शठकोपश्री-सन्देशः १९८९

संस्कृतम्

श्रीः
श्रीमद्-वेद-मार्ग-प्रतिष्ठापनाचार्य-
परमहंसपरिव्राजकाचार्येत्यादि-बिरुद-वृन्द-विभूषितैः,
श्रीमदहोबिलमठीये चतुश्-चत्वारिंशे दिव्यास्थाने दीव्यद्भिः,
अनितर-साधारण-अखिलगोचर-नैपुणी-निरूपित–निरुपमकीर्तिभिः,
वदान्यवरैः,
दृष्टादृष्टाभ्यां प्रकाराभ्याम् अतनुम् उपकारम् आतन्वानैः
श्रीवण्-शठकोप-श्रीवेदान्तदेशिक-यतीन्द्रमहादेशिकैः
अनुगृहीतेयं मङ्गलाशासन-श्रीमुख-पत्रिका

श्रीमते श्रीलक्ष्मीनृसिंहपरब्रह्मणे नमः
श्रीमते श्रीवण्शठकोप-श्रीवीरराघवशठकोपयतीन्द्रमहादेशिकाय नमः

From
SRI AHOBILA MATH
C: १६-१०-१९८९

To
आस्तानवित्वान्

श्रीवैष्णवसादाचारनिर्णयाख्यो निबन्धः आह्निकापरनामा प्रकाशितः प्राप्तः
अस्मदवलोकनविषयताम् अविन्दत् ।

इमं च श्रेष्ठं ग्रन्थं बहु-प्रमाण-प्रदर्शन-पराभ्याम्, अतिगहन-अवश्यावगन्तव्य–अनेकधर्मविचार-निर्णयैदम्पर्येण प्रवृत्ताभ्यां
संस्कृतटिप्पणी-द्राविडानुवादाभ्यां चोपस्कृत्य प्रकाशितवान्
विल्लिवलं-श्रीकृष्णमाचार्यः ।

‘अयं हि सुप्रसिद्ध-वैभव-शालिनां श्रीमद् इञ्जिमैड्ड-अळगियशिङ्गर्-महादेशिकानां सन्निधौ
चिरकालं शुश्रूषित्वा
सत्सम्प्रदाय-क्रमेण इमम् आह्निकग्रन्थम्
अन्यान् अप्य् अखिलान् अध्यात्मग्रन्थान् अध्यगीष्ट'

इत्येतद् एकमेव एतद्ग्रन्थगतविषयसामञ्जस्यै समग्रं प्रमाणम् ।
तैरैव चाचारेषु, अतिसूक्ष्मेषु विनीय स्थापितोऽयम् इत्य् अधिकम् अप्य् अस्त्य् अत्र निदानम् ।

अस्माकम् अस्मत्-पूर्वाचार्याणां च अत्य्-अर्थाभिमान-पात्रैः,
वैदान्त-वावदूक-विरुदेन विख्यात-वैदुष्यैः, अस्मदास्थान-विद्वद्भिः विलिवलं-श्रीनारायणाचार्यैः
न्याये अन्येषु च शास्त्रप्रस्थानेषु सम्यक-शिक्षितः तद्-अनुजश्चायं कृष्णमाचार्यः
विषयतः विशिष्टस्यास्याह्निकग्रन्थस्य सुसंस्कृतया सरण्या सांस्कृतीं टिप्पणीं
सरलतमां, तथाविधं द्राविडानुवादं च व्यतानीद् इति
विद्वत्तम-विश्वासास्पदता अस्य ध्रुवा ।

अयम् अपि कृष्णमाचार्यः
अस्माभिः बहोः कालात् पूर्वमेव आस्थानविद्वत्-पदव्यां नियुक्तः
सर्वत्र सत्-सम्प्रदाय-सिद्धान् अर्थान् उपन्यस्य
आस्तिकान् अखिलान् अप्य् आवर्जयतीत्य् एतद् अतिरोहितम् ।

सर्वसम्प्रदाय-निष्ठैर् अप्य् अवगन्तव्याः अतिगहनाः अनेके विषयाः
अस्मिन् सप्रमाणं विमृश्य निर्णीताः
प्रमाण-परतन्त्राणां प्रमोदं प्रजनयेयुर् नूनम् ।
अतस् सर्वैर् अप्य् आस्तिकैः आदरणीयोऽयं ग्रन्थः ।

