स्वाध्याय-निवेदनम्
विश्वास-प्रस्तुतिः
एवम् अभ्यर्च्य सेनान्यं
स-पत्नीकं समन्त्रिणम् ।
देव-पार्श्वम् उपागम्य
प्रणम्य च पुनः पुनः ॥ 454
मूलम्
एवमभ्यर्च्य सेनान्यं सपत्नीकं समन्त्रिणम् ।
देवपार्श्वमुपागम्य प्रणम्य च पुनः पुनः ॥ 454
विश्वास-प्रस्तुतिः
प्राप्तम् अह्नश् चतुर्थांशं
स्वाध्यायार्थम् उदीरितम् ।
विज्ञाप्य विष्णवे तस्मै
लब्धानुज्ञस् ततोऽपि च ॥ 455
मूलम्
प्राप्तमह्नश्चतुर्थांशं स्वाध्यायार्थमुदीरितम् ।
विज्ञाप्य विष्णवे तस्मै लब्धानुज्ञस्ततोऽपि च ॥ 455
अष्टाक्षरजपः
न्यासान्तम्
विश्वास-प्रस्तुतिः
बाह्यार्थाद् अखिलाच् चेतः
समाहृत्येन्द्रियैस् सह।
जपन्न् अष्टाक्षरं मन्त्रं
प्राणायाम-पुरस्-सरम् ॥ 456
मूलम्
बाह्यार्थादखिलाच्चेतः समाहृत्येन्द्रियैस्सह।
जपन्नष्टाक्षरं मन्त्रं प्राणायामपुरस्सरम् ॥ 456
विश्वास-प्रस्तुतिः
प्रयतः परया भक्त्या
पूर्वम् एव समाहितः।
कराङ्गुलि-शरीरेषु
न्यासान् कृत्वा यथोदितान् ॥ 457
मूलम्
प्रयतः परया भक्त्या पूर्वमेव समाहितः।
कराङ्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् ॥ 457
गुर्व्-आदि-नमस्कारः
विश्वास-प्रस्तुतिः
गुरुं मन्त्रम् ऋषिं छन्दो
देवताश् च यथाक्रमम् ।
शक्तिं बीजं च शिरसा
प्रणमेद् एवम् आदृतः॥ 458
द्राविडम्
आसार्यर्गळैयुम् मन्द्रत्तैयुम् मन्द्रत्रष्टावान रिषियैयुम् सन्दस्सैयुम्
मन्द्रार्त्तमान तेवदैयै युम्
मन्द्रसक्ति पागत्तैयुम् पीजाक्षरत्तैयुम्
कीऴ्क्कूऱु माऱु प्रीदियुडन् वणङ्ग वेण्डुम्. (ऎव्वाऱॆनिल्-)
गुरु-नतिः
मूलम्
गुरुं मन्त्रमृषिं छन्दो देवताश्च यथाक्रमम् ।
शक्तिं बीजं च शिरसा प्रणमेदेवमादृतः॥ 458
विश्वास-प्रस्तुतिः
इदं गुरुभ्यः पूर्वेभ्यः
क्रियते शिरसा नमः।
मन्त्र-ज्ञान-प्रदातृप्यस्
तद्-गुरुभ्योऽपि सांप्रतम् ॥ 459
मूलम्
इदं गुरुभ्यः पूर्वेभ्यः क्रियते शिरसा नमः।
मन्त्रज्ञानप्रदातृप्यः तद्गुरुभ्योऽपि सांप्रतम् ॥ 459
मन्त्र-नतिः
विश्वास-प्रस्तुतिः
नमस् ते मन्त्र-राजाय
नमस् ते ऽष्टाक्षरात्मने।
नमस् ते चेतनाधार-
पर-ब्रह्माभिधायिने॥ 460
मूलम्
नमस्ते मन्त्रराजाय नमस्तेऽष्टाक्षरात्मने।
नमस्ते चेतनाधारपरब्रह्माभिधायिने॥ 460
ऋषि-नतिः
विश्वास-प्रस्तुतिः
स्थित्वा ऽन्तर्-हृदये सर्वान्
आत्मनस् सन्-नियच्छते।
ऋषये ऽष्टाक्षरस्यान्तर्-
यामिणे हरये नमः ॥ 461 +++(5)+++
(ऋषयेऽष्टाक्षरस्यास्य
बदर्याश्रमवासिने)॥
मूलम्
स्थित्वाऽन्तर्हृदये सर्वानात्मनस्सन्नियच्छते।
ऋषयेऽष्टाक्षरस्यान्तर्यामिणे हरये नमः ॥ 461
(ऋषयेऽष्टाक्षरस्यास्य बदर्याश्रमवासिने इति पाठान्तरम्)॥
छन्दो-नतिः
विश्वास-प्रस्तुतिः
अष्टाक्षर-महा-मन्त्र-
वर्ण-सङ्ख्याभिधायिनीम्।
छन्दश् च देवीं गायत्रीं
शिरसा प्रणमाम्य् अहम् ॥ 462
मूलम्
अष्टाक्षरमहामन्त्रवर्णसङ्ख्याभिधायिनीम्।
छन्दश्च देर्वी गायत्रीं शिरसा प्रणमाम्यहम् ॥ 462
