१५ निर्गतिः

पर्यङ्कासनोपचारः

विश्वास-प्रस्तुतिः

समुत्थाय ततस् तस्मै
भूयो भूयः प्रणम्य च ।
स्मारयित्वा स्वकं धाम
तद्-यानाय प्रणम्य च ॥ 483

मूलम्

समुत्थाय ततस्तस्मै भूयो भूयः प्रणम्य च ।
स्मा(धा)रयित्वा स्वकं धाम तद्यानाय प्रणम्य च ॥ 483

विश्वास-प्रस्तुतिः

दत्वाऽथ पादुका-युग्मं
तत्र देवं समानयेत्
स-पत्नीकं सानु-यात्रं
स-द्वार-प–गणे-श्वरम्॥ 484

मूलम्

दत्वाऽथ पादुकायुग्मं तत्र देवं समानयेत्।
सपत्नीकं सानुयात्रं सद्वारपगणेश्वरम्॥ 484

विश्वास-प्रस्तुतिः

ततस् तद्-अर्ह-विन्यासं
सोपधानं स्व्-अलङ्कृतम् ।
अनन्त-भोग-शयनम्
आरूढे परमात्मनि ॥ 485

मूलम्

ततस्तदर्हविन्यासं सोपधानं स्वलङ्कृतम् ।
अनन्तभोगशयनमारूढे परमात्मनि ॥ 485

विश्वास-प्रस्तुतिः

आसीनयोस् तथा देव्योः
देव-पार्श्वे यथा-तथम् ।
आसीनेषु यथा-भागं
सेनान्य्-आदिषु सर्वतः॥ 486

मूलम्

आसीनयोस्तथा देव्योः देवपार्श्वे यथातथम् ।
आसीनेषु यथाभागं सेनान्यादिषु सर्वतः॥ 486

आह्निक-निवेदनम्

विश्वास-प्रस्तुतिः

अथार्घ्य-पाद्याचमन-
ताम्बूलादि यथोचितम् ।
देवाय देवी-युक्ताय
सानुगाय निवेद्य च ॥ 487

मूलम्

अथार्घ्यपाद्याचमनताम्बूलादि यथोचितम् ।
देवाय देवीयुक्ताय सानुगाय निवेद्य च ॥ 487

विश्वास-प्रस्तुतिः

प्रणम्य दण्डवद् भूमौ
भूयो भूयः पुरो हरेः ।
अनुयागादिकं चाथ
चिकीर्षंश् चाह्निकं विधिम् ॥ 488

मूलम्

प्रणम्य दण्डवत् भूमौ भूयो भूयः पुरो हरेः ।
अनुयागादिकं चाथ चिकीर्षंश्चाह्निकं विधिम् ॥ 488

देव-निक्षेपस् तत्-परिवारे

विश्वास-प्रस्तुतिः

दत्तानुज्ञः परेणापि
गमनायात्मनो बहिः।
निर्गन्तु-कामो निक्षिप्य
देवं दौवारिकादिषु ॥ 489

मूलम्

दत्तानुज्ञः परेणापि गमनायात्मनो बहिः।
निर्गन्तुकामो निक्षिप्य देवं दौवारिकादिषु ॥ 489

विश्वास-प्रस्तुतिः

स-भयस् सानुतापश् च
चण्डादीन् द्वार-पालकान् ।
कुमुदादीन् गणेशांश् च
चक्रादीन्य् आयुधान्यपि ॥ 490

मूलम्

सभयस्सानुतापश्च चण्डादीन् द्वारपालकान् ।
कुमुदादीन् गणेशांश्च चक्रादीन्यायुधान्यपि ॥ 490

विश्वास-प्रस्तुतिः

गरुडं च विशेषेण
शेषं शेषाशनं तथा ।
प्रणम्य धारयेद् देवं
स-स्नेहादर-साध्वसम् ॥ 491

मूलम्

गरुडं च विशेषेण शेषं शेषाशनं तथा ।
प्रणम्य धारयेद्देवं सस्नेहादरसाध्वसम् ॥ 491

विश्वास-प्रस्तुतिः

निक्षिपन् जीवितम् इव
न्यस्यन्न् इव महा-निधिम् ।
निधित्सन्न् इव चक्षुः स्वम्
अर्पयन्न् इव कल्पकम्॥ 492 +++(5)+++

मूलम्

निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् ।
निधित्सन्निव चक्षुः स्वम् अर्पयन्निव कल्पकम्॥ 492

विश्वास-प्रस्तुतिः

सर्वे भवन्तः स-गणाः
सन्नद्धास् सर्व-दिक्ष्व् अपि ।
सावधानाश् च तिष्ठन्तु
निक्षिपामि भवत्स्व् अहम् ॥ 493

