१० स्नानासनोपचारः

विश्वास-प्रस्तुतिः

ततः प्रणम्य स्थित्वा च
मूर्ध्न्य्-आधायाञ्जलिं स्थितः।
स्नानासनं ससंभारम्
एवं संस्मारयेद् +हरिम्॥ 360

मूलम्

ततः प्रणम्य स्थित्वा च मूर्ध्न्याधायाञ्जलिं स्थितः।
स्नानासनं ससंभारमेवं संस्मारयेद्धरिम्॥ 360

विश्वास-प्रस्तुतिः

स्नान-कालस् त्व् अयं प्राप्तस्
तवेच्छा वर्तते यदि।
अभ्यञ्जयित्वा देवेश
सुस्नानं कर्तुम् अर्हसि॥ 361

मूलम्

स्नानकालस्त्वयं प्राप्तः तवेच्छा वर्तते यदि।
अभ्यञ्जयित्वा देवेश सुस्नानं कर्तुमर्हसि॥ 361

विश्वास-प्रस्तुतिः

स्फुटी-कृतं मया देव
इदं स्नान-परे त्वयि।
स-पाद-पीठं परमम्
इदं स्नानासनं महत्॥ 362
आसादयाशु स्नानार्थं
मद्-अनुग्रह-काम्यया।

मूलम्

स्फुटीकृतं मया देव इदं स्नानपरे त्वयि।
सपादपीठं परममिदं स्नानासनं महत्॥ 362
आसादयाशु स्नानार्थं मदनुग्रहकाम्यया।

विश्वास-प्रस्तुतिः

इति विज्ञाप्य तं देवं
तेन चाप्य् अनुमोदितः॥ 363

मूलम्

इति विज्ञाप्य तं देवं तेन चाप्यनुमोदितः॥ 363

विश्वास-प्रस्तुतिः

आदाय पादुके तस्मै
स्नानासनम् अथानयेत्
तत्रासीनाय देवाय
दत्वा ऽर्घ्यं पूर्ववन् मुदा॥ 364

मूलम्

आदाय पादुके तस्मै स्नानासनमथानयेत्।
तत्रासीनाय देवाय दत्वाऽर्घ्यं पूर्ववन्मुदा॥ 364

विश्वास-प्रस्तुतिः

पूर्व-भुक्तानि माल्यानि
वस्त्राण्य् आभरणानि च।
अपनीय ततः स्नान-
शाटीं दत्वा यथोचितम्॥ 365

मूलम्

पूर्वभुक्तानि माल्यानि वस्त्राण्याभरणानि च।
अपनीय ततः स्नानशाटीं दत्वा यथोचितम्॥ 365

विश्वास-प्रस्तुतिः

पत्नीभ्याम् अपि चैवैतत्
कृत्वा सर्वं पृथक् पृथक्।
पाद्यम् आचमनं दत्वा
पाद-पीठं च सुस्थि(र)तम्॥ 366

मूलम्

पत्नीभ्यामपि चैवैतत् कृत्वा सर्वं पृथक् पृथक्।
पाद्यमाचमनं दत्वा पादपीठं च सुस्थि(र)तम्॥ 366

विश्वास-प्रस्तुतिः

दन्त-काष्ठ-द्वयं दत्वा
दन्त-पङ्क्त्योर् द्वयोर् अपि।
जिह्वा-निर्लेहन-पटं
दद्यात् स्वर्णादि-निर्मितम्॥ 367 +++(4)+++

मूलम्

दन्तकाष्ठद्वयं दत्वा दन्तपङ्क्त्योर्द्वयोरपि।
जिह्वानिर्लेहनपटं दद्यात् स्वर्णादिनिर्मितम्॥ 367

विश्वास-प्रस्तुतिः

आस्य-शोधन-तोयं च
मुख-प्रक्षालनं तथा।
तत आचमनीयाम्भ
आदर्शं निर्मलं तथा॥ 368

द्राविडम्

उळ्वाय् सोदिक्कत् तीर्त्तमुम्, तिरुमुगम् अलम्बत् तीर्त्तमुम्, आसमन तीर्त्तमुम् अऴुक्कट्र कण्णाडियुम् समर्प्पिप्पदु.

