१३ पुनर्-मन्त्रासनम्

विश्वास-प्रस्तुतिः

ततो निवेद्य प्रणतः
प्रथमासनम् आदरात् ।
प्रदाय पादुका-युग्मं
शनकैश् शनकैर् नयेत्॥ 430
देवं देव्यौ च संहृष्टः
कृतार्थेनान्तरात्मना।

द्राविडम्

पिऱगु मुदलासनत्तैप् पॆऱ विज्ञाबित्तुप्
पादुगैगळै अर्प्पणम् सॆय्दु
अव्वासनत्तिऱ्‌कु तेवनैयुम् तेविमारैयुम्
कार्यबूर्त्तियानदाल् पयन् पॆट्र मनत्त् उडन्
सन्दुष्टनाय् ऎऴुन्द् अरुळप् पण्णुव ताम्.

मूलम्

ततो निवेद्य प्रणतः प्रथमासनमादरात् ।
प्रदाय पादुकायुग्मं शनकैश्शनकैर्नयेत्॥ 430
देवं देव्यौ च संहृष्टः कृतार्थेनान्तरात्मना।

विश्वास-प्रस्तुतिः

तत्रासीनाय देवाय
स-पत्नीकाय सादरम्॥ 431
दत्वा पूर्ववद् अर्घ्याद्यम्
उपचाराष्टकं +++(=अर्घ्य-पाद्याचमनीय-गन्ध-ताम्बूलासनानि)+++ क्रमात् ।
दीपाचमन-पर्यन्तं
परस्मै मन्त्र-मूर्तये॥ 432

द्राविडम्

अदिल् तेविमारोडु वीट्रिरुक्कुम् पॆरुमानु.
अर्क्य पात्य आसमनीय कन्द पुष्प तूबदीब आसमनङ्. (ऎट्टै) समर्बिप्पदाम्.

मूलम्

तत्रासीनाय देवाय सपत्नीकाय सादरम्॥ 431
दत्वा पूर्ववदर्घ्याद्यमुपचाराष्टकं क्रमात् ।
दीपाचमनपर्यन्तं परस्मै मन्त्रमूर्तये॥ 432

अनुपानानि

विश्वास-प्रस्तुतिः

अपूपान् विविधान् स्वादून्
शालि-पिष्टोपपादितान्।
शुभैः स्वादु-घृतैः पक्वान्
प्रभूत-गुड-संयुतान्॥ 433

मूलम्

अपूपान्विविधान्स्वादून् शालिपिष्टोपपादितान्।
शुभैः स्वादुघृतैः पक्वान्प्रभूतगुडसंयुतान्॥ 433

विश्वास-प्रस्तुतिः

पृथुकान् गुड-संमिश्रान्
स-जीरक-मरीचकान्।
कदली-पनसाम्राणां
सु-पक्वानि फलान्यपि॥ 434

मूलम्

पृथुकान् गुडसंमिश्रान् सजीरकमरीचकान्।
कदलीपनसाम्राणां सुपक्कानि फलान्यपि॥ 434

विश्वास-प्रस्तुतिः

ततस् सनालिकेराणि
शुचि-स्वादु-रसानि च ।
दत्वा ऽनुपानानि
ततः तर्पणाचमने अपि॥ 435

मूलम्

ततस्सनालिकेराणि शुचिस्वादुरसानि च ।
दत्वाऽनुपानानि ततः तर्पणाचमने अपि॥ 435

वाद्यादि

विश्वास-प्रस्तुतिः

स-कर्पूरं स-तांबूलं
क्रमुकं+++(=पूगं)+++ पुष्प-वासितम्।
नृत्तं गीतं च वाद्यं च
नेत्र-श्रुति-मनोहरम्॥ 436

मूलम्

सकर्पूरं सतांबूलं क्रमुकं पुष्पवासितम्।
नृत्तं गीतं च वाद्यं च नेत्रश्रुतिमनोहरम्॥ 436

विश्वास-प्रस्तुतिः

दर्शयित्वा च देवीभ्याम्
उपहारादि पूर्ववत्।
विनिवेद्य च ताम्बूलं
स्तुत्वा स्तोत्रैः प्रणम्य च ॥ 437

मूलम्

दर्शयित्वा च देवीभ्यामुपहारादि पूर्ववत्।
विनिवेद्य च ताम्बूलं स्तुत्वा स्तोत्रैः प्रणम्य च ॥ 437

परिवारार्चनम्

विश्वास-प्रस्तुतिः

गरुत्मच्–छेष-शेषाश–
प्रमुखेभ्योऽपि सादरम्।
सर्वेभ्यः परिवारेभ्यः
कृत्वैतत् सर्वम् अञ्जसा॥ 438

