२ अधिकार-निर्णयः

कर्ता

विश्वास-प्रस्तुतिः

श्रद्धावान् अधिकार्य् अस्मिन्
युक्ते कर्मणि वैष्णवे ।
नापरः कुल-वृत्तादि-
गुणः कर्तुर् विशेषतः ॥ 509+++(5)+++

मूलम्

श्रद्धावानधिकार्यस्मिन् युक्ते कर्मणि वैष्णवे ।
नापरः कुलवृत्तादिगुणः कर्तुर्विशेषतः ॥ 509

विश्वास-प्रस्तुतिः

येन केन चिद् एषित्रा
भाव्यम् अस्मिंस् तु कर्मणि ।
तस्मिन् सु-दुर्लभे लब्धे
कृयैवानन्तर-क्रिया ॥ 510

द्राविडम्

इच् चॆयल्विषयत्तिल् यारेनुम् कर्त्तावागलाम्.
इच्चैयुळ्ळवन् आग-वेण्डुम्.
अवन् किडैत्त पिऱगु
उडने सॆयल्दान् उण्डुबण्णप्पडुवदु.
(क्रियैव ऎण्ड्र ओलैप्पडम् तगुम्; *क्रुबैव’ ऎण्ड्रबाडम् अच्चिल्.)
पूर्वार्त्तत्तिल् ‘एवात्र’ ऎण्ड्रदु ओलैप्पाडम्;
‘एषित्रा’ ऎन्बदऱ्‌कु इच्चिप्पवनाग ऎन्बदु पॊरुळ्.

मूलम्

येन केन चिदेषित्रा/{चिदेवात्र} भाव्यमस्मिंस्तु कर्मणि ।
तस्मिन् सुदुर्लभे लब्धे कृपैवानन्तरक्रिया/क्रियैवानन्तरक्रिया ॥ 510

विश्वास-प्रस्तुतिः

ज्ञान-कर्म-तपो-योग-
युक्तान् अप्य् अधिकारिणः ।
श्रद्धा-हानिः परो दोषः
च्यावयेद् अधिकारतः ॥ 511

मूलम्

ज्ञानकर्मतपोयोगयुक्तानप्यधिकारिणः ।
श्रद्धाहानिः परो दोषः च्यावयेदधिकारतः ॥ 511

विश्वास-प्रस्तुतिः

स्वोक्तासूपनिषत्स्व् एवम्
उक्तवान् उत्तमः पुमान् ।
श्रद्धाश्रद्धे समुद्दिश्य
तस्मात् श्रद्धा परो गुणः ॥ 512

मूलम्

स्वोक्तासूपनिषत्स्वेवम् उक्तवानुत्तमः पुमान् ।
श्रद्धाश्रद्धे समुद्दिश्य तस्मात् श्रद्धा परो गुणः ॥ 512

काल-क्रिया-द्रव्येषु

विश्वास-प्रस्तुतिः

नेह काल-क्रिया-कर्तृ-
द्रव्य-देशादि-संश्रिता
एषितारं तद्-इच्छां वा
विहायास्ति नियन्त्रणा ॥ 513

मूलम्

नेह कालक्रियाकर्तृद्रव्यदेशादिसंश्रिता ।
एषितारं तदिच्छां वा विहायास्ति नियन्त्रणा ॥ 513

विश्वास-प्रस्तुतिः

निषेधाविषयी-भावाद्
ऋते नैवापरो गुणः ।
प्रीति-हेतुः परेशस्य
स्वार्चनाङ्गेषु वस्तुषु ॥ 514
+++(तेन निषेधो न स्यात्। अविहितं चेद् अपि चिन्ता नास्ति। )+++

द्राविडम्

तिरुमालुक्कु प्रीदिक्कुक् कारणमाग
अवनदु अर्च्चनैक्कागुम्
पुष्पादि वस्तुक्कळिले वेऱु कुणमॊण्ड्रु वेण्डुवद् इल्लै.
ऒण्ड्रु वेण्डुम्.
अदावदु निषेदत्तिऱ्‌कु विषयमागामै.
इदु वेण्डा ऎण्ड्रु सास्त्रत्तिनाल् विलक्कप्पट्टिरुप्पदु तगादु.
अदनाल् विलक्कप्पडामै वेण्डुम्.
अदु तविर वेऱॊण्ड्रिल्लै.
विदिक्कप्पडामऱ्‌पोनालुम्
निषेदिक्कप्पडामल् इरुन्दाऱ्‌ पोदुम्;
आरादनत्तिऱ्‌कुक् कॊळ्ळलाम्.

मूलम्

निषेधाविषयीभावाद् ऋते नैवापरो गुणः ।
प्रीतिहेतुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु ॥ 514

विश्वास-प्रस्तुतिः

अत एवार्चनाङ्गानि
द्रव्याणि गणयन् स्वयम् ।
प्राह पत्रादि-मात्राणि,
जाति-वर्णादिभिर् विना ॥ 515

द्राविडम्

अदनाल्दान् पगवान्
तन् अर्च्चनैक्काग त्रव्यङ्गळैक् कुऱिप्पवनाय्
पत्रम् पुष्पम् पलम् तोयम् ऎण्ड्रु पॊदुवागप्
पत्रादिगळैप् पगर्न्दान्.
जादिनिऱम् मुदलानवट्रै विट्टान्.

