०९ बहिर्-यागोपक्रमः

अनुज्ञा

विश्वास-प्रस्तुतिः

निवेद्य च बहिर्-यागम्
एवं भक्त्या समाहितः
निष्क्रम्य तस्माद्+हृदयाद्
आसीनः पुरतो हरेः॥ 315

मूलम्

निवेद्य च बहिर्यागमेवं भक्त्या समाहितः।
निष्क्रम्य तस्माद्धृदयादासीनः पुरतो हरेः॥ 315

विश्वास-प्रस्तुतिः

कृताञ्जलि-पुटस् तस्मै
निवेद्यात्म-चिकीर्षितम्
अनुज्ञातश् च तेनापि
देवीभ्यां सचिवैरपि ॥ 316

मूलम्

कृताञ्जलिपुटस्तस्मै निवेद्यात्मचिकीर्षितम् ।
अनुज्ञातश्च तेनापि देवीभ्यां सचिवैरपि ॥ 316

विश्वास-प्रस्तुतिः

ततश् चण्ड-प्रचण्डादीन्
सगणान् सर्व-दिक्ष्व् अपि ।
अभ्यर्च्य गन्ध-पुष्पाद्यैः
सादरं द्वार-पालकान् ॥ 317

मूलम्

ततश्चण्डप्रचण्डादीन् सगणान् सर्वदिक्ष्वपि ।
अभ्यर्च्य गन्धपुष्पाद्यैः सादरं द्वारपालकान् ॥ 317

भोग-दान-क्रमः

विश्वास-प्रस्तुतिः

आरभेत बहिर्-यागम्
एवं भोग-क्रमं स्मरेत्
प्रदर्शनं प्रदानं च
क्षामणं प्रीणनं
तथा॥ 318 +++(5)+++

मूलम्

आरभेत बहिर्यागमेवं भोगक्रमं स्मरेत्।
प्रदर्शनं प्रदानं च क्षामणं प्रीणनं तथा॥ 318

विश्वास-प्रस्तुतिः

आदौ मध्येऽवसाने च
प्रतिभोगं समाचरेत्
अवलोकय देवेदम्”
इत्य् आवेद्य स्वसंज्ञया॥ 319

मूलम्

आदौ मध्येऽवसाने च प्रतिभोगं समाचरेत्।
अवलोकय देवेदमित्यावेद्य स्वसंज्ञया॥ 319

विश्वास-प्रस्तुतिः

प्राप्तं प्राप्तं क्रमाद् भोगं
दर्शयेद् आसनादिकम्।
“प्रदर्शितम् इमं भोगं
गृह्णीष्व भगवन्न्” इति ॥ 320
ब्रुवन् प्रणम्य प्रयतः
प्रदद्यात् परमात्मने।

मूलम्

प्राप्तंप्राप्तं क्रमाद्भोगं दर्शयेदासनादिकम्।
प्रदर्शितमिमं भोगं गृह्णीष्व भगवन्निति ॥ 320
ब्रुवन् प्रणम्य प्रयतः प्रदद्यात् परमात्मने।

विश्वास-प्रस्तुतिः

अथापराधान् अखिलान्
दत्त-भोगानुबन्धिनः॥ 321
क्षमस्व देव-देवेति
क्षामयेत् प्रणमन् पुनः।

मूलम्

अथापराधानखिलान् दत्तभोगानुबन्धिनः॥ 321
क्षमस्व देवदेवेति क्षामयेत् प्रणमन् पुनः।

विश्वास-प्रस्तुतिः

देव-पादौ स्व-हस्ताभ्यां
गृहीत्वा शिरसा नमन् । 322
प्रीणयेद् दत्त-भोगेन
प्रीयतां भगवान्” इति ॥

मूलम्

देवपादौ स्वहस्ताभ्यां गृहीत्वा शिरसा नमन् ॥ 322
प्रीणयेद्दत्तभोगेन प्रीयतां भगवानिति।

विश्वास-प्रस्तुतिः

भोग-दान-विधाव् एवं
सावधानस् सदा स्मरेत्॥ 323

मूलम्

भोगदानविधावेवं सावधानस्सदा स्मरेत्॥ 323

अर्घ्यम्

विश्वास-प्रस्तुतिः

पूर्वं सङ्कल्पिताद् अर्घ्यात्
द्वितीयाच् चषकादिना।
आदाय साक्षतं तोयं
पाणिभ्यां नासिकासमम्॥ 324

