवाद्य, बहिर्निर्गत्य, आचम्य, पितृबलिम् अन्येन अन्यत्र प्रक्षेप्य, पात्रस्थं शिष्टान्नं भोजनार्थेनान्नेन संयोजयेत् । यथासूत्रं यथोपदेशं च वैश्वदेवं कुर्यात् ॥
चक्राकारे बलिहरणक्रमः
अयं चांशः प्राचीनेषु कोशेषु नास्ति । अथापि तन्निष्ठानामपि अनुष्ठानसौकर्याय ग्रन्थान्तरोक्तप्रकारेण अस्मिन् मुद्रणे स संयोज्यते ।
पादौ प्रक्षाल्य, द्विराचम्य, ‘प्रातर्वैश्वदेवं करिष्ये’ इति सङ्कल्प्य, व्यजनाकारोक्तरीत्या अग्निं प्रतिष्ठाप्य, सप्ताहुतीर्जुहुयात् । ‘ओम् अ॒ग्नये॒ स्वाहा᳚’ इत्यनन्तरं ‘ओम् सोमा॑य॒ स्वाहा᳚’ इत्येको होमोऽधिकः । अन्यत् सर्वं समानम् ।
ततः प्राणान् आयम्य, ‘बलिहरणेन यक्ष्ये’ (बलिहरणं करिष्ये) इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा, रङ्गवल्या चक्रवन्मण्डलाकारां रेखां कृत्वा, तदन्तः मध्ये प्रत्यग्भागात् प्राग्भागपर्यन्तं दीर्घरेखां तयैव कृत्वा, तदुत्तरतो मण्डलरेखायां तद्दक्षिणतो मण्डलरेखायां च षट् षट् स्थानानि भावयित्वा, हुतशिष्टं दक्षिणभागस्थम् अन्नम् एकीकृत्य, ततः अन्नम् आदाय, उत्तररेखायां पश्चिमतः स्थानद्वयम् अद्भिः संमृज्य, प्रोक्ष्य, ‘ओम् धर्मा॑य॒ स्वाहा᳚ इत्येकत्र, ‘ओम् अध॑र्माय॒ स्वाहा᳚ । इत्यत्र च बलिं निक्षिप्य, उभयोरेकं परिषेचनं विधाय, दक्षिणरेखायां पश्चिमतः स्थानमेकं संमृज्य, ‘ओम् अ॒द्भ्यस्स्वाहा᳚’ इति बलिं निक्षिप्य, परिषिच्य, तदूर्ध्वं स्थलद्वयं संमृज्य, ‘ओम् ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स्स्वाहा᳚’, ‘ओम् र॒क्षो॒दे॒व॒ज॒नेभ्य॒स्स्वाहा᳚’ इति बलिद्वयं निधाय, तद्बलिद्वयं परिषिच्य, दक्षिणरेखायाम् अधर्मस्थानादूर्ध्वं चत्वारि स्थानानि संमृज्य, ‘ओम् गृह्या᳚भ्य॒स्स्वाहा᳚’, ‘ओम् अ॒व॒साने᳚भ्य॒स्स्वाहा᳚’, ‘ओम् अ॒व॒सान॑पतिभ्य॒स्स्वाहा᳚’, ‘ओम् स॒र्व॒भू॒तेभ्य॒स्स्वाहा᳚’ इति बलिचतुष्टयं निक्षिप्य, तेषां चतुर्णां बलीनाम् एकं परिषेचनं कृत्वा, चक्रदक्षिणरेखोर्द्वभागे रक्षोदेवजनबलेः प्राक् संमृज्य, प्रोक्ष्य, ‘ओम् कामा॑य॒ स्वाहा᳚’ इति बलिं निक्षिप्य, तमेकं परिषिच्य, तदूर्ध्वं संमृज्य, ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚’ इति बलिं निक्षिप्य, तमेकं परिषिच्य, तदूर्ध्वं संमृज्य, प्रोक्ष्य, ‘ओम् यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ यन्नाम्नो॑ भा॒गो यन्नाम्ने॒ स्वाहा᳚’ इति बलिं निक्षिप्य, तमेकं परिषिच्य, चक्रमध्यरेखायां दशस्थानानि संमृज्य, प्रोक्ष्य, ‘ओम् पृ॒थि॒व्यै स्वाहा᳚’, ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚’, ‘ओम् दि॒वे स्वाहा᳚’, ‘ओम् सूर्या॑य॒ स्वाहा᳚’, ‘ओम् च॒न्द्रम॑से॒ स्वाहा᳚’, ‘ओम् नक्ष॑त्रेभ्य॒स्स्वाहा᳚’, ‘ओम् इन्द्रा॑य॒ स्वाहा᳚’, ‘ओम् बृह॒स्पत॑ये॒ स्वाहा᳚’, ‘ओम् प्र॒जाप॑तये॒ स्वाहा᳚’, ‘ओम् ब्रह्म॑णे॒ स्वाहा᳚’ इति दश बलीन् प्रत्यग्भागादूर्ध्वम् उपर्युपरि निक्षिप्य, तेषां दशानां बलीनाम् एकं परिषेचनं कुर्यात् ।
अत्र बलीनां परिषेचनक्रमः, उद्देश्यत्यागक्रमश्च व्यजनाकारे प्रदर्शितप्रकार एव ।
ततः प्राचीनावीती दक्षिणरेखामध्यपार्श्वे, ‘ओम् स्व॒धा पि॒तृभ्यः॑ (स्वाहा᳚)’ इति पितृतीर्थेन पितृबलिं निक्षिप्य, उपवीती, उत्तरेखामध्यपार्श्वे संमृज्य, ‘ओम् नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚’ इति रुद्रबलिं निक्षिप्य, प्राचीनावीती पितृबलिम् अप्रदक्षिणं परिषिच्य, उपवीती रुद्रबलिं प्रदक्षिणं परिषिच्य, अवशिष्टम् अत्रं दक्षिणभागस्थं बहिर्नीत्वा शुद्धं स्थलं संमृज्य, प्रोक्ष्य, ‘ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚’ इति भूतबलिं दत्वा, ‘दिवाचरेभ्यः भूतेभ्यः इदं न मम’ इत्युक्त्वा, पत्न्यादिना बलिहरणान्नं स्वयम् अनवेक्षमाणोऽपनाय्य अग्निसमीपम् आगच्छेत् ।
वायसश्वानबलिद्वयं चक्राकारे न कुर्वन्ति बहवः । कुर्वन्ति केचित् ।
अथ अग्रदानादि मनुष्ययज्ञान्तं सर्वम् उभयसाधारणम् ॥
कृतं कर्म ‘भगवानेव’ इत्यादिना भगवते समर्प्य, ततो यतीनां वर्णिनां च भिक्षां दद्यात् ।
‘वैश्वदेवात् पूर्वं यतयो भिक्षार्थम् आगताश्चेत् वैश्वदेवार्थम् अन्नम् उद्धृत्य पात्रान्तरे निधाय, यतिभ्यो भिक्षां दत्वा, उद्धृतान्नेन वैश्वदेवं कुर्यात् ।
ततोऽतिथिम् अङ्गणे गोदोहनमात्रं (कालं) प्रतीक्षमाणः तिष्ठेत् ।
इज्याभोजनयोर्मध्ये आागतोऽतिथिः भगवद्भक्तश्चेत् तं निवेदितान्नेन पूर्वं भोजयेत् । अयोग्यश्चेत् अनिवेदितान्नेन भोजयेत् ॥