मूलम्

सर्वे भवन्तः सगणाः सन्नद्धास्सर्वदिक्ष्वपि ।
सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ॥ 493

विश्वास-प्रस्तुतिः

मम नाथं मम गुरुं
पितरं मातरं च मे ।
हरिं श्रियं भुवं चापि
तान् पालयत सर्वतः॥ 494

मूलम्

मम नाथं मम गुरुं पितरं मातरं च मे ।
हरिं श्रियं भुवं चापि तान् पालयत सर्वतः॥ 494

विश्वास-प्रस्तुतिः

यथा-निक्षिप्त-रूपं मे
सन्दर्शयत सर्वदा ।
भवतश् शरणं लब्ध्वा
व्रजामि गतसाध्वसः॥ 495

मूलम्

यथानिक्षिप्तरूपं मे सन्दर्शयत सर्वदा ।
भवतश्शरणं लब्ध्वा व्रजामि गतसाध्वसः॥ 495

प्रति-प्राप्ति-प्रार्थना देवे

विश्वास-प्रस्तुतिः

इति विज्ञाप्य तान् पश्चात्
प्रार्थयेत हरिं गिरा।

मूलम्

इति विज्ञाप्य तान् पश्चात् प्रार्थयेत हरिं गिरा।

विश्वास-प्रस्तुतिः

ननु देव त्वम् एवैकः
स-स्थावर-चरं जगत्॥ 496
ब्रह्मादि-स्थावरान्तं च
परिपासि बिभर्षि च ।
संहरिष्यसि चाप्य् अन्ते
रूपैः स्वैस् स्वैर् यथेप्सितैः॥ 497

मूलम्

ननु देव त्वमेवैकः सस्थावरचरं जगत्॥ 496
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च ।
संहरिष्यसि चाप्यन्ते रूपैः स्वैस्स्वैर्यथेप्सितैः॥ 497

विश्वास-प्रस्तुतिः

केन त्वं पाल्यसे देव
केन वा त्वं विहिंस्यसे
अतस् त्वम् एव त्वां देव्यौ
चण्डादीन् पालकानपि॥ 498

मूलम्

केन त्वं पाल्यसे देव केन वा त्वं विहिंस्यसे।
अतस्त्वमेव त्वां देव्यौ चण्डादीन्पालकानपि॥ 498

विश्वास-प्रस्तुतिः

मां च मामकम् अप्य् एतत्
सर्वं गृहम् अशेषतः ।
पालयित्वा स्व-सङ्कल्प-
मात्रेण मधुसूदन ॥ 499

मूलम्

मां च मामकमप्येतत् सर्वं गृहमशेषतः ।
पालयित्वा स्वसङ्कल्पमात्रेण मधुसूदन ॥ 499

विश्वास-प्रस्तुतिः

त्वां मया त्वयि निक्षिप्तं
विश्वस्तेनार्थिकल्पक ।
आगताय यथाकालं
सर्वं मे दातुम् अर्हसि ॥ 500

मूलम्

त्वां मया त्वयि निक्षिप्तं विश्वस्तेनार्थिकल्पक ।
आगताय यथाकालं सर्वं मे दातुमर्हसि ॥ 500

स्व-क्रिया-नियोगः

विश्वास-प्रस्तुतिः

इति विज्ञाप्य पुरतः
दण्डवत् प्रणिपत्य च ।
होमं पितृ-क्रियां पश्चाद्
अनुयागादिकं च यत् ॥ 501

मूलम्

इति विज्ञाप्य पुरतः दण्डवत्प्रणिपत्य च ।
होमं पितृक्रियां पश्चाद् अनुयागादिकं च यत् ॥ 501

विश्वास-प्रस्तुतिः

सर्वम् आवेद्य तेनैव
नियुक्तस् तच्-चिकीर्षया ।
वीक्षमाणस् तम् एवैनं
चक्षुषा स्तब्ध-पक्ष्मणा ॥ 502

मूलम्

सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया ।
वीक्षमाणस्तमेवैनं चक्षुषा स्तब्धपक्ष्मणा ॥ 502

पिधानम्

विश्वास-प्रस्तुतिः

मूर्ध्नि न्यस्ताञ्जलि-पुटः
विनिष्क्रम्य शनैश् शनैः।
बद्ध्वा कवाट-युगलं
रक्षां कृत्वा प्रणम्य च ॥ 503

मूलम्

मूर्ध्नि न्यस्ताञ्जलिपुटः विनिष्क्रम्य शनैश्शनैः।
बद्ध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च ॥ 503