विश्वास-प्रस्तुतिः
आसीने पुरुषे तस्मिन्
शेषादिषु च सर्वतः॥ 226
आसनेषु यथा-भागम्
आसीनेषु हरेर् दृशा ।
ततः कृताभ्यनुज्ञानो
हरिणा सूरिभिश् च तैः॥ 227
मूलम्
आसीने पुरुषे तस्मिन् शेषादिषु च सर्वतः॥ 226
आसनेषु यथाभागम् आसीनेषु हरेर्दृशा ।
ततः कृताभ्यनुज्ञानो हरिणा सूरिभिश्च तैः॥ 227
विश्वास-प्रस्तुतिः
हृद्यागं कर्तुम् उद्युक्तः
कुर्याद् एवम् अ-तन्द्रितः।
हृत्-पुण्डरीक-मध्ये तु
योगपीठं यथा बहिः॥228
मूलम्
हृद्यागं कर्तुमुद्युक्तः कुर्यादेवमतन्द्रितः।
हृत्पुण्डरीकमध्ये तु योगपीठं यथा बहिः॥228
विश्वास-प्रस्तुतिः
कुर्याद् आधार-शक्त्यादि-
नागराजान्तम् उज्ज्वलम्।
आसीनं तस्य पीठस्य
पार्श्वतः पृष्ठतः स्वयम्॥229
मूलम्
कुर्यादाधारशक्त्यादिनागराजान्तमुज्ज्वलम्।
आसीनं तस्य पीठस्य पार्श्वतः पृष्ठतः स्वयम्॥229
भगवद्रूपध्यानम्
विश्वास-प्रस्तुतिः
ध्यायेन् नारायणं देवं
तस्य पीठस्य चोपरि ।
भोगि-भोगासनासीनं
श्रिया भूम्या च संयुतम् ॥ 230
मूलम्
ध्यायेन्नारायणं देवं तस्य पीठस्य चोपरि ।
भोगिभोगासनासीनं श्रिया भूम्या च संयुतम् ॥ 230
विश्वास-प्रस्तुतिः
वामोरूपरि विन्यस्त-
दक्षिणाङ्घ्रि-सरो-रुहम् ।
प्रसार्याधाय वामाङ्घ्रिं
पाद-पीठाम्बुजान्तरे ॥ 231
+++(इति पाद-विन्यासः)+++
मूलम्
वामोरूपरि विन्यस्तदक्षिणाङ्घ्रिसरोरुहम् ।
प्रसार्याधाय वामाङ्घ्रिं पादपीठाम्बुजान्तरे ॥ 231
विश्वास-प्रस्तुतिः
प्रसार्य दक्षिणं बाहुं
न्यस्य दक्षिण-जानुनि ।
नाग-भोगोपरि-न्यस्त-
वाम-बाहु-व्यपाश्रयम् ॥ 232
+++(इति बाहु-द्वयम्)+++
मूलम्
प्रसार्य दक्षिणं बाहुं न्यस्य दक्षिणजानुनि ।
नागभोगोपरि न्यस्तवामबाहुव्यपाश्रयम् ॥ 232
विश्वास-प्रस्तुतिः
अ-परेणापि करयोर्
युगलेनोर्ध्व-वर्तिना ।
उन्नाल-कमलाभेन
धृत-शङ्ख-सुदर्शनम् ॥ 233
+++(इति बाहु-द्वयम्)+++
द्राविडम्
मेले नीट्टियदाल् तण्डोडु उयर तामरैगळ् पोण्ड्र
मट्र इरण्डु कैगळाल्
सङ्ग सक् ऎऴुवि कळैत् तरिप्पवनुम्,
नीट्टिय वलदु पुजत्तिन् ताम कैयिल् लीलैयाग तामरैप्पू वॊण्ड्रै तरिप्पवनुमाय्
(‘कमलाबेन’ ऎण्ड्र ओलैच्चुवडि पाडम् सुत्तम्.)