मूलम्

गरुत्मच्छेषशेषाशप्रमुखेभ्योऽपि सादरम्।
सर्वेभ्यः परिवारेभ्यः कृत्वैतत्सर्वमञ्जसा॥ 438

विश्वास-प्रस्तुतिः

स्व-गुरूंस् तद्-गुरूंश् चापि
गन्धाद्यैर् अभिपूज्य च।
निवेद्य च यथापूर्वं
शक्तितो हरि-पूजनम्॥ 439

मूलम्

स्वगुरूंस्तद्गुरूंश्चापि गन्धाद्यैरभिपूज्य च।
निवेद्य च यथापूर्वं शक्तितो हरिपूजनम्॥ 439

विश्वास-प्रस्तुतिः

अनुमोदित एवं तैः
स-स्मितं सदयाऽऽत्मभिः।

मूलम्

अनुमोदित एवं तैः सस्मितं सदयात्मभिः।

निवेदितान्नविनियोगः

भाग-करणम्

विश्वास-प्रस्तुतिः

ततो विशेष-पूजायै
विष्वक्सेनस्य संयतः॥ 440
अभ्यनुज्ञाप्य देवेशं
तेन चाप्य् अनुमोदितः
ततः प्रतिनिवेद्याथ
नैवेद्यम् अभिवीक्ष्य च ॥ 441

मूलम्

ततो विशेषपूजायै विष्वक्सेनस्य संयतः॥ 440
अभ्यनुज्ञाप्य देवेशं तेन चाप्यनुमोदितः।
ततः प्रतिनिवेद्याथ नैवेद्यमभिवीक्ष्य च ॥ 441

विश्वास-प्रस्तुतिः

भगवद्-धस्त-संस्पर्श-
लब्ध
-सौगन्ध्य-निर्भरम्।
भगवद्-वीक्षणावाप्त-
शुद्ध्य्-आधिक्य-विभूषितम् ॥ 442

मूलम्

भगवद्धस्तसंस्पर्शलब्धसौगन्ध्यनिर्भरम्।
भगवद्वीक्षणावाप्तशुद्ध्याधिक्यविभूषितम् ॥ 442

विश्वास-प्रस्तुतिः

सर्व-शुद्धि-करं सर्व-
भोक्तृ-पाप-विनाशनम्
चतुर्धा संविभज्यैतत्
षोढा वा स्वेन पाणिना ॥ 443

मूलम्

सर्वशुद्धिकरं सर्वभोक्तृपापविनाशनम् ।
चतुर्धा संविभज्यैतत् षोढा वा स्वेन पाणिना ॥ 443

विश्वास-प्रस्तुतिः

विष्वक्सेनार्चनार्थाय
न्यस्यैकं भागम् अग्रतः।
प्राङ्-निवेदितम् एतत् तु
नैवेद्यम् अ-विशेषितम् ॥ 444

मूलम्

विष्वक्सेनार्चनार्थाय न्यस्यैकं भागमग्रतः।
प्राङ्निवेदितमेतत्तु नैवेद्यमविशेषितम् ॥ 444

सत्पात्रेभ्यः

विश्वास-प्रस्तुतिः

प्रयच्छेत् पात्र-भूतेभ्यो
वैष्णवेभ्यो विभज्य तत्।
आत्मार्थं शिरसा स्वेन
स्वीकुर्याच् च स्वयं च तत् ॥ 445

मूलम्

प्रयच्छेत्पात्रभूतेभ्यो वैष्णवेभ्यो विभज्य तत्।
आत्मार्थं शिरसा स्वेन स्वीकुर्याच्च स्वयं च तत् ॥ 445

अपात्रदाननिषेधः

विश्वास-प्रस्तुतिः

नैव देयम् अपात्रेभ्यः
कदाचिद् इह किंचन।
प्रायश्चित्ती भवेद् दाता
अपात्रे प्रतिपादनात् ॥ 446

मूलम्

नैव देयमपात्रेभ्यः कदाचिदिह किंचन।
प्रायश्चित्ती भवेद्दाता अपात्रे प्रतिपादनात् ॥ 446

विश्वास-प्रस्तुतिः

भगवन्-मन्त्र-दृक्-पूतम्
अपात्रेभ्यो ददाति यः।
सिद्धोऽपि याति पातित्यम्
आरुरुक्षुस् तु किं पुनः ॥ 447 +++(5)+++

मूलम्

भगवन्मन्त्रदृक्पूतमपात्रेभ्यो ददाति यः।
सिद्धोऽपि याति पातित्यमारुरुक्षुस्तु किं पुनः ॥ 447

