३ ग्रन्थसमाप्तिः

विश्वास-प्रस्तुतिः

इत्यानुपूर्वी रचिता
परस्य ब्रह्मणो हरेः ।
आराधन-विधेस् सम्यक्
वैष्णवानां मनःप्रिया ॥ 525

मूलम्

इत्यानुपूर्वी रचिता परस्य ब्रह्मणो हरेः ।
आराधनविधेस्सम्यक् वैष्णवानां मनःप्रिया ॥ 525

विश्वास-प्रस्तुतिः

पठतां शृण्वतां चैनां
विभूतिं(ति) श्रद्धयात्मना(म्) ।
श्रोतुम् इच्छावतां चापि
श्रुत्वा चाप्य् अनसूयताम् ॥ 526

मूलम्

पठतां शृण्वतां चैनां विभूतिं (ति)श्रद्धयात्मना(म्) ।
श्रोतुमिच्छावतां चापि श्रुत्वा चाप्यनसूयताम् ॥ 526

विश्वास-प्रस्तुतिः

भगवच्-चरणाम्भोज-
परिचर्यैक-विग्रहा ।
वर्धतां वैष्णवी लक्ष्मीः
अक्षया भक्ति-वृद्धि-दा ॥ 527

मूलम्

भगवच्चरणाम्भोज-परिचर्यैकविग्रहा ।
वर्धतां वैष्णवी लक्ष्मीः अक्षया भक्तिवृद्धिदा ॥ 527

विश्वास-प्रस्तुतिः

अष्टोत्तरैर् अनुपमैः
श्लोकानां पञ्चभिः शतैः ।
उपचारानुपूर्वीयं
रचिता परमात्मनः ॥ 528

मूलम्

अष्टोत्तरैरनुपमैः श्लोकानां पञ्चभिः शतैः ।
उपचारानुपूर्वीयं रचिता परमात्मनः ॥ 528