णङ्गळ् 96: || 235 ||
मूलम्
अपरेणापि करयोः युगलेनोर्ध्ववर्तिना ।
उन्नालकमलाभेन(भोग)धृतशङ्खसुदर्शनम् ॥ 233
विश्वास-प्रस्तुतिः
प्रसारित-कराम्भोज-
धृत-लीला-सरो-रुहम् ।
प्रणतावेक्षणायेषद्
अवनम्रम् इवाग्रतः॥ 234
मूलम्
प्रसारितकराम्भोजधृतलीलासरोरुहम् ।
प्रणतावेक्षणा(यैष ह्य)येषदवनम्रमिवाग्रतः॥ 234
विश्वास-प्रस्तुतिः
दिव्य-माल्याम्बर-धरं
दिव्य-गन्धानुलेपनम् ।
गाम्भीर्यौदार्य-चातुर्य-
माधुर्यादि-गुणान्वितम् ॥ 235
मूलम्
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
गाम्भीर्यौदार्यचातुर्यमाधुर्यादिगुणान्वितम् ॥ 235
विश्वास-प्रस्तुतिः
स्मेरारविन्द-वदनं
चार्व्-आयत-नत-भ्रुवम् ।
सु-कपोलं सु-विस्तीर्ण-
ललाट-तट-शोभितम् ॥ 236
मूलम्
स्मेरारविन्दवदनं चार्वायतनतभ्रुवम् ।
सुकपोलं सुविस्तीर्णललाटतटशोभितम् ॥ 236
विश्वास-प्रस्तुतिः
तुङ्ग-घोणान्त+++(=घ्राणान्त)+++-विलसत्-
सु-स्मिताधर-विद्रुमम् ।
विलम्बि-कर्ण-पाशान्त-
स्फुरन्-मकर-कुण्डलम् ॥ 237
मूलम्
तुङ्गघोणान्तविलसत्सुस्मिताधरविद्रुमम् ।
विलम्बिकर्णपाशान्तस्फुरन्मकरकुण्डलम् ॥ 237
विश्वास-प्रस्तुतिः
आपीनानिन्द्य-मधुर-
विलसत्-कम्बु-कन्धरम् ।
तुङ्ग-कान्तांस-पर्यन्त-
विलम्ब्य्-आनील-कुन्तलम् ॥ 238
मूलम्
आपीनानिन्द्यमधुरविलसत्कम्बुकन्धरम् ।
तुङ्गकान्तांसपर्यन्तविलम्ब्यानीलकुन्तलम् ॥ 238
विश्वास-प्रस्तुतिः
बाहुभिः परिघाकारैः+++(=लोह-लगुडाकारैः)+++
सर्व-भूषण-भूषितैः ।
शोभितं रत्नखचितैः
सागरैर् इव मन्दरम् ॥ 239
मूलम्
बाहुभिः परिघाकारैः सर्वभूषणभूषितैः ।
शोभितं रत्नखचितैः सागरैरिव मन्दरम् ॥ 239
विश्वास-प्रस्तुतिः
श्रीवत्स-कौस्तुभ-भृता
विपुलेन निजोरसा ।
बिभ्रतं वैजयन्तीं स्वां
स्रजं साक्षाद् इव श्रियम् ॥ 240
मूलम्
श्रीवत्सकौस्तुभभृता विपुलेन निजोरसा ।
बिभ्रतं वैजयन्तीं स्वां स्रजं साक्षादिव श्रियम् ॥ 240
विश्वास-प्रस्तुतिः
तनु-वृत्तं निमग्नाङ्ग-
नाभि-मुद्रोपशोभितम् ।
त्रिवली-वलितोद्भासि-
तनु-मध्योदर-श्रियम् ॥ 241
द्राविडम्
सिऱुत्तु मण्डलमाय् अमिऴ्न्द अङ्ग(अम्स)मुळ्ळ तिरुनाबियिन् अमैप्पाल् अऴगुट्रवनुम्, मूण्ड्रु रेगैगळै वलयमागप् पॆट्र सिऱिय इडैवयिऱु पॊलियप्पॆट्रवनुम्, (‘अम्स’ ऎण्ड्रविडत्तिल् ‘अङ्ग’ ऎण्ड्रे ओलैयिल् पाडम्.)
