श्रौत्रम् आचमनम् - नासिकाग्र-स्पर्शन-पूर्वकं दक्षिण-श्रवण-स्पर्शन-रूपम् ।
गङ्गाद्याः दक्षिणे कर्णे
नासिकाग्रे हुताशनः ।
उभावपि सकृत् स्पृष्ट्वा
तत्क्षणाद् एव शुद्ध्यति ।
अत्र “प्रणवेन सकृत् स्पृष्ट्वा तत्क्षणादेव शुद्ध्यति ।" इत्यपि पाठो दृश्यते ॥
इति प्रमाणम् इहानुसन्धेयम् ।
अत्र प्रणवोच्चारणं शिष्टाचारसिद्धम् ।
श्रौत्रम् - श्रोत्रसम्बन्धि आचमनम् ।
नासिकाग्रस्पर्शनपूर्वकं दक्षिणश्रोत्रस्पर्शनरूपमिदम् इति चतुर्थे पुटे सप्रमाणं प्रादर्शि ।
यद्यपि बहवो महर्षयः दक्षिणश्रोत्र-स्पर्शनम् एव श्रौत्राचमनमि् इति स्मरन्ति - यथा वसिष्ठः-
‘क्षुते निष्ठीवने सुप्ते
परिधानेऽश्रुपातने ।
पञ्चस्व् एतेषु चाचामेत्
कर्णं वा दक्षिणं स्पृशेत् ॥
इति ।
पराशरः-
‘क्षुते निष्ठीवने चैव
दन्तस्पर्शे तथानृते ।
पतितानां तु संभाषे
दक्षिणं श्रवणं स्पृशेत् ॥’
इति च । तथापि
“गङ्गाद्या दक्षिणे श्रोत्रे (कर्णे)
नासिका(ग्रे)यां हुताशनः । उभावपि सकृत्स्पृष्ट्वा
तत्क्षणादेव शुद्धयति ॥"
इति पराशरस्यैव वचनं स्मृतिरत्नाकरे उपात्तम् ।
अतः उक्तलक्षणम् एव श्रौत्रम् आचमनं इति अस्मद्-आचार्याः उपादिशन् ।
तैर् एव असकृद् उपादेशि अयं प्रमाणश्लोकः,
अन्तेवासिभिः अस्माभिश्च +असकृद् अश्रावि, अवाधारि च;
यथाऽवधृति न्यवेशि च पूर्वम् ।
परन्तु इयतस् समयान् अस्य आकरो नाज्ञायि ।
अज्ञायि चाद्यैवास्य आकरः स्मृतिरत्नाकर इति ॥
अस्य च श्रोत्राचमनस्य कालं स्मृत्य्-अन्तरं निर्दिशतीति निदर्शयति स्मृतिरत्नाकरः
“सम्यग्-आचमनाशक्तौ
अभावे सलिलस्य च ।
पूर्वोक्तेषु निमित्तेषु
दक्षिणं श्रवणं स्पृशेत् ॥
इति ।
“तस्मादाचमनासंभवे नासिका-कर्णस्पर्शः कार्यः’
इति स्मृतिरत्नाकरे वैदिक-सार्वभौमैरेव निष्कृष्योक्तत्वात् नासिका-स्पर्शन-पूर्वक-दक्षिण-कर्ण-स्पर्शनम् एव श्रोत्राचमनम् ।
तद् अपि सकृदेव ।