श्रीः
इदम् अत्रावेद्यते
श्रीवैष्णवसदाचार-निर्णय-नामायम् आह्निकग्रन्थः पुनर् मुद्रितो विजयते ।
बहोः कालात् पूर्वं मुद्रितः इदानीं पुनर्मुद्रितः ।
अस्मिंश्च ग्रन्थे श्रीवैष्णवानां
प्रातः आप्रबोधात् रात्रौ शयनपर्यन्तं कर्तव्यानि कर्माणि
सम्यक् प्रतिपादितानि सन्ति ।
अयं च ग्रन्थः परमकारुणिकैः
श्रीमदहोबिलमठे पूर्वं षड्विंशे दिव्यास्थाने मूर्धाभिषिक्तैः
सर्वशास्त्रवेदिभिः श्रीमत्परम-हंसपरिव्राजकाचार्यैः श्रीरङ्गनाथयतीन्द्र-महादेशिकैर् अनुगृहीतः
सर्वेषां महोपकाराय भवति ।
प्रकृतं पञ्च-चत्वारिंशे पट्टे मूर्धाभिषिक्तैः श्रीमत्-परमहंस-परिव्राजकाचार्यैः संस्कृत-टिप्पण्या, द्राविडानुवादेन च सह
विंशति-वर्षेभ्यः पूर्वं पूर्वाश्रमे प्रकाशितः
सर्वेषाम् आस्तिक-वर्याणाम् परमोपकारम् अकरोत् ।
अद्य तु - अयं कोशः दुर्लभः इति सर्वैर् अपि पुर्नर् मुद्रणाय प्रार्थिताः
अस्मदाचार्याः इमं कोशं पुनरपि मुद्रापयामासुः ।
अयं च ग्रन्थः श्रीवैष्णवानां सर्वेषामपि महान्तं उपकारं आतनोति ।
अस्मिंश्च ग्रन्थे सुसूक्ष्माः बहवो विषयाः
बहुभ्यः महद्भ्यः श्रुत्वा प्रकाशिताः ।
संस्कृतभाषानभिज्ञानामपि सुखबोधाय
द्रविडभाषयापि इमे सुसूक्ष्माः विषयाः प्रकाशिताः सन्ति ।
धर्मशास्त्रग्रन्थेभ्यः अवगन्तुम् अशक्याः अपि विषयाः
अत्र द्राविड्यां सम्यग्विवृताः सन्ति ।
धर्मशास्त्रेषु प्रोक्ताः, अस्माभिः अवश्यं ज्ञातव्याः विषयाः
अत्र ललित द्रविड भाषया सम्यग्विवृताः ।
श्रीवैष्णव सम्प्रदायानुसारिणां सर्वेषामपि आस्तिकानां अवश्यज्ञातव्याः अनेके विषयाः
तत्र तत्र स्थितेभ्यः महद्भ्यः सङ्गृह्यात्र प्रकाशिताः सर्वेषां परमोपकारं आदधति ।
अवश्यं सर्वैरपि परिग्राह्योऽयं ग्रन्थः ।
उपाकर्म,जयन्ती,महालयतर्पण-प्रभृति अनेके विषयाः
द्राविड भाषायां सम्यक् विवृताः ।
महाविद्वद्भिः सर्वशास्त्रपारङ्गतैः चतुर्वेदशतक्रतु नावल्पाक्कं श्रीमद् ??वनाथ-तातयार्य-महादेशिकैः अनुगृहीतः
द्राविडभाषायां विरचितः “प्राचीनाचार सङ्ग्रहाख्यो” ग्रन्थो ऽपि
अत्र सर्वेषाम् सौकर्याय प्रकाशितः ।
अनेन च ग्रन्थेन आशौच-निर्णयोऽपि सर्वे सुखेन ज्ञातुं शक्यो भवति ।
सर्वेषाम् आस्तिकानां महदिदं धनम् इत्येव वक्तुं शक्यते ।
तथा च सर्वैरपि आस्तिक-वर्यैः स्वीकर्तव्योऽयं ग्रन्थः ।
इति प्रकाशकः