विश्वास-प्रस्तुतिः
अलङ्कारासनं चास्य
दर्शयित्वा प्रसाद्य च ॥ 391
मूलम्
अलङ्कारासनं चास्य दर्शयित्वा प्रसाद्य च ॥ 391
विश्वास-प्रस्तुतिः
दत्वा तु पादुका-द्वन्द्वं
तत्र देवं समानयेत् ।
तत्रार्घ्य-पाद्याचमन-
गन्ध-संमर्दनानि च ॥ 392
मूलम्
दत्वा तु पादुकाद्वन्द्वं तत्र देवं समानयेत् ।
तत्रार्घ्यपाद्याचमनगन्धसंमर्दनानि च ॥ 392
विश्वास-प्रस्तुतिः
दत्वा तु ताल-वृन्ताद्यैर्
वीजयित्वा स-चामरैः ।
धूपितं पीत-वसनं
भूषणान्य् अखिलानि च ॥ 393
मूलम्
दत्वा तु तालवृन्ताद्यैः वीजयित्वा सचामरैः ।
धूपितं पीतवसनं भूषणान्यखिलानि च ॥ 393
विश्वास-प्रस्तुतिः
उपवीतोत्तरीये च
दत्वा ऽस्याचमनं ततः।
गन्धं बहु-विधं रम्यं
पुष्पाणि सुरभीणि च ॥ 394
मूलम्
उपवीतोत्तरीये च दत्वाऽस्याचमनं ततः।
गन्धं बहुविधं रम्यं पुष्पाणि सुरभीणि च ॥ 394
विश्वास-प्रस्तुतिः
स्रजश् च विविधा रम्याः
सुगन्धि सु-खदं दृशोः।
अञ्जनं दर्पणं धौतं
धूपं चाघ्राण-सौख्यदम् ॥ 395
मूलम्
स्रजश्च विविधा रम्याः सुगन्धि सुखदं दृशोः।
अञ्जनं दर्पणं धौतं धूपं चाघ्राणसौख्यदम् ॥ 395
विश्वास-प्रस्तुतिः
दीपम् आचमनं चापि
यथा-पूर्वं निवेदयेत्।
दर्शयित्वा ततो ऽस्त्राणि
चक्रादीनि पृथक् पृथक्॥ 396
मूलम्
दीपमाचमनं चापि यथापूर्वं निवेदयेत्।
दर्शयित्वा ततोऽस्त्राणि चक्रादीनि पृथक् पृथक्॥ 396
विश्वास-प्रस्तुतिः
स्तोत्रैः स्तुति-सुखैः स्तुत्वा
दत्वा पादुकयोर् युगम्।
स्थापयित्वा ऽग्रतश् चोच्चैर्
ध्वजं गरुड-लक्षणम्॥ 397
मूलम्
स्तोत्रैः स्तुतिसुखैः स्तुत्वा दत्वा पादुकयोर्युगम्।
स्थापयित्वाऽग्रतश्चोच्चैः ध्वजं गरुडलक्षणम्॥ 397
विश्वास-प्रस्तुतिः
छत्रं पार्वण-चन्द्राभं
मुक्ता-दाम-विराजितम्।
हैम-दण्डे च विमले
चामरे चारु-रूपिणी॥ 398
मूलम्
छत्रं पार्वणचन्द्राभं मुक्तादामविराजितम्।
हैमदण्डे च विमले चामरे चारुरूपिणी॥ 398
विश्वास-प्रस्तुतिः
प्रदर्श्य रथ-मातङ्ग-
तुरगांश् च सलक्षणान्।
शयनासन-यानानि
शङ्खांश् चामन्द्र-निस्स्वनान्॥ 399
मूलम्
प्रदर्श्य रथमातङ्गतुरगांश्च सलक्षणान्।
शयनासनयानानि शङ्खांश्चामन्द्रनिस्स्वनान्॥ 399
