…
अथ द्वयजपविधिः
मूलमन्त्रेण अष्टाविंशतिकृत्वः अभ्यस्तेन त्रिः प्राणान् आयम्य, श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थं ‘शरणागतिमहामन्त्रजपं करिष्ये’ इति सङ्कल्प्य,
‘अस्य श्रीशरणागतिमहामन्त्रस्य लक्ष्मीनारायणः ऋषिः; देवीगायत्रीच्छन्दः; परमात्मा श्रीलक्ष्मीनारा-
यणो देवता
इति ऋषिच्छन्दोदेवताः क्रमेण तत्तस्थानेषु विन्यस्थ,
इत्युक्त्वा,
‘लक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगः '
‘ओम् वीर्याय अस्त्राय फट्’ इत्यस्त्रमन्त्रेण करतलकरपृष्ठयोः शुद्धिं कृत्वा, शुद्धयोर्हस्तयोः द्वयमन्त्रेण कूर्परम् आरभ्य, अगुल्यग्रपर्यन्तं पर्यायेण करस्पर्शरूपं व्यापकन्यासं त्रिः कृत्वा,
‘श्रीमन्नारायणचरणौ’
‘‘अङ्गुष्ठाभ्यां नमः’ इत्यङ्गुष्ठयो- (स्तर्जनीभ्याम्;
‘शरणम्’ – ‘तर्जनीभ्यां नमः’ इति तर्जन्योः अङ्गुष्ठाभ्याम्;
‘प्रपद्ये’ – ‘मध्यमाभ्यां नमः’ इति मध्यमयोः अङ्गुष्ठाभ्याम्; ‘श्रीमते ’ - ‘अनामिकाभ्यां नमः’ इत्यनामिकयोः अङ्गुष्ठाभ्याम्’
। ‘कनिष्ठिकाभ्यां नमः’ इति कनिष्ठिकयोः
अङ्गुष्ठाभ्यां न्यस्य;
‘नारायणाय’
‘नमः’-
‘करतलकरपृष्ठाभ्यां नमः’ इति करतलकरपृष्ठयोः (परामृशेत् । इति करन्यासः
[[660]]
द्वयमन्त्रेण पाणिभ्यां शिरःप्रभृति पादान्तं वर्मवेष्टनवत् स्वपार्श्वयोः स्पर्शरूपं व्याकन्यासं कुर्यात् । ततः
‘ज्ञानाय हृदयाय नमः’ इति अङ्गु- (ष्ठयुक्ततर्जन्या हृदये,
‘‘ऐश्वर्याय शिरसे स्वाहा’ इत्यनङ्गुष्ठाभिः अङ्गुलीभिः मस्तके,
‘श्रीमन्नारायणचरणौ’
‘शरणम्’
‘प्रपद्ये’
‘श्रीमते '
[[1]]
‘शक्त शिखायै वौषट्’ इत्यङगुष्ठनालेन अधो मुखेन मुष्टिना शिखामध्ये न्यस्य,
‘बलाय कवचाय हुम्’ इति कण्ठादिकटचन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा,
‘नारायणाय’-
। ‘तेजसे नेत्राभ्यां वौषट्’ इति तर्जनीमध्य- ( माग्राभ्यां युगपशेत्रद्वये न्यस्य,
‘नमः’ ‘वीर्याय अस्त्राय फट्’ इति सास्तच्छोटेन साङ्गुष्ठतर्जन्यग्रेण पूर्वाद्याः चतुर्दशः, पश्चादग्न्यादिविदिशश्च बध्नी यात् । इत्यङ्गन्यासः । अथ ध्यानम् । क्षीराम्भोनिधिरत्नमण्टप महासौवर्णसिंहासने
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् । दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्ररुदारश्रियं
त्वां नित्यं कलयामि जन्मविमुखो लक्ष्मीश! नारायणम् ॥
इति ध्यात्वा-
‘श्रीमन्नारायणचरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः’
इति यथाशक्ति जपेत् ।