मूलम्

पूर्वं सङ्कल्पितादर्घ्यात् द्वितीयाच्चषकादिना।
आदाय साक्षतं तोयं पाणिभ्यां नासिकासमम्॥ 324

विश्वास-प्रस्तुतिः

ऊर्ध्वम् उत्क्षिप्य स-भयः
तिष्ठन्न् अवनताननः
गृह्णीष्व भगवन् पूजां
मत्-प्रयुक्ताम्” इति ब्रुवन्॥ 325

मूलम्

ऊर्ध्वमुत्क्षिप्य सभयः तिष्ठन्नवनताननः।
गृह्णीष्व भगवन् पूजां मत्प्रयुक्तामिति ब्रुवन्॥ 325

विश्वास-प्रस्तुतिः

न्यसेद् दक्षिणतः किञ्चित्
जलं देवस्य मूर्धनि।
शेषं तच् चरणौ स्मृत्वा
क्षिपेद् अर्घ्य-प्रतिग्रहे॥ 326

मूलम्

न्यसेद्दक्षिणतः किञ्चित् जलं देवस्य मूर्धनि।
शेषं तच्चरणौ स्मृत्वा क्षिपेदर्घ्यप्रतिग्रहे॥ 326

विश्वास-प्रस्तुतिः

यौगपद्येन भोगानाम्
अर्घ्यम् अर्पणम् इष्यते।
तच् चागतस्य देवस्य
श्रमायासोपशान्तये॥ 327+++(5)+++

मूलम्

यौगपद्येन भोगानामर्घ्यमर्पण(मुच्य)मिष्यते।
तच्चागतस्य देवस्य श्रमायासोपशान्तये॥ 327

पादप्रक्षालनम्

विश्वास-प्रस्तुतिः

सर्व-रत्न-विचित्रञ् च
हैमं पाद्य-प्रतिग्रहम्।
दत्वा सपुष्पं करयोः
प्रसार्य युगलं स्वकम्॥ 328

मूलम्

सर्वरत्नविचित्रञ्च हैमं पाद्यप्रतिग्रहम्।
दत्वा सपुष्पं करयोः प्रसार्य युगलं स्वकम्॥ 328

विश्वास-प्रस्तुतिः

याचेत शिरसा देवं
स्पृशन् तच्-चरणाम्बुजम्।

मूलम्

याचेत शिरसा देवं स्पृशन् तच्चरणाम्बुजम्।

विश्वास-प्रस्तुतिः

अ-कृत्रिम-प्रेम-रस-
मधुरैः स्व-कराम्बुजैः॥ 329
शुद्धैः स्व-भाव–मधुरैः
सुख-स्पर्शैः सु-गन्धिभिः।
संवाह्यमानम् अ-निशं
शेष-शेषाशनादिभिः॥ 330

मूलम्

अकृत्रिमप्रेमरसमधुरैः स्वकराम्बुजैः॥ 329
शुद्धैः स्वभावमधुरैः सुखस्पर्शैः सुगन्धिभिः।
संवाह्यमानमनिशं शेषशेषाशनादिभिः॥ 330

विश्वास-प्रस्तुतिः

अ-सत्यस्यातिनीचस्य
भक्ति-हीनस्य दुर्-मतेः।
ममापि करयोर् अद्य
स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं
त्वाम् अस्मि शरणं गतः।+++(5)+++

मूलम्

असत्यस्यातिनीचस्य भक्तिहीनस्य दुर्मतेः।
ममापि करयोरद्य स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः।

विश्वास-प्रस्तुतिः

अभ्यर्थितेन तेनैव
दत्तं तद्-दक्षिणं पदम्॥ 332

मूलम्

निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः।
अभ्यर्थितेन तेनैव दत्तं तद्दक्षिणं पदम्॥ 332

विश्वास-प्रस्तुतिः

पूर्वसङ्कल्पितात् पाद्याद्
उद्धृतैर् जल-जादिना।
स्वयम् एव शुभैस् तोयैः
पाणिभ्याम् अवनेजयेत्॥ 333

मूलम्

पूर्वसङ्कल्पितात्पाद्याद् उद्धृतैर्जलजादिना।
स्वयमेव शुभैस्तोयैः पाणिभ्यामवनेजयेत्॥ 333