मूलम्
तनुवृत्तं निमग्नाङ्ग(स/श)नाभिमुद्रोपशोभितम् ।
त्रिवलीवलितोद्भासितनुमध्योदरश्रियम् ॥ 241
विश्वास-प्रस्तुतिः
व्यालम्बि-पीत-वसनं
चार्व्-अञ्चित-पदाम्बुजम् ।
किरीट-हार-केयूर-
कटकाद्यैः स्व-भूषणैः ॥ 242
मूलम्
व्यालम्बिपीतवसनं चार्वञ्चितपदाम्बुजम् ।
किरीटहारकेयूरकटकाद्यैः स्वभूषणैः ॥ 242
विश्वास-प्रस्तुतिः
भूषितं भूषणैश् चान्यैः
स्व-रत्नैर् इव सागरम् ।
शङ्ख-चक्र-गदा-खड्ग-
शार्ङ्गाद्य्-आयुध-सञ्चयैः ॥ 243
वृतं वह्निभिर् उद्भूतैर्
और्वैर् इव महार्णवम् ।
मूलम्
भूषितं भूषणैश्चान्यैः स्वरत्नैरिव सागरम् ।
शङ्खचक्रगदाखङ्गशार्ङ्गाद्यायुधसञ्चयैः ॥ 243
वृतं वह्निभिरुद्भूतैर् और्वैरिव महार्णवम् ।
देवी-ध्यानम्
श्रीदेवीध्यानम्
विश्वास-प्रस्तुतिः
एवम् एव स्वमन्त्रेण
ध्यायेद् दक्षिणतः श्रियम् ॥ 244
मूलम्
एवमेव स्वमन्त्रेण ध्यायेद्दक्षिणतः श्रियम् ॥ 244
विश्वास-प्रस्तुतिः
ईश्वरीं सर्वभूतानां
जननीं सर्व-देहिनाम्।
चारु-स्मितां चारु-दतीं
चारु-नेत्रां नत-भ्रुवम् ॥ 245
मूलम्
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम्।
चारुस्मितां चारुदतीं चारुनेत्रां नतभ्रुवम् ॥ 245
विश्वास-प्रस्तुतिः
सु-कपोलां सु-कर्णान्त-
न्यस्त-मौक्तिक-कुण्डलाम् ।
सु-केशीं चारु-बिम्बोष्ठीं
रक्त-तुङ्ग-नख-स्तनीम् ॥ 246
मूलम्
सुकपोलां सुकर्णान्तन्यस्तमौक्तिककुण्डलाम् ।
सुकेशीं चारुबिम्बोष्ठीं रक्ततुङ्गनखस्तनीम् ॥ 246
विश्वास-प्रस्तुतिः
अलकैर् अतिनीलाभैर्
अलङ्कृत-मुखाम्बु-जाम् ।
लसत्-कनक-शङ्खाभ-
पीन-सुन्दर-कन्धराम् ॥ 247
मूलम्
अलकैरतिनीलाभैः अलङ्कृतमुखाम्बुजाम् ।
लसत्कनकशङ्खाभपीनसुन्दरकन्धराम् ॥ 247
विश्वास-प्रस्तुतिः
निष्क-कण्ठीं स्तनालम्बि-
मुक्ता-हार-विराजिताम् ।
नील-कुन्तल-मध्य-स्थ-
माणिक्य-मकुटोज्ज्वलाम्॥ 248
मूलम्
निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् ।
नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम्॥ 248
विश्वास-प्रस्तुतिः
शुक्ल-माल्याम्बर-धरां
तप्त-हाटक-वर्णिनीम् ।
अनन्य-सुलभैस् तैस् तैर्
गुणैस् स्वाभाविकैर् निजैः॥ 249
मूलम्
शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् ।
अनन्यसुलभैस्तैस्तैः गुणैस्स्वाभाविकैर्निजैः॥ 249