मूलम्

आस्यशोधनतोयं च मुखप्रक्षालनं तथा।
तत आचमनीयाम्भः आदर्शं निर्मलं तथा॥ 368

विश्वास-प्रस्तुतिः

हस्त-प्रक्षालनं तोयं
दत्वा, मात्रां प्रदर्श्य च।
सु-गन्धिभिः सु-रूपैश् च
कल्पितां शालि-तण्डुलैः॥ 369
प्रहृष्ट-परिचर्याख्यां
सर्व-भोग-प्रपूरणीम्।

द्राविडम्

[इन्द मात्रादानम् आन्निगत्तिल् अलङ्गारासनत् तिल् सॊल्लप्पट्टदु. इन्द ग्रन्थत्तिल् अलङ्गारासनत् तिऱ्‌ चॊन्न मात्रादानम् वेऱु.]

तिरुक्-कैक्कुत् तीर्त्तम् सेर्त्तु, प्रह्रुष्ट परिसर्यैयॆण्ड्र पॆयरुळ्ळद् उम् ऎल्ला पोगङ्गळैय् उम्
पूर्त्ति सॆय्विप्पद् उम् आन
नल्ल निऱम् उम् उळ्ळ सम्बाव्-अरिसिगळैक् कॊण्डु
वॆट्रिलैयुडन् मात्रैय् ऎन्बदै समर्प्पित्तु,

मूलम्

हस्तप्रक्षालनं तोयं दत्वा मात्रां प्रदर्श्य च।
सुगन्धिभिः सुरूपैश्च कल्पितां शालितण्डुलैः॥ 369
प्रहृष्टपरिचर्याख्यां सर्वभोगप्रपूरणीम्।

विश्वास-प्रस्तुतिः

क्रमुकं+++(=पूगं)+++ च स-ताम्बूलं
यथापूर्वं निवेद्य च ॥ 370

मूलम्

क्रमुकं च सताम्बूलं यथापूर्वं निवेद्य च ॥ 370

विश्वास-प्रस्तुतिः

अभ्यङ्गं गन्धतैलेन
सुगन्ध्य्-उद्वर्तनं शुभम्।
बहुभिश् चामराद्यैश् च
वीजनं गात्र-मर्दनम् ॥ 371

मूलम्

अभ्यङ्गं गन्धतैलेन सुगन्ध्युद्वर्तनं शुभम्।
बहुभिश्चामराद्यैश्च वीजनं गात्रमर्दनम् ॥ 371

विश्वास-प्रस्तुतिः

तैल-शोधन-चूर्णानि
गन्धामलक-वारि च।
केश-प्रक्षालनं तोयं
सुगन्धि च सुनिर्मलम् ॥ 372

मूलम्

तैलशोधनचूर्णानि गन्धामलकवारि च।
केशप्रक्षालनं तोयं सुगन्धि च सुनिर्मलम् ॥ 372

विश्वास-प्रस्तुतिः

लोध्र-कल्केय-पिण्याकं
कचोरं कर(तं)कं तथा।
प्रियङ्गु-संयुतं तोयं
निर्मलं तगरांबु च ॥ 373

मूलम्

लोध्रकल्केयपिण्याकं कचोरं कर(तं)कं तथा।
प्रियङ्गुसंयुतं तोयं निर्मलं तगरांबु च ॥ 373

विश्वास-प्रस्तुतिः

सिद्धार्थकं जलं चैव
सुगन्धि सलिलं नवम्।
सर्वौषधि-जलं सर्व-
रत्न-वारि सुगन्धि च ॥ 374