विश्वास-प्रस्तुतिः

ततः प्लोतेन सम्मृज्य
चन्दनेनोपलिप्य च।
दत्त-पुष्प-चयं पादं
नाग-भोगे निवेशयेत्॥ 334

मूलम्

ततः प्लोतेन सम्मृज्य चन्दनेनोपलिप्य च।
दत्तपुष्पचयं पादं नागभोगे निवेशयेत्॥ 334

विश्वास-प्रस्तुतिः

एवं सव्यं च चरणम्
अवनिज्यावमृज्य च।
अनुलिप्यार्चयित्वा
यथापूर्वं निवेशयेत्॥ 335

मूलम्

एवं सव्यं च चरणम् अवनिज्यावमृज्य च।
अनुलिप्यार्चयित्वा च यथापूर्वं निवेशयेत्॥ 335

आचमनम्

विश्वास-प्रस्तुतिः

ततः पुरस्ताद् देवस्य
हेम-रत्न-विचित्रितम्।
निधायाचमनोच्छिष्ट-
प्रतिग्रहम्
अनुत्तमम्॥ 336

मूलम्

ततः पुरस्तात् देवस्य हेमरत्नविचित्रितम्।
निधायाचमनोच्छिष्टप्रतिग्रहमनुत्तमम्॥ 336

विश्वास-प्रस्तुतिः

तत आचमनार्थं च
हस्ते देवस्य दक्षिणे।
पूर्व-सङ्कल्पितं तोयं
दद्याद् भक्त्या यथा पुरा॥ 337

मूलम्

तत आचमनार्थं च हस्ते देवस्य दक्षिणे।
पूर्वसङ्कल्पितं तोयं दद्याद्भक्त्या यथा पुरा॥ 337

मधु-पर्कोपचारः

विश्वास-प्रस्तुतिः

ततो दध्नि मधु न्यस्य
सर्पिर् वा मध्व्–अ-लाभतः।
मधु-पर्कं प्रकल्प्य त्रिः
“मधुपर्क” इति ब्रुवन्॥ 338

मूलम्

ततो दध्नि मधु न्यस्य सर्पिर्वा मध्वलाभतः।
मधुपर्कं प्रकल्प्य त्रिः मधुपर्क इति ब्रुवन्॥ 338

दानम्

विश्वास-प्रस्तुतिः

प्रदर्श्य पुरतस् तस्य
प्रदद्याद् दक्षिणे करे।
ततः प्रीतवति प्रीत्या
मधुपर्कं परात्मनि॥ 339

मूलम्

प्रदर्श्य पुरतस्तस्य प्रदद्याद्दक्षिणे करे।
ततः प्रीतवति प्रीत्या मधुपर्कं परात्मनि॥ 339

क्षालनम्, गोदानम्

विश्वास-प्रस्तुतिः

हस्तस्य क्षालनायाथ
प्रदद्याद् उष्ण-वार्य् अपि।
दत्वा चाचमनीयाम्भः
सुगन्धि शुचि निर्मलम्॥ 340

मूलम्

हस्तस्य क्षालनायाथ प्रदद्यादुष्णवार्यपि।
दत्वा चाचमनीयाम्भः सुगन्धि शुचि निर्मलम्॥ 340

विश्वास-प्रस्तुतिः

हस्तस्य मार्जनायाथ
प्लोतं धौतं सु-धूपितम्
सालङ्कारां च गां दद्यात्
सवत्सां तरुणीं शुभाम्॥ 341

मूलम्

हस्तस्य मार्जनायाथ प्लोतं धौतं सुधूपितम्।
सालङ्कारां च गां दद्यात्सवत्सां तरुणीं शुभाम्॥ 341

लेपः

विश्वास-प्रस्तुतिः

ततश् चन्दन-कर्पूर-
कुङ्कुमागरुभिः कृतम्।
क्षोदं+++(=चूर्णं)+++ हिम-जलैः सिक्तं
दर्शयित्वा निवेद्य च॥ 342

द्राविडम्

पिऱगु सन्दनम्, पच्चैक्कर्प्पूरम्, कुङ्गुमप्पू अगिल् इवट्रैत् तुगळाक्किप् पन्नीर् विट्टुप् पिसैन्दु समर्प् पित्तु अवन् तिरुमेनि मुऴुदुम् तन् कैयिनाल् तडव वेण्डुम्.