शक्ति-नतिः
विश्वास-प्रस्तुतिः
मन्त्र-शक्तिः स्थिता यस्मिन्
आश्रिते ऽष्टार्थ-दायिनी।
पदं “नारायणाये"ति
शक्तिं तां प्रणमाम्यहम् ॥ 463
मूलम्
मन्त्रशक्तिः स्थिता यस्मिन् आश्रितेष्टार्थदायिनी।
पदं नारायणायेति शक्तिं तां प्रणमाम्यहम् ॥ 463
बीज-नतिः
विश्वास-प्रस्तुतिः
अ-काराद् उत्थितं बीजं
वासुदेवाभिधायिनम्।
तद् बीजम् अस्य प्रभवं
प्रणवं प्रणतो ऽस्म्य्** अहम् ॥ 464
मूलम्
अकारादुत्थितं बीजं वासुदेवाभिधायिनम्।
तद्बीजमस्य प्रभवं प्रणवं प्रणतोऽस्म्यहम् ॥ 464
देवता-नतिः
विश्वास-प्रस्तुतिः
मन्त्रस्य देवतां चापि
परमात्मानम् अव्ययम् ।
नारायणं परं ब्रह्म
नतोऽस्मि शिरसा हरिम् ॥ 465
मूलम्
मन्त्रस्य देवतां चापि परमात्मानमव्ययम् ।
नारायणं परं ब्रह्म नतोऽस्मि शिरसा हरिम् ॥ 465
जपारम्भः
विश्वास-प्रस्तुतिः
प्रणम्य चैव गुर्वादीन्
गन्धाद्यैर् अभिपूज्य च।
अनिशं भगवद्-बिम्बम्
आपीठाद् अवलोकयन्॥ 466
मूलम्
प्रणम्य चैव गुर्वादीन् गन्धाद्यैरभिपूज्य च।
अनिशं भगवद्बिम्बमापीठादवलोकयन्॥ 466
जपः
विश्वास-प्रस्तुतिः
जपेद् अष्टाक्षरं मन्त्रं
तद्-अर्थम् अनुचिन्तयन्।
अष्टोत्तर-सहस्रं वा
शतं वा दश वोत्सुकः॥ 467
मूलम्
जपेदष्टाक्षरं मन्त्रं तदर्थमनुचिन्तयन्।
अष्टोत्तरसहस्रं वा शतं वा दश वोत्सुकः॥ 467
आकृति-ध्यानम्
विश्वास-प्रस्तुतिः
जपान्ते मनसा ध्यात्वा
यथोक्ताकृतिम् अच्युतम्।
स-पत्नीकं सानुयात्रं
स-द्वार-प–गणेश्वरम्॥ 468
मूलम्
जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम्।
सपत्नीकं सानुयात्रं सद्वारपगणेश्वरम्॥ 468
श्रणागतिः
विश्वास-प्रस्तुतिः
कृत्वैवं मनसा योगं
सुचिरं हृष्ट-मानसः।
उत्थाय च ततो योगात्
दण्डवत् प्रणिपत्य च॥ 469
मूलम्
कृत्वैवं मनसा योगं सुचिरं हृष्टमानसः।
उत्थाय च ततो योगात् दण्डवत् प्रणिपत्य च॥ 469
विश्वास-प्रस्तुतिः
स्तुत्वा च बहुभिः स्तोत्रैः
कृत्वा चापि प्रदक्षिणम्।
स्थित्वाग्रे देवदेवस्य
कृत्वा मूर्ध्नि कृताञ्जलिम्॥ 470
मूलम्
स्तुत्वा च बहुभिः स्तोत्रैः कृत्वा चापि प्रदक्षिणम्।
स्थित्वाग्रे देवदेवस्य कृत्वा मूर्ध्नि कृताञ्जलिम्॥ 470
विश्वास-प्रस्तुतिः
“जितं त” इति मन्त्रेण
तं देवं शरणं व्रजेत्।
ततः स्वस्मै प्रसन्नाय
दत्ते तेनाभये सति॥ 471
मूलम्
जितं त इति मन्त्रेण तं देवं शरणं व्रजेत्।
ततः स्वस्मै प्रसन्नाय दत्ते तेनाभये सति॥ 471
विश्वास-प्रस्तुतिः
निर्भयस् सर्व-भूतेभ्यो
भवेन् निर्वृत-मानसः।
कर्मण्य् अवसिते तस्मिन्
दुर्लभे दुष्करेऽपि च॥ 472 +++(4)+++
मूलम्
निर्भयस्सर्वभूतेभ्यो भवेन्निर्वृतमानसः।
कर्मण्यवसिते तस्मिन् दुर्लभे दुष्करेऽपि च॥ 472
आत्म-निवेदनम्
विश्वास-प्रस्तुतिः
अर्घ्यं दत्वा यथा-पूर्वं
स्वम् आत्मानं निवेद्य च।
स्व-निवेदित-मन्त्रेण
दास-शिष्यात्मजन्मनः॥ 473
द्राविडम्
अन्दत् तिरुवारादन-गार्यम् सॆय्य मुडियाददु सॆय्दु