विश्वास-प्रस्तुतिः

दाता प्रतिग्रहीता च
नरकं व्रजतो ध्रुवम् ।

मूलम्

दाता प्रतिग्रहीता च नरकं व्रजतो ध्रुवम् ।

विष्वक्सेनः

विश्वास-प्रस्तुतिः

ततः प्रापण-भागेन
विभक्तेनात्मना पुरा ॥ 448
भुक्तोज्झितैश् च देवेन
गन्ध-पुष्पाम्बरादिभिः।
अर्चयेत् स-परीवारं
स्व-मन्त्रेण चमू-पतिम् ॥ 449

मूलम्

ततः प्रावणभागेन विभक्तेनामना पुरा ॥ 448
भुक्तोज्झितैश्च देवेन गन्धपुष्पाम्बरादिभिः।
अर्चयेत् सपरीवारं स्वमन्त्रेण चमूपतिम् ॥ 449

विश्वास-प्रस्तुतिः

तेन भुक्तोज्झितं सर्वं
भक्त-स्रक्-चन्दनादिकम्।
देव-भुक्तोज्झितं चापि
पवित्रं पाप-नाशनम् ॥ 450

द्राविडम्

विष्वक्सेनर्बॆट्रदु पोग मिगुन्द पक्तम्-(अदावदु अन्नम्) मट्रुम् मालै सन्दनम् मुदलानवैयुम्
ऎम्बॆरुमान् पुसित्तु मिगुन्ददुम् ऎल्लाम्
परिसुत्त मानदु. पाबङ्गळैयॆल्लाम् पोक्कुवदु.

मूलम्

तेन भुक्तोज्झितं सर्वं भक्तस्रक्चन्दनादिकम्।
देवभुक्तोज्झितं चापि पवित्रं पापनाशनम् ॥ 450

विश्वास-प्रस्तुतिः

कस्मैचित् प्रयच्छेत् तद्
अपात्राय विशेषतः।
अपात्रे ददतं मूढं
तद्-भूतानि शपन्ति हि॥ 451

द्राविडम्

यागत्तैत् तलैयाल् मदित्तुप् पॆऱुवदु.
(इदु पिऱग् उपयोगिप्पदऱ्‌काग रक्षिदर्
ऎण्ड्रुम् आसार्यर् ऎण्ड्रुम् सॊल्लप्पडुम्.
आराकळुम् तानुम्
तविर वेऱु अङ्गु इरुप्पवर् पोण्ड्र वैष्णवर्गळै इङ्गे सॊन्नदाम्.
पिऱगुत्तन्नोडुकळाय् इरुप्पवर्
पिन्ने पूर्णम् आग आरादिक्कप्पडुकळ्. तविर कारिगळुक्कागवुम् पागम् उण्डु.
कारि वार् समैक्किण्ड्र्-अवर्गळ्-बोण्ड्रवर्.
आलयत्तिल् विसेषम्.
किरुहत्तिलुम् सिल विडङ्गळिल् उण्डु.)
सत्-पात्रमागादार्क्कुच् चिऱिदुम् कॊडुक्कलागादु.
…त्ताल् प्रायच्चित्तम् सॆय्दु कॊळ्ळ वेण्डुम्.

मूलम्

न कस्मैचित् प्रयच्छेत्तद् अपात्राय विशेषतः।
अपात्रे ददतं मूढं तद्भूतानि शपन्ति हि॥ 451

विश्वास-प्रस्तुतिः

ततस् तद्-भूत-तृप्त्य्-अर्थं
विशुद्धांभसि निक्षिपेत्
तद्-गणानुचरो भूत्वा
भुञ्जीत स्वयम् अप्य् अदः ॥ 452 +++(5)+++

मूलम्

ततस्तद्भूततृप्त्यर्थं विशुद्धांभसि निक्षिपेत्।
तद्गणानुचरो भूत्वा भुञ्जीत स्वयमप्यदः ॥ 452

विश्वास-प्रस्तुतिः

तद्-आश्रितानां भूतानां
पाताल-तल-वासिनाम् ।
स्वेन भक्तोज्झितं सर्वं
दत्तं तेन महात्मना॥ 453

द्राविडम्

विष्वक्सेनरैय् आच्रयित्तुप् पादाळत्तिल् वासम् सॆय्युम् अवरुक्काग अम् महात्मा अदै अळित्त् इरुक्किऱार्.

मूलम्

तदाश्रितानां भूतानां पातालतलवासिनाम् ।
स्वेन भक्तोज्झितं सर्वं दत्तं तेन महात्मना॥ 453