मूलम्

अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् ।
प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना ॥ 515

सौलभ्य-स्तुतिः

विश्वास-प्रस्तुतिः

अहो हरिं ब्रुवन्न् एवं
मुक्तिम् एत्य् अप्य् अहो अहो।
अहो अहो सु-लभता
कृपा चैवम् अहो अहो ॥ 516

मूलम्

अहो हरिं ब्रुवन्नेवं मुक्तिमेत्यप्यहो अहो।
अहो अहो सुलभता कृपा चैवमहो अहो ॥ 516

विश्वास-प्रस्तुतिः

अस्त्य् एव निर्मलं तोयम्
अ-यत्न-सुलभं भुवि।
दृश्यते च शुभा दूर्वा
सु-लभा सर्व-दिक्ष्व् अपि ॥ 517

मूलम्

अस्त्येव निर्मलं तोयमयत्नसुलभं भुवि।
दृश्यते च शुभा दूर्वा सुलभा सर्वदिक्ष्वपि ॥ 517

विश्वास-प्रस्तुतिः

अस्ति जिह्वा हरिं स्तोतुम्
आत्मीयैवास्य-मध्यगा ।
स्व-कराव् अपि कर्मण्यौ
ध्यातुम् अस्त्य् एव मानसम् ॥ 518+++(5)+++

द्राविडम्

हरियैत् तुदिक्कत् तनदु वायिन् इडैयिल् नाक्के युळदु;
तन् कैगळ् कार्यम् सॆय्बवै.
त्यानम् सॆय्य मनमुम् उळदु.

मूलम्

अस्ति जिह्वा हरिं स्तोतुम् आत्मीयैवास्यमध्यगा ।
स्वकरावपि कर्मण्यौ ध्यातुमस्त्येव मानसम् ॥ 518

विश्वास-प्रस्तुतिः

अतो न हानिर् मन्त्राणां
याग-विघ्न-करी हरेः।
सामग्र्य् एषा हि संपूर्णा
वक्त्राद्य्-एकैकम् एव तु ॥ 519

द्राविडम्

आगैयाल् मन्द्रङ्गळ् पॆऱामैये
पॆरुमानिन् यागत्तिऱ्‌कु विक्नमागुम् ऎन्न वेण्डा.
मूगम् मुदलानवट्रिल् ऒव्वॊण्ड्रुम्
पूर्ण सामक्रियागुमे
अददन् कार्यत्तिऱ्‌कु. एदु विक्नम्?

मूलम्

अतो न हानिर्मन्त्राणां यागविघ्नकरी हरेः।
सामग्र्येषा हि संपूर्णा वक्त्राद्येकैकमेव तु ॥ 519

प्रायश्चित्त-सौलभ्यम्

विश्वास-प्रस्तुतिः

अज्ञानाद् अथवा ज्ञानाद्
अपराधेषु सत्स्व् अपि ।
प्रायश्चित्तं क्षमस्वेति
प्रार्थनैकैव केवलम् ॥ 520

मूलम्

अज्ञानादथवा ज्ञानाद् अपराधेषु सत्स्वपि ।
प्रायश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् ॥ 520

विश्वास-प्रस्तुतिः

सत्य-सङ्कल्प-संयुक्ते
सर्वज्ञे सर्व-शक्तिके ।
नित्य-निर्दोष-निस्सीम-
महा-विभव-योगिनि ॥ 521

मूलम्

सत्यसङ्कल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके ।
नित्यनिर्दोषनिस्सीममहाविभवयोगिनि ॥ 521

विश्वास-प्रस्तुतिः

स्वाधीन-त्रिविधाशेष-
चिद्-अचिद्-वस्तु-शेषिणि ।
निर्मलानन्त-विज्ञान-
निधाव् उदधि-शायिनि ॥ 522

मूलम्

स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि ।
निर्मलानन्तविज्ञाननिधावुदधिशायिनि ॥ 522

विश्वास-प्रस्तुतिः

स्व-सङ्कल्प-कृताशेष–
जगत्-सृष्टि-लय-स्थितौ ।
अर्चनादिष्व् अनर्हत्वात्
कश्चिन् नापराध्यति ॥ 523+++(5)+++

मूलम्

स्वसङ्कल्पकृताशेषजगत्सृष्टिलयस्थितौ ।
अर्चनादिष्वनर्हत्वात् न कश्चिन्नापराध्यति ॥ 523

विश्वास-प्रस्तुतिः

अतोऽनङ्गी-कृताशेष-
कर्तृ-दोष-विमर्शया ।
कृपयैवास्य देवस्य
सर्वोऽप्य् अर्हति सत्-क्रियाम् ॥ 524

मूलम्

अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया ।
कृपयैवास्य देवस्य सर्वोऽप्यर्हति सत्क्रियाम् ॥ 524