मूलम्

सिद्धार्थकं जलं चैव सुगन्धि सलिलं नवम्।
सर्वौषधिजलं सर्वरत्नवारि सुगन्धि च ॥ 374

विश्वास-प्रस्तुतिः

शुद्ध-तोयं च दत्वा,+एषाम्
अन्तरे चान्तरे जलम्।
दत्वा देवस्य शिरसि
केशान् संवेष्ट्य वाससा ॥ 375

मूलम्

शुद्धतोयं च दत्वैषामन्तरे चान्तरे जलम्।
दत्वा देवस्य शिरसि केशान् संवेष्ट्य वाससा ॥ 375

विश्वास-प्रस्तुतिः

ततश्-शुद्धैर् माष-पिष्टैश्
चूर्णैश् च विविधैश् शुभैः।
देहं संशोध्य देवस्य
जलैः प्रक्षाल्य निर्मलैः ॥ 376

मूलम्

ततश्शुद्धैर्माषपिष्टैः चूर्णैश्च विविधैश्शुभैः।
देहं संशोध्य देवस्य जलैः प्रक्षाल्य निर्मलैः ॥ 376

विश्वास-प्रस्तुतिः

स्नान-शाटीं विसृज्यान्यद्
वस्त्रं दद्यात् सु-धूपितम्
प्रदद्याच् छुद्ध-तोयं तु
स्नानासन-विशुद्धये ॥ 377

मूलम्

स्नानशाटीं विसृज्यान्यद्वस्त्रं दद्यात्सुधूपितम्।
प्रदद्याच्छुद्धतोयं तु स्नानासनविशुद्धये ॥ 377

अभिषेकोपचारः

विश्वास-प्रस्तुतिः

शोधिते च ततस् तोयैः
स्व्-आस्तृते धौत-वाससा ।
आसने च ततस् तस्मिन्
आसीने परमात्मनि ॥ 378

मूलम्

शोधिते च ततस्तोयैः स्वास्तृते धौतवाससा ।
आसने च ततस्तस्मिन् आसीने परमात्मनि ॥ 378

विश्वास-प्रस्तुतिः

उपवीतोत्तरीये च
जलं चाचमनीयकम्।
गन्धं पुष्पं च धूपं च
दीपं चाचमनं तथा ॥ 379

मूलम्

उपवीतोत्तरीये च जलं चाचमनीयकम्।
गन्धं पुष्पं च धूपं च दीपं चाचमनं तथा ॥ 379

विश्वास-प्रस्तुतिः

पवित्रं च शुभं कौशं
करयोर् उभयोर् अपि ।
स-शङ्ख-तूर्य-निर्घोषम्
ऋग्-यजुस्-साम-निःस्वनम् ॥ 380
स-नृत्त-गीतं वाद्यं च
सर्व-मङ्गल-संयुतम् ।

मूलम्

पवित्रं च शुभं कौशं करयोरुभयोरपि ।
सशङ्खतूर्यनिर्घोषम् ऋग्यजुस्सामनिःस्वनम् ॥ 380
सनृत्तगीतं वाद्यं च सर्वमङ्गलसंयुतम् ।

विश्वास-प्रस्तुतिः

सहस्र-रन्ध्र-संयुक्त-
हेम-पद्म-विनिस्सृतैः ॥ 381
जलैः सुगन्धिभिः शुद्धैः
देव-मूर्ध्न्य् अभिषेचनम्
कृत्वा प्रणम्य देवेशं
पृष्ट्वा सु-स्नानम् आदरात् ॥ 382

मूलम्

सहस्ररन्ध्रसंयुक्तहेमपद्मविनिस्सृतैः ॥ 381
जलैः सुगन्धिभिः शुद्धैः देवमूर्ध्न्यभिषेचनम् ।
कृत्वा प्रणम्य देवेशं पृष्ट्वा सुस्नानमादरात् ॥ 382

