विश्वास-प्रस्तुतिः
भोजनासनम् आवेद्य
तद्-यानाय प्रणम्य च।
पादुकाग्र्ये प्रदायाथ
भोजनासनम् आनयेत् ॥ 408
मूलम्
भोजनासनमावेद्य तद्यानाय प्रणम्य च।
पादुकाग्र्ये प्रदायाथ भोजनासनमानयेत् ॥ 408
विश्वास-प्रस्तुतिः
तत्रासीनाय दत्वा ऽर्घ्यं
पाद्यम् आचमनं ततः।
मधु-पर्कं मधु-युतं
दधि दद्यात् घृताप्लुतम् ॥ 409
मूलम्
तत्रासीनाय दत्वाऽर्घ्यं पाद्यमाचमनं ततः।
मधुपर्कं मधुयुतं दधि दद्यात् घृताप्लुतम् ॥ 409
विश्वास-प्रस्तुतिः
तत आचमनं दत्वा
हस्तप्र(सं)क्षालनं तथा।
सालङ्कारां च गां दद्यात्
गोमात्रार्थं परात्मने ॥ 410
मूलम्
तत आचमनं दत्वा हस्तप्र(सं)क्षालनं तथा।
सालङ्कारां च गां दद्यात् गोमात्रार्थं परात्मने ॥ 410
आभ्यवहारिकोपचाराः देवाय
विश्वास-प्रस्तुतिः
ततः प्रसन्नः प्रयतः
प्रभूतं षड्-रसान्वितम्।
प्रभूत-घृत-संयुक्तम्
फलैः स्वादुभिर् आवृतम् ॥ 411
मूलम्
ततः प्रसन्नः प्रयतः प्रभूतं षड्रसान्वितम्।
प्रभूतघृतसंयुक्तम् फलैः स्वादुभिरावृतम् ॥ 411
विश्वास-प्रस्तुतिः
प्रभूताज्याक्त-मधुर-
विविध-व्यञ्जनान्वितम्।
बहूप-दंशं बहुभिश्
चूर्णैर् अपि सुसंस्कृतम्॥ 412
मूलम्
प्रभूताज्याक्तमधुरविविधव्यञ्जनान्वितम्।
बहूपदंशं बहुभिश् चूर्णैरपि सुसंस्कृतम्॥ 412
विश्वास-प्रस्तुतिः
मूल-मन्त्राभिमृष्टं च
संस्कृतं शोषणादिभिः।
दिव्यामृत-पयस्विन्या
सिक्त्वा सुरभि-मुद्रया॥ 413
मूलम्
मूलमन्त्राभिमृष्टं च संस्कृतं शोषणादिभिः।
दिव्यामृतपयस्विन्या सिक्त्वा सुरभिमुद्रया॥ 413
विश्वास-प्रस्तुतिः
हविर् निधाय पुरतो
देवस्यात्यन्तम् उत्सुकः।
विज्ञापयेच् च पुरतस्
तिष्ठन् मूर्ध्नि कृताञ्जलिः॥ 414
मूलम्
हविर्निधाय पुरतः देवस्यात्यन्तमुत्सुकः।
विज्ञापयेच्च पुरतः तिष्ठन् मूर्ध्नि कृताञ्जलिः॥ 414
विश्वास-प्रस्तुतिः
अ-सत्यम् अ-शुचिं नीचम्
अपराधैक-भाजनम् ।
अल्प-शक्तिम् अचैतन्यम्
अन्-अर्हं तत्-क्रियास्व् अपि॥ 415
मूलम्
असत्यमशुचिं नीचमपराधैकभाजनम् ।
अल्पशक्तिमचैतन्यम् अनर्हं तत्क्रियास्वपि॥ 415
विश्वास-प्रस्तुतिः
माम् अनादृत्य दुर्बुद्धिं
स्वयैव कृपया विभो।
अतिप्रभूतम् अत्यन्त-
भक्ति-स्नेहोपपादितम्॥ 416
मूलम्
मामनादृत्य दुर्बुद्धिं स्वयैव कृपया विभो।
अतिप्रभूतमत्यन्तभक्तिस्नेहोपपादितम्॥ 416
विश्वास-प्रस्तुतिः
शुद्धं सर्व-गुणोपेतं
सर्व-दोष-विवर्जितम्।
स्वानुरूपं विशेषेण
स्व-देव्यास् सदृशं गुणैः॥ 417
त्वम् एवेदं हविः कृत्वा
स्वीकुरुष्व सुरेश्वर।
मूलम्
शुद्धं सर्वगुणोपेतं सर्वदोषविवर्जितम्।
स्वानुरूपं विशेषेण स्वदेव्यास्सदृशं गुणैः॥ 417
त्वमेवेदं हविः कृत्वा स्वीकुरुष्व सुरेश्वर।
विश्वास-प्रस्तुतिः
इति संप्रार्थ्य तं देवम्
आसीनस् तस्य चाग्रतः॥ 418
मूलम्
इति संप्रार्थ्य तं देवम् आसीनस्तस्य चाग्रतः॥ 418
विश्वास-प्रस्तुतिः
+++(इष्ट-पाकार्थं)+++ धान्य-मात्रां दर्शयित्वा
+++(पाक-)+++कारिणे संप्रदाय च।
द्राविडम्
इप्पडि ऎम्बॆरुमानै प्रार्त्तित्तु विट्टु
ऎदिरिल् उट्कार्न्दु
तान्य मात्रैयैप् पागगैङ्गर्यबररुक्कुक् कॊडुत्तु-विट्टु
[कीऴे [370] तण्डुल मात्रै, वित्त मात्रै, को मात्रै ऎन मूण्ड्रु सॊल्लप् पॆट्रन. इप्पोदु धान्य मात्रै.]