विश्वास-प्रस्तुतिः
अनुरूपानवद्याङ्गीं
हरेर् नित्य-सहायिनीम् ।
एताम् एवम् अनुस्मृत्य
स्वमन्त्रेण प्रणम्य च॥ 250
मूलम्
अनुरूपानवद्याङ्गीं हरेर्नित्यसहायिनीम् ।
एतामेवमनुस्मृत्य स्वमन्त्रेण प्रणम्य च॥ 250
भू-नीले
विश्वास-प्रस्तुतिः
चिन्तयेत् सव्यतश् चापि
भुवं भगवतः प्रियाम्।
स्व-मन्त्रेण गुणैस् तैस् तैः
शुभैश् श्यामाम् इव श्रियम्॥ 251
मूलम्
चिन्तयेत्सव्यतश्चापि भुवं भगवतः प्रियाम्।
स्वमन्त्रेण गुणैस्तैस्तैः शुभैश्श्यामामिव श्रियम्॥ 251
विश्वास-प्रस्तुतिः
हरेर् इवास्या ध्येयानि
भूषणान्य् अम्बराणि च ।
स्थितां पुरस्तात् देवस्य
संस्मरेद् अपरां प्रियाम् ॥ 252
मूलम्
हरेरिवास्याः ध्येयानि भूषणान्यम्बराणि च ।
स्थितां पुरस्तात् देवस्य संस्मरेदपरां प्रियाम् ॥ 252
विश्वास-प्रस्तुतिः
स्व-मन्त्रेणानवद्याङ्गीं
नील-कुञ्चित-कुन्तलाम् ।
बालाम् अ-बालेन्दु-मुखीं
नीलेति प्रवदन्ति याम् ॥ 253
मूलम्
स्वमन्त्रेणानवद्याङ्गीं नीलकुञ्चितकुन्तलाम् ।
बालामबालेन्दुमुखीं नीलेति प्रवदन्ति याम् ॥ 253
पादसंवाहिनीध्यानम्
विश्वास-प्रस्तुतिः
पाद-संवाहिनीश् चान्याः
शुभाः श्रिय इवापराः।
अ-सङ्ख्या दिव्य-वपुषो
दिव्याभरण-भूषिताः॥254
मूलम्
पादसंवाहिनीश्चान्याः शुभाः श्रिय इवापराः।
असङ्ख्या दिव्यवपुषो दिव्याभरणभूषिताः॥254
विश्वास-प्रस्तुतिः
पुष्प-भाजन-ताम्बूल-
करण्ड-मुकुरादिभिः।
परिचारोपकरणैः
स्व-स्व-कर्मोचितैर् युताः॥255
मूलम्
पुष्पभाजनताम्बूलकरण्डमुकुरादिभिः।
परिचारोपकरणैः स्वस्वकर्मोचितैर्युताः॥255
दिव्य-भूषण-ध्यानम्
विश्वास-प्रस्तुतिः
ध्यात्वैवम् एताः स्वैर् मन्त्रैः
पुरस्तात् प्रमुखे हरेः ।
चतुर्-भुजं चतुर्-वक्त्रं
सुवेषं चारु-लोचनम् ॥ 256
मूलम्
ध्यात्वैवमेताः स्वैर्मन्त्रैः पुरस्तात् प्रमुखे हरेः ।
चतुर्भुजं चतुर्वक्त्रं सुवेषं चारुलोचनम् ॥ 256
विश्वास-प्रस्तुतिः
सर्वावयव-संपूर्णं
सर्वावयव-सुन्दरम् ।
हस्त-द्वयेन चोर्ध्वेन
मौलिना स्वेन चोच्चकैः ॥ 257
मूलम्
सर्वावयवसंपूर्णं सर्वावयवसुन्दरम् ।
हस्तद्वयेन चोर्ध्वेन मौलिना स्वेन चोच्चकैः ॥ 257
विश्वास-प्रस्तुतिः
दधतं देव-देवस्य
किरीटं सर्वतो-मुखम् ।
कर-द्वयेन चान्येन
कृताञ्जलि-पुटं हृदि ॥ 258