नीराजनोपचारः

विश्वास-प्रस्तुतिः

ततो नी-राजनं कृत्वा
देवं भक्ति-समन्वितः
लोध्रादि-द्रव्य-वारिभ्यो
द्वा-दशभ्यः पृथक् पृथक् ॥ 383

मूलम्

ततो नीराजनं कृत्वा देवं भक्तिसमन्वितः।
लोध्रादिद्रव्यवारिभ्यः द्वादशभ्यः पृथक् पृथक् ॥ 383

विश्वास-प्रस्तुतिः

किञ्चित् किञ्चित् समादाय
तत्-तत्-स्नानावसानतः।
सु-सञ्जातैर् जलैः पूर्णं
कलशं हेम-निर्मितम् ॥ 384

मूलम्

किञ्चित्किञ्चित् समादाय तत्तत्स्नानावसानतः।
सुसञ्जातैर्जलैः पूर्णं कलशं हेमनिर्मितम् ॥ 384

विश्वास-प्रस्तुतिः

स-दूर्वाश्वत्थ-पत्रैश् च
शुभैर् अपिहिताननम्
उपर्य् आरूढ-सौवर्ण-
चतुर्-दिग्-दीप-पात्रकम् ॥ 385

मूलम्

सदूर्वाश्वत्थपत्रैश्च शुभैरपिहिताननम्।
उपर्यारूढसौवर्णचतुर्दिग्दीपपात्रकम् ॥ 385

विश्वास-प्रस्तुतिः

भ्रामयित्वोपरि हरेस्
त्रिस् समन्त्रं प्रदक्षिणम्।
उपदीपैः परिवृतं
शङ्ख-तूर्योपनादितम् ॥ 386

मूलम्

भ्रामयित्वोपरि हरेः त्रिस्समन्त्रं प्रदक्षिणम्।
उपदीपैः परिवृतं शङ्खतूर्योपनादितम् ॥ 386

विश्वास-प्रस्तुतिः

बहिर् निर्यातयेद् एष
नीराजन-विधि-क्रमः।

मूलम्

बहिर्निर्यातयेदेष नीराजनविधिक्रमः।

विश्वास-प्रस्तुतिः

ततः पद्म-समाकार-
कलशी-नाल-निस्सृतैः॥ 387
शुद्धैः सु-गन्धिभिस् तोयैर्
देवं भूयो ऽभिषिच्य च ।
दत्वा ऽऽचमनम् अ-व्यग्रः
केशान् संमृज्य वाससा ॥ 388

मूलम्

ततः पद्मसमाकारकलशीनालनिस्सृतैः॥ 387
शुद्धैः सुगन्धिभिस्तोयैः देवं भूयोऽभिषिच्य च ।
दत्वाऽऽचमनमव्यग्रः केशान् संमृज्य वाससा ॥ 388

विश्वास-प्रस्तुतिः

देह-वारि-हरं चापि
प्लोतं दत्वा सु-धूपितम्
स्नान-शाटीम् अथावृत्य
क्षौमं दत्वा सु-धूपितम् ॥ 389

मूलम्

देहवारिहरं चापि प्लोतं दत्वा सुधूपितम् ।
स्नानशाटीमथावृत्य क्षौमं दत्वा सुधूपितम् ॥ 389

विश्वास-प्रस्तुतिः

केशाधारं शुभं क्षौमम्
आस्तीर्य+अंस-द्वयोपरि ।
केशान् प्रकीर्याधिवास्य
धूपैः संस्कृत्य कङ्कतैः ॥ 390
बध्वाऽलंकृत्य रुचिरैर्
दामभिश् च सुगन्धिभिः ।

मूलम्

केशाधारं शुभं क्षौमम् आस्तीर्यांसद्वयोपरि ।
केशान् प्रकीर्याधिवास्य धूपैः संस्कृत्य कङ्कतैः ॥ 390
बध्वाऽलंकृत्य रुचिरैः दामभिश्च सुगन्धिभिः ।