q.कळ् (ऎदु?) ऎनन तन् :
मूलम्
धान्यमात्रां दर्शयित्वा कारिणे संप्रदाय च।
विश्वास-प्रस्तुतिः
परिवेषोपस्तरण-
क्रियायै प्रोक्षणार्घ्यतः॥ 419
जलं गृहीत्वा देवस्य
प्रदद्याद् दक्षिणे करे।
मूलम्
परिवेषोपस्तरणक्रियायै प्रोक्षणार्घ्यतः॥ 419
जलं गृहीत्वा देवस्य प्रदद्याद्दक्षिणे करे।
विश्वास-प्रस्तुतिः
अथादाय रसं सर्वं
हविषः स्वेन पाणिना॥ 420
स्वयं वा भोजयेद् देवं
प्रयतः परया मुदा।
दद्याद् वा दक्षिणे हस्ते
देवस्य ग्रास-मुद्रया॥ 421
मूलम्
अथादाय रसं सर्वं हविषः स्वेन पाणिना॥ 420
स्वयं वा भोजयेद्देवं प्रयतः परया मुदा।
दद्याद्वा दक्षिणे हस्ते देवस्य ग्रासमुद्रया॥ 421
विश्वास-प्रस्तुतिः
दद्याद् अपि पृथक्-पात्रे
दधि-सिक्तं हविः पुनः।
ततो भुक्तवति प्रीत्या
तद+धविः पुरुषोत्तम॥ 422
मूलम्
दद्यादपि पृथक्पात्रे दधिसिक्तं हविः पुनः।
ततो भुक्तवति प्रीत्या तद्धविः पुरुषोत्तम॥ 422
देव्य्-आदिभ्यः
विश्वास-प्रस्तुतिः
देवीभ्यां च हविः शुद्धं
पायसादि यथोदितम्।
प्रभूतं सुबहु स्वादु
घृतं भक्ष्यं निवेदयेत् ॥ 423
मूलम्
देवीभ्यां च हविः शुद्धं पायसादि यथोदितम्।
प्रभूतं सुबहु स्वादु घृतं भक्ष्यं निवेदयेत् ॥ 423
अनुपनादि
विश्वास-प्रस्तुतिः
भुक्तवत्योः तयोश् चापि
पत्न्योर् देवस्य चोभयोः।
अनुपानं बहुविधं
विनिवेद्य यथोचितम्॥ 424
मूलम्
भुक्तवत्योः तयोश्चापि पत्न्योर्देवस्य चोभयोः।
अनुपानं बहुविधं विनिवेद्य यथोचितम्॥ 424
विश्वास-प्रस्तुतिः
प्रोक्षणार्घ्यात् गृहीत्वाम्भः
सर्वेभ्यस् तु पृथक् पृथक्।
करेषु तर्पणार्थाय
प्रदद्याच् चषकादिना॥ 425
मूलम्
प्रोक्षणार्घ्यात् गृहीत्वाम्भः सर्वेभ्यस्तु पृथक् पृथक्।
करेषु तर्पणार्थाय प्रदद्याच्चषकादिना॥ 425
विश्वास-प्रस्तुतिः
अथ कोष्णं शुचि जलं
दत्वा कर-विशोधनम्।
स-माष-चूर्णं सर्वेभ्यो
दत्वा गण्डूष-वारि च ॥ 426
मूलम्
अथ कोष्णं शुचि जलं दत्वा करविशोधनम्।
समाषचूर्णं सर्वेभ्यो दत्वा गण्डूषवारि च ॥ 426
विश्वास-प्रस्तुतिः
मुख-प्रक्षालनं चाम्भः
सह कर्पूर-चन्दनम्।
दत्वा चाचमनीयानि
प्लोतान्य् अपि निवेदयेत्॥ 427
मूलम्
मुखप्रक्षालनं चाम्भः सह कर्पूरचन्दनम्।
दत्वा चाचमनीयानि प्लोतान्यपि निवेदयेत्॥ 427
विश्वास-प्रस्तुतिः
हस्तस्य मार्जनायैव
प्लोतान्य् अपि निवेद्य च।
पुनश् च चन्दन-क्षोदं+++(=घर्षं)+++
स-कर्पूरं निवेदयेत्॥ 428
मूलम्
हस्तस्य मार्जनायैव प्लोतान्यपि निवेद्य च।
पुनश्च चन्दनक्षोदं सकर्पूरं निवेदयेत्॥ 428
विश्वास-प्रस्तुतिः
कराननाधिवासार्थं
ताम्बूलं चापि पूर्ववत्।
तिल-मात्रां प्रदायार्थं
कारिणे सम्प्रदाय च॥ 429
द्राविडम्
तण्डुलमात्रादिगळैप्पोल् तिलमात्रैयुम् ऒण्ड्रु.
अदैप् पॆरुमानुक्कु समर्प्पित्तु
परिसारगरिडम् सेर्प्पदु.
मूलम्
कराननाधिवासार्थं ताम्बूलं चापि पूर्ववत्।
तिलमात्रां प्रदायार्थं कारिणे सम्प्रदाय च॥ 429