मूलम्

ततश्चन्दनकर्पूरकुकुमागरुभिः कृतम्।
क्षोदं हिमजलैः सिक्तं दर्शयित्वा निवेद्य च॥ 342

विश्वास-प्रस्तुतिः

तेन देव-वपुस् सर्वम्
अनुलिम्पेत् स्वपाणिना।
ततो लक्ष्मीं भुवं चापि
परिवारांश् च सर्वशः॥ 343
अङ्ग-रागैर् बहु-विधैर्
अनुलिम्पेत् सुगन्धिभिः।

मूलम्

तेन देववपुस्सर्वमनुलिम्पेत् स्वपाणिना।
ततो लक्ष्मीं भुवं चापि परिवारांश्च सर्वशः॥ 343
अङ्गरागैर्बहुविधैः अनुलिम्पेत् सुगन्धिभिः।

पुष्प-मालोपचारः

विश्वास-प्रस्तुतिः

ततः पुष्पाणि देवस्य
दत्वा पाणि-सरोजयोः॥ 344

मूलम्

ततः पुष्पाणि देवस्य दत्वा पाणिसरोजयोः॥ 344

विश्वास-प्रस्तुतिः

गन्धवन्त्य् अनवद्यानि
विविधानि बहूनि च।
स्वोत्पादितानि स्व-क्षेत्राद्
आनीतानि स्वपाणिना॥ 345

मूलम्

गन्धवन्त्यनवद्यानि विविधानि बहूनि च।
स्वोत्पादितानि स्वक्षेत्रादानीता(दुत्पन्ना)नि स्वपाणिना॥ 345

विश्वास-प्रस्तुतिः

तुलसी-पद्म-कल्हार-
चम्पकादीनि सादरम्।
दामभिर् विविधैश् चित्रैर्
घ्राण-नेत्र-मनोहरैः॥ 346

मूलम्

तुलसीपद्मकल्हारचम्पकादीनि सादरम्।
दामभिर्विविधैः चित्रैः घ्राणनेत्रमनोहरैः॥ 346

विश्वास-प्रस्तुतिः

शुद्धैः सु-गन्धैः सु-भगैः
सुख-स्पर्शैः सु-कल्पितैः।
अ-यात-यामैर् अ-म्लानैर्
अ-गतामोद-वैभवैः॥ 347

मूलम्

शुद्धैः सुगन्धैः सुभगैः सुखस्पर्शैः सुकल्पितैः।
अयातयामैः अम्लानैः अगतामोदवैभवैः॥ 347

विश्वास-प्रस्तुतिः

अ-निषिद्धैर् अविच्छिन्नैर्
अ-पर्युषित-पूतिभिः।
तुलसी-मल्लिका-जाति-
चम्पकादि-विनिर्मितैः॥ 348

मूलम्

अनिषिद्धैरविच्छिन्नैः अपर्युषितपूतिभिः।
तुलसीमल्लिकाजातिचम्पकादिविनिर्मितैः॥ 348

विश्वास-प्रस्तुतिः

मौलिम् आवेष्ट्य देवस्य
दत्वा चोत्तंसक-स्रजम्।
कण्ठ-माला बहु-विधा
दत्वा पाद-स्रजश् शुभाः॥ 349

मूलम्

मौलिमावेष्ट्य देवस्य दत्वा चोत्तंसकस्रजम्।
कण्ठमाला बहुविधा दत्वा पादस्रजश्शुभाः॥ 349

विश्वास-प्रस्तुतिः

मुक्त-पुष्प-चयं चापि
बहु-रूपं समन्ततः।
सम्प्रकीर्य स्व-हस्ताभ्यां
पादयोः पार्श्वतस् तथा॥ 350

मूलम्

मुक्तपुष्पचयं चापि बहुरूपं समन्ततः।
सम्प्रकीर्य स्वहस्ताभ्यां पादयोः पार्श्वतस्तथा॥ 350

विश्वास-प्रस्तुतिः

उपर्य् अपि च देवस्य
प्रकीर्य कुसुमोत्करम्।
देव्याश् च परिवाराणां
दत्वा पुष्पाणि देववत्॥ 351

विश्वास-टिप्पनी

अत्र देव्योश्च +इति द्विवचनम् प्रामादिकम्? यतः पूर्वं श्री-भू-नीलाः परिगणिताः। अतो बहुवचनं वा स्यात्, श्रीप्रामुख्याद् द्विवचनं वेति संशयः …

द्राविडम्

इरु तेविमार्गळुक्कुम् परिवारङ्गळुक्कुम्
पॆरुमानुक्कुप् पोल् पुष्पङ्गळै समर्प्पित्तु
ऎदिरिल् ऎम्बॆरुमानुक्कुक् कण्णाडि काण्बित्तु,
तॆण्ड प्रणाम मुम् पूमियिल् विऴुन्दु सॆय्वदाम्.