मुडिन्द पिऱगु,
अर्क्कयम् समर्पिन्दु मुन्बोल्
तन्नै समर्प्पिक्कवान मन्द्रत्ताले (मूल मन्द्रत्ताले)
तन्नयुम्, तनदु अडिमैगळ् सिष्यर् पुत्रर् ऎल्लोरैयुम् समर्प्पित्तु विट्टु
(निवेदि त ऎण्ड्र विडत्तिल् निवेदन ऎनविरुक्कुम्.)159
मूलम्
अर्घ्यं दत्वा यथापूर्वं स्वमात्मानं निवेद्य च।
स्वनिवेदितमन्त्रेण दासशिष्यात्मजन्मनः॥ 473
सात्त्विक-त्यागः
विश्वास-प्रस्तुतिः
सादरः स्वेन शिरसा
भक्ति-निघ्नः परात्मने।
निदध्यात् स्वं च कर्तृत्वं
तस्मिन्न् एव परात्मनि॥ 474+++(4)+++
द्राविडम्
ऎम्बॆरुमानुक्कु पक्तिबरवसनाय् अवनिडत्तिलेये
तनदु आरादन कर्त्तावाम् तन्मैयैत्
तलै वणङ्गिच् चेर्क्कवेण्डुम्. (इदु सात्विग त्यागम्.)
मूलम्
सादरः स्वेन शिरसा भक्तिनिघ्नः परात्मने।
निदध्यात् स्वं च कर्तृत्वं तस्मिन्नेव परात्मनि॥ 474
अपराधक्षमा प्रार्थना
विश्वास-प्रस्तुतिः
क्षामयेच् चापराधान्
स्वान् ज्ञानाज्ञानोपपादितान्।
अ-सङ्ख्यान् अ-विषह्यांश् च
क्रियमाणान् अहर्निशम् ॥ 475
मूलम्
क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान्।
असङ्ख्यानविषह्यांश्च क्रियमाणानहर्निशम् ॥ 475
विश्वास-प्रस्तुतिः
अज्ञानतो ऽप्य् अशक्त्या वा
आलस्याद् दुष्ट-भावतः।
कृतापराधं कृपया
क्षन्तुम् अर्हसि मां विभो॥ 476
मूलम्
अज्ञानतोऽप्यशक्त्या वा आलस्याद्दुष्टभावतः।
कृतापराधं कृपया क्षन्तुमर्हसि मां विभो॥ 476
विश्वास-प्रस्तुतिः
अज्ञानाद् अथवा ज्ञानाद्
अ-शुभं यत् कृतं मया।
क्षन्तव्यं तद् अशेषेण
दास्येन च गृहाण माम्॥ 477
मूलम्
अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया।
क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम्॥ 477
विश्वास-प्रस्तुतिः
उपचारापदेशेन
कृतान् अहर् अहर् मया।
अपचारान् इमान् सर्वान्
क्षमस्व पुरुषोत्तम॥ 478
मूलम्
उपचारापदेशेन कृतानहरहर्मया।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम॥ 478
विश्वास-प्रस्तुतिः
शिरसा प्रार्थितेनैवं
प्रसन्नेन परात्मना।
क्षान्त-सर्वापचारेण
करुणामृत-वर्षिणा॥ 479
मूलम्
शिरसा प्रार्थितेनैवं प्रसन्नेन परात्मना।
क्षान्तसर्वापचारेण करुणामृतवर्षिणा॥ 479
विश्वास-प्रस्तुतिः
वात्सल्यौदार्य-सौशील्याद्य्-
अनन्त-गुण-शालिना ।
अशरण्य-शरण्येन
कृपया परया स्वया॥ 480
मूलम्
वात्सल्यौदार्यसौशील्याद्यनन्तगुणशालिना ।
अशरण्यशरण्येन कृपया परया स्वया॥ 480
विश्वास-प्रस्तुतिः
सुस्मितालोक-मधुरम्
आहूयाद्भुतया गिरा ।
दत्तं तत्-पदयोर् युग्मं
स्वयम् एव स्व-मूर्धनि॥ 481
वहंस्, तच्-चरण-स्पर्श-
निहताशेष-कल्मषः।
मूलम्
वहंस्तच्चरणस्पर्शनिहताशेषकल्मषः।
सुस्मितालोकमधुरमाहूयाद्भुतया गिरा ।
दत्तं तत्पदयोर्युग्मं स्वयमेव स्वमूर्धनि॥ 481
विश्वास-प्रस्तुतिः
आसित्वा सु-चिरं तस्य
पुरतः परया मुदा ॥ 482 +++(5)+++
मूलम्
आसित्वा सुचिरं तस्य पुरतः परया मुदा ॥ 482