एवम् एवैतन्-मनीषितम्
इतर-धर्म-शास्त्र-ग्रन्थ-प्रकाशनम् अपि
निष्प्रत्यूहं निष्पादयेत् भगवान् श्रीमा-लोलः,
आद्रियेरंश् चास्तिकोत्तमाः इत्याशास्य
अनुगृह्णीमो वयम् इमां श्रीमुखपत्रिकाम् ।

श्रीशठकोपश्रीः

द्राविड-सन्देशः

नि:

जगत्विक्याद कीर्त्तियाय्त् तऱ्‌पोदु श्री अहोबिल मडम् ४४-वदु तिव्यास्तानत्तिल् मूर्त्ताबिषिक्तराय् विळङ्गुम् वदान्यच्रेष्टरान-श्रीमत् परमहंस परिव्रा श्रीमत् अऴगियसिङ्गर् श्री वेदान्ददेशिग यदीन्द्रमहादेशि

जगाचार्येत्यादिबिरुदालङ्ग्रुद

श्रीवण्सडगोब

कन् अरुळिय मङ्गळासासन श्रीमुगत्तिन् तमिऴ् आक्कम्।

श्रीमते श्रीलक्ष्मीनृसिंहपरब्रह्मणे नमः

श्रीमते श्रीवण्शठकोप-श्रीवीरराघवशठकोपयतीन्द्र-महादेशिकाय नमः

From

SRI AHOBILA MUTT

श्री अहोबिल मडम्

Camp-श्रीरङ्गम्।

तेदि: १६-१०-१९८९

To

आस्तान वित्वान्।

श्री। उ। वे। विल्लिवलम्, कृष्णमासारिय स्वामि ५।श्रीनिवास अय्यर् तॆरुत् तॊडर्चि,

मेलमाम्बलम्, सॆन्नै-३३।

‘श्रीवैष्णवसदासारनिर्णयम्’ ऎण्ड्र श्री सन्निदि आह्निगत्तै नन्गु परिष्करित्तु संस्कृतत्तिल् टिप्पणि, तमिऴ् अनुवादम् इवट्रुडन् नम् श्रीसन्निदि आस्तान वित्वान् विल्लिवलम् श्री कृष्णमासारियर् वॆळियिट्टु इरुप्पदैक्कण्डु मगिऴ्गिऱोम्। इन्द स्वामि मिक्क प्रसिद्धराय् ऎऴुन्दरुळियिरुन्द श्रीमत् इञ्जिमेट्टु अऴगियसिङ्गर् सन्निदियिल् सत्सम्ब्रदायक्रमत्तोडु सिरगालम् शुश्रूषै सॆय्दु आह्निगार्त्तङ्गळैयुम् अत् यात्मशास्त्रङ्गळैयुम् सिक्षैबॆट्रु इरुक्किऱार् ऎन्ब-

iv

तॊण्ड्रे इन्द क्रन्द विषयङ्गळिन् सिऱप्पुक्कुप् पोदु मान प्रमाणमागुम्।

नमक्कुम् नम् पूर्वर्गळुक्कुम् अत्यन्ताबिमदराय् ऎऴुन् दरुळियिरुन्द वेदान्द वावदूग श्री। उ। वे। विल्लिवलम् श्रीनारायणाचार्य स्वामियिडम् न्यायस्त्रत्तैयुम् मट्रुम् पल शास्त्रप्रस्तानङ्गळैयुम् अदिगरित्तवर्, अवरुक्कु अनुजरुमावार् इवर्।

नम्माल् आस्तान वित्वानाग

नियमिक्कप्पट्टु

मुप्पदु वरुषङ्गळागप् पलविडङ्गळिल् सम्ब्रदाय- प्रवचनम् सॆय्दुवरुगिऱार्।

इदिल् ऎल्ला सम्ब्रदायस्तर्गळुक्कुम् अऱिय वेण्डिय विषयङ्गळ् पल अडङ्गियुळ्ळन। आगवे यावरुम् वाङ्गि आदरिक्क वेण्डिय क्रन्दमिदु। मट्रैय धर्मशास्त्र क्रन्दङ्गळैयुम् वॆळियिड विरुम्बुम् इवरदु मनोरदत्तै श्रीलक्ष्मीन्रुचिम्हन् पूर्त्तिसॆय्दु वैक्कवेण्डुम्। आस्तिगोत्तमर्गळुम् आदरिक्क वेण्डुम् ऎन नाम् आराचित्तु अनुग्रहित्त श्रीमुगम्।

श्री स्टगोबश्री:

His Holiness,

THE JEER OF SRI AHOBILA MUTT