अथ चरमश्लोकजपविधिः
मूलमन्त्रेण अष्टाविंशतिकृत्वः अभ्यस्तेन त्रिः प्राणान् आयम्य, श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थं ‘चरमश्लोकमहामन्त्रजपं करिष्ये’ इति सङ्कल्प्य,
‘अस्य श्रीचरमश्लोक महामन्त्रस्य पार्थसारथिः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्रीकृष्णो देवता’ इति न्यस्य, ‘पार्थसारथिप्रीत्यर्थे जपे विनियोगः’
इत्युक्त्वा, ‘ओम् वीर्याय अस्त्राय फट्’ इत्यस्त्रमन्त्रेण करतलकरपृष्ठयोः शुद्धि कृत्वा, शुद्धयोर्हस्तयोः चरमश्लोकमन्त्रेण कूर्परम् आरभ्य, अङ्गुल्यग्रपर्यन्तं पर्यायेण करस्पर्शरूपं व्यापकन्यासं त्रिः कुर्यात् । ततः
‘सर्वधर्मान् परित्यज्य’
(‘अङ्गुष्ठाभ्यां नमः’ इत्यङ्गुष्ठयोः तर्जनीभ्याम्
‘माम् एकम्’ - ‘तर्जनीभ्यां नमः’ इति तर्जन्योः अङ्गुष्ठाभ्याम्
‘शरणं व्रज’
‘अहं त्वा’-
(‘मध्यमाभ्यां नमः’ इति मध्यमयोः
अङ्गुष्ठाभ्याम्
[‘अनामिकाभ्याम् नमः’ इत्यनामिकयोः [ अङ्गुष्ठाभ्यां
‘सर्वपापेभ्यो मोक्षयिष्यामि
’ मा शुचः’-
। ‘कनिष्ठिकाभ्यां नमः’ इति कनिष्ठिकयोः अङ्गुष्ठाभ्यां न्यस्य,
‘करतलकरपृष्ठाभ्यां नमः’ इति करतलकर- ( पृष्ठयोः परामृशेत् । इति करन्यासः ।
[[662]]
श्रीवेष्णव सदाचार निर्णये
चरमश्लोकमन्त्रेण पाणिभ्यां शिरःप्रभृति पादान्तं वर्मवेष्टनवत् स्वपार्श्वयोः स्पर्शरूपं व्यापकन्यासं कुर्यात् ।
‘सर्वधर्मान् परित्यज्य’
‘ज्ञानाय हृदयाय नमः’ इत्यङ्गुष्ठ- ( युक्ततर्जन्या हृदये
।
‘माम् एकम्’- ‘ऐश्वर्याय शिरसे स्वाहा’ इत्यनङ्गुष्ठाभिः
अकुलीभिः मस्तके
‘शरणं व्रज’
‘अहं त्वा’
‘शक्त शिखायं बौषट्’ इत्यङ्गुष्ठनालेन (अधोमुखेन मुष्टिना शिखामध्ये न्यसेत् ।
[ ‘बलाय कवचाय हुम्’ इति कण्ठादिकटचन्तां
तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा
‘सर्वपापेभ्यो । ‘तेजसे नेत्राभ्यां वौषट्’ इति तर्जनीमध्यमामोक्षयिष्यामि’ (ग्राभ्यां युगपत्नेत्रद्वये न्यस्य;
’ मा शुचः '
‘वीर्याय अस्त्राय फट्’ इति सास्त्रच्छोटेन साङ्गुष्ठ सर्जन्यग्रेण पूर्वाद्याश्चतुर्दिशः पश्चा दग्न्यादिविदिशश्च बध्नीयात् । इत्यङ्गन्यासं
(कृत्वा-
‘यत् प्रपत्ति विना सर्वैः यस्य माया दुरत्यया । धनञ्जयरथस्थं तत् प्रपद्ये शरणं महः ॥
इति ध्यात्वा,
‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥’ इति यथाशक्ति जपेत् ।आराधन सङ्ग्रहश्लोकी
[[663]]
एवं मन्त्रान्तरेष्वपि अङ्गन्यास करन्यासादिकं उप-
देशतोऽवगन्तव्यम् ।