ध्यात्वा किरीटाधिपतिं
स-मन्त्रं दिव्य-विग्रहम् ।
मूलम्
दधतं देवदेवस्य किरीटं सर्वतोमुखम् ।
करद्वयेन चान्येन कृताञ्जलिपुटं हृदि ॥ 258
ध्यात्वा किरीटाधिपतिं समन्त्रं दिव्यविग्रहम् ।
विश्वास-प्रस्तुतिः
आपीडात्मानम् अप्य् एवं
चिन्तयेत् पुरतो हरेः॥ 259
बिभ्रतं स्वेन मन्त्रेण
देवापीडं स्वमौलिना ।
मूलम्
आपीडात्मानमप्येवं चिन्तयेत् पुरतो हरेः॥ 259
बिभ्रतं स्वेन मन्त्रेण देवापीडं स्वमौलिना ।
विश्वास-प्रस्तुतिः
पार्श्वयोर् उभयोर् ध्यायेत्
कुण्डले मकरात्मके ॥ 260
स्व-मन्त्रेण स्व-मौलि-स्थ-
देव-श्रवण-भूषणे ।
मूलम्
पार्श्वयोरुभयोर्ध्यायेत् कुण्डले मकरात्मके ॥ 260
स्वमन्त्रेण स्वमौलिस्थदेवश्रवणभूषणे ।
विश्वास-प्रस्तुतिः
पञ्च-वर्णाम् अपि पुरो
वन-मालां गदा-भृतः॥ 261
वैजयन्तीं मृदु-तनुं
श्रियं मूर्तिमतीम् इव ।
यां वदन्ति पुराण-ज्ञा
भूत-मालां मनीषिणः॥ 262
आधारभूतां भूतानां
तां स्व-मन्त्रेण संस्मरेत् ।
मूलम्
पञ्चवर्णामपि पुरो वनमालां गदाभृतः॥ 261
वैजयन्तीं मृदुतनुं श्रियं मूर्तिमतीमिव ।
यां वदन्ति पुराणज्ञा भूतमालां मनीषिणः॥ 262
आधारभूतां भूतानां तां स्वमन्त्रेण संस्मरेत् ।
विश्वास-प्रस्तुतिः
तुलसीम् अपि तत्-पार्श्वे
सर्व-सौगन्ध्य-निर्भराम्॥ 263
श्यामां कमल-पत्राक्षीं
गोविन्द-चरण-प्रियाम्।
प्रियां श्रियम् इवानन्यां
हरेर् नित्य-विभूषणाम्॥264
प्रणम्यात्मीयमन्त्रेण
ध्यायेत् प्रमुखतो हरेः।
मूलम्
तुलसीमपि तत्पार्श्वे सर्वसौगन्ध्यनिर्भराम्॥ 263
श्यामां कमलपत्राक्षीं गोविन्दचरणप्रियाम्।
प्रियां श्रियमिवानन्यां हरेर्नित्यविभूषणाम्॥264
प्रणम्यात्मीयमन्त्रेण ध्यायेत्प्रमुखतो हरेः।
विश्वास-प्रस्तुतिः
प्रधान-तत्त्वस्याधारं
स्वमन्त्रेणाति-सुन्दरम्॥265
श्रीवत्सं पुरतो विष्णोः
हेम-प्रभम् अनुस्मरेत्।
मूलम्
प्रधानतत्त्वस्याधारं स्वमन्त्रेणातिसुन्दरम्॥265
श्रीवत्सं पुरतो विष्णोः हेमप्रभमनुस्मरेत्।
विश्वास-प्रस्तुतिः
भास्वरं दिव्य-वपुषम्
आस्पदं चाखिलात्मनाम्॥266
कौस्तुभं पुरतो विष्णोर्
मन्त्रेण स्वेन संस्मरेत्।
हारं, चोदरबन्धं च
काञ्चीं, पीते च वाससी।267
मूलम्
भास्वरं दिव्यवपुषमास्पदं चाखिलात्मनाम्॥266
कौस्तुभं पुरतो विष्णोः मन्त्रेण स्वेन संस्मरेत्।