विश्वास-प्रस्तुतिः
भेरीश् च पटु-निध्वानाः
स-कांस्य-मधुर-स्वनाः।
मङ्गलानि च रम्याणि
गंभीर-निनदान्य् अपि॥ 400
मूलम्
भेरीश्च पटुनिध्वानाः सकांस्यमधुरस्वनाः।
मङ्गलानि च रम्याणि गंभीरनिनदान्यपि॥ 400
विश्वास-प्रस्तुतिः
हैमीश् च काहलीर् दिव्याः
सु-स्वनाः श्रोत्र-तर्पणाः।
गीतानि श्रुति-हारीणि
नृत्तं नेत्र-मनोहरम्॥ 401
मूलम्
हैमीश्च काहलीर्दिव्याः सुस्वनाः श्रोत्रतर्पणाः।
गीतानि श्रुतिहारीणि नृत्तं नेत्रमनोहरम्॥ 401
विश्वास-प्रस्तुतिः
ढक्कादि विविधं वाद्यं
शुभ-ताल-समन्वितम्।
प्रदर्श्य देवदेवस्य
प्रीणनाय पृथक् पृथक्॥ 402
मूलम्
ढक्कादि विविधं वाद्यं शुभतालसमन्वितम्।
प्रदर्श्य देवदेवस्य प्रीणनाय पृथक् पृथक्॥ 402
पुष्पाञ्जलि-प्रदानोपचारः
विश्वास-प्रस्तुतिः
वित्त-मात्रां सुवर्णाढ्यां
दत्वा भोग-प्रपूरणीम् ।
मूलम्
वित्तमात्रां सुवर्णाढ्यां दत्वा भोगप्रपूरणीम् ।
विश्वास-प्रस्तुतिः
मूल-मन्त्रेण तदनु
तद्-वर्णैश् च पृथक् पृथक् ॥ 403
पञ्चभिश् चोपनिषदैर्
वाराहाद्यैस् तथा ऽपरैः।
अन्यैश् च वैष्णवैर् मन्त्रैः
प्राप्तैर् गुरु-सकाशतः ॥ 404
मूलम्
मूलमन्त्रेण तदनु तद्वर्णैश्च पृथक् पृथक् ॥ 403
पञ्चभिश्चोपनिषदैर्वाराहाद्यैस्तथाऽपरैः।
अन्यैश्च वैष्णवैर्मन्त्रैः प्राप्तैर्गुरुसकाशतः ॥ 404
विश्वास-प्रस्तुतिः
पौरुषेणापि सूक्तेन
प्रत्य्-ऋचं परमात्मने ।
दत्वा शुभानि पुष्पाणि
प्रणम्य च पुनः पुनः ॥ 405
मूलम्
पौरुषेणापि सूक्तेन प्रत्यृचं परमात्मने ।
दत्वा शुभानि पुष्पाणि प्रणम्य च पुनः पुनः ॥ 405
विश्वास-प्रस्तुतिः
स्नानाद्य्-एतद्-अशेषेण
देव्योर् अप्य् एवम् आचरेत् ।
अन्येषां परिवाराणां
कुर्यात् गन्धादिकं क्रमात् ॥ 406
मूलम्
स्नानाद्येतदशेषेण देव्योरप्येवमाचरेत् ।
अन्येषां परिवाराणां कुर्यात् गन्धादिकं क्रमात् ॥ 406
विश्वास-प्रस्तुतिः
ततः प्रदक्षिणं कृत्वा
प्रणम्याष्टसु दिक्ष्व् अपि ।
स्तुत्वा जपित्वा स्वं मन्त्रं
ध्यात्वा देवं यथोदितम्॥ 407
मूलम्
ततः प्रदक्षिणं कृत्वा प्रणम्याष्टसु दिक्ष्वपि ।
स्तुत्वा जपित्वा स्वं मन्त्रं ध्यात्वा देवं यथोदितम्॥ 407