मूलम्

उपर्यपि च देवस्य प्रकीर्य कुसुमोत्करम्।
देव्योश्च परिवाराणां दत्वा पुष्पाणि देववत्॥ 351

विश्वास-प्रस्तुतिः

आदर्शं दर्शयित्वा ऽग्रे
प्रणमेद् दण्डवत् क्षितौ।

मूलम्

आदर्शं दर्शयित्वाऽग्रे प्रणमेद्दण्डवत्क्षितौ।

धूपः

विश्वास-प्रस्तुतिः

ततो गुग्गुलु-कर्पूर-
चन्दनागरुभिः कृतम्॥ 352

मूलम्

ततो गुग्गुलुकर्पूरचन्दनागरुभिः कृतम्॥ 352

विश्वास-प्रस्तुतिः

धूपं सौ(सु)गन्धम् आदाय
देवाय विनिवेदयेत्
देव्य्-आदि परिवारेभ्यो
दत्वा धूपं च पूर्ववत्॥ 353

मूलम्

धूपं सौ(सु)गन्धमादाय देवाय विनिवेदयेत्।
देव्यादि परिवारेभ्यो दत्वा धूपं च पूर्ववत्॥ 353

दीपः आदर्शश् च

विश्वास-प्रस्तुतिः

ततः कर्पूर-चूर्णाढ्य-
घृतार्द्र-नव-वर्ति-जात्।
ज्वलतो रुचिराद् दीपाद्
उत्थितात् चतुर्-अङ्गुलम्॥ 354

मूलम्

ततः कर्पूरचूर्णाढ्यघृतार्द्रनववर्तिजात्।
ज्वलतो रुचिराद्दीपाद् उत्थितात् चतुरङ्गुलम्॥ 354

विश्वास-प्रस्तुतिः

सु-गन्धि दृष्टि-सुखदम्
औष्ण्येन परिवर्जितम्।
आलोक-मात्राम् आदाय
स्वेन दक्षिण-पाणिना॥ 355
स-देवीकाय देवाय
स्व-मन्त्रेण निवेदयेत्

मूलम्

सुगन्धि दृष्टिसुखदम् औष्ण्येन परिवर्जितम्।
आलोकमात्रामादाय स्वेन दक्षिणपाणिना॥ 355
सदेवीकाय देवाय स्वमन्त्रेण निवेदयेत्।

घण्टा-विधिः

विश्वास-प्रस्तुतिः

घण्टानाद-सनाथौ द्वौ
धूप-दीपौ निवेदयेत् ॥ 356

मूलम्

घण्टानादसनाथौ द्वौ धूपदीपौ निवेदयेत् ॥ 356

विश्वास-प्रस्तुतिः

तन्-नाद-संयुताव् एतौ
दुष्ट-सत्त्व-निबर्हणौ।
भगवत्-प्रीति-जनकौ
शृण्वतां पापनाशकौ॥ 357

मूलम्

तन्नादसंयुतावेतौ दुष्टसत्त्वनिबर्हणौ।
भगवत्प्रीतिजनकौ शृण्वतां पापनाशकौ॥ 357

ताम्बूलोपचारः

विश्वास-प्रस्तुतिः

तत आचमनं दत्वा
पूर्व-सङ्कल्पितैर् जलैः।
शुभैः कर्पूरजैस् तैलैः
सिक्तं कुसुम-वासितम् ॥ 358

मूलम्

तत आचमनं दत्वा पूर्वसङ्कल्पितैर्जलैः।
शुभैः कर्पूरजैस्तैलैः सिक्तं कुसुमवासितम् ॥ 358

विश्वास-प्रस्तुतिः

प्रभूतं क्रमुकं+++(=पूगं)+++ दद्यात्
श्वेत+++(-चूर्ण)+++-ताम्बूल-सम्मितम् ।
देवाय देवी-युक्ताय
सानुयात्राय सादरम् ॥ 359

मूलम्

प्रभूतं क्रमुकं दद्यात् श्वेतताम्बूलसम्मितम् ।
देवाय देवीयुक्ताय सानुयात्राय सादरम् ॥ 359