विश्वास-प्रस्तुतिः
होमाद्यम् अनुयागान्तं
वैधं कर्म समाचरेत् ।
एवम् एक-दिनं वाथ
द्वि-दिनं त्रि-दिनं तु वा ॥ 504
मूलम्
होमाद्यमनुयागान्तं वैधं कर्म समाचरेत् ।
एवमेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥ 504
विश्वास-प्रस्तुतिः
मासं संवत्सरं वापि
यावज्-जीवितम् एव वा ।
वर्तेत भक्त्या परया
वैष्णवस् तु चिरं सुखम् ॥ 505
मूलम्
मासं संवत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या परया वैष्णवस्तु चिरं सुखम् ॥ 505
विश्वास-प्रस्तुतिः
प्रारब्धे मध्यतो विघ्नैः
विच्छिन्ने ऽप्य् अथ कर्मणि ।
नानर्थो न च नैष्फल्यं
न कृतांशस्य संक्षयः ॥ 506
मूलम्
प्रारब्धे मध्यतो विघ्नैः विच्छिन्नेऽप्यथ कर्मणि ।
नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥ 506
विश्वास-प्रस्तुतिः
प्रारब्धेष्व् अ-समाप्तेषु
विच्छिन्नेष्व् अन्य-कर्मसु ।
भवत्य् एवैतद् अखिलं
वैदिकेष्व् इतरेष्व् अपि ॥ 507
मूलम्
प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥ 507
विश्वास-प्रस्तुतिः
कृतः खल्व् आंशको ऽप्य् अस्य
स्थित्वा सुचिरम् अक्षयः।
त्रायते च स्व-कर्तारं
स्व-शक्त्या भव-भीतितः ॥ 508
मूलम्
कृतः खल्वांशकोऽप्यस्य स्थित्वा सुचिरमक्षयः।
त्रायते च स्वकर्तारं स्वशक्त्या भवभीतितः ॥ 508