हारं चोदरबन्धं च काञ्चीं पीते च वाससी।267
विश्वास-प्रस्तुतिः
नूपुरादीनि चान्यानि
भूषणान्य् अखिलानि च।
तत्-तद्-अङ्ग-समुत्थानि
तेजांसीव परात्मनः॥268
मूलम्
नूपुरादीनि चान्यानि भूषणान्यखिलानि च।
तत्तदङ्गसमुत्थानि तेजांसीव परात्मनः॥268
विश्वास-प्रस्तुतिः
सुरूपाणि सुगन्धीनि
सुकुमाराकृतीनि च।
मनो-नयन-हारीणि
देवस्यापि निजैर् गुणैः॥269
मूलम्
सुरूपाणि सुगन्धीनि सुकुमाराकृतीनि च।
मनोनयनहारीणि देवस्यापि निजैर्गुणैः॥269
विश्वास-प्रस्तुतिः
स्वैर् एव धार्यमाणानि
रूपैर् बहु-विधैः शुभैः।
यथा-रूपं यथा-स्थानं
यथा-वर्णं यथा-क्रमम्॥270
प्रणम्य चिन्तयेद् भक्त्या
स्वमन्त्रैः परितो हरेः ।
मूलम्
स्वैरेव धार्यमाणानि रूपैर्बहुविधैः शुभैः।
यथारूपं यथास्थानं यथावर्णं यथाक्रमम्॥270
प्रणम्य चिन्तयेद्भक्त्या स्वमन्त्रैः परितो हरेः ।
आयुध-ध्यानम्
सुदर्शनध्यानम्
विश्वास-प्रस्तुतिः
देवस्य दक्षिणे पार्श्वे
हेति-राजं सुदर्शनम् ॥ 271
चल–स्व-रूपम् अत्य्-उग्रं
मनस्-तत्त्वाधिदैवतम् ।
द्वि-भुजं त्रि-दशारिघ्नं
ज्वलज्-ज्वलन-सन्निभम् ॥ 272
मूलम्
देवस्य दक्षिणे पार्श्वे हेतिराजं सुदर्शनम् ॥ 271
चलस्वरूपमत्युग्रं मनस्तत्त्वाधिदैवतम् ।
द्विभुजं त्रिदशारिघ्नं ज्वलज्ज्वलनसन्निभम् ॥ 272
विश्वास-प्रस्तुतिः
रक्तमाल्याम्बर-धरं
भीमं सुन्दर-विग्रहम् ।
दधतं भगवच्-चक्रं
नित्यं वै स्वेन मौलिना ॥ 273
ध्यात्वा स्व-कीयमन्त्रेण
शिरसा ऽभिप्रणम्य च ।
मूलम्
रक्तमाल्याम्बरधरं भीमं सुन्दरविग्रहम् ।
दधतं भगवच्चक्रं नित्यं वै स्वेन मौलिना ॥ 273
ध्यात्वा स्वकीयमन्त्रेण शिरसाभिप्रणम्य च ।
नन्दकध्यानम्
विश्वास-प्रस्तुतिः
असि-रत्नं च तत्रैव
नन्दकं नन्दकं हरेः॥ 274
महा-प्रमाणं विपुलं
ज्ञान-तत्त्वाधिदैवतम् ।
दिव्येन स्वेन वपुषा
सर्वावयव-शोभिना ॥ 275
मूलम्
असिरत्नं च तत्रैव नन्दकं नन्दकं हरेः॥ 274
महाप्रमाणं विपुलं ज्ञानतत्त्वाधिदैवतम् ।
दिव्येन स्वेन वपुषा सर्वावयवशोभिना ॥ 275
विश्वास-प्रस्तुतिः
बिभ्रतं मौलिना स्वङ्गं
मन्त्रेण स्वेन संस्मरेत् ।
मूलम्
बिभ्रतं मौलिना स्वङ्गं मन्त्रेण स्वेन संस्मरेत् ।
विश्वास-प्रस्तुतिः
अ-विद्याधारम् अप्य् अत्र
चिन्तयेद् वर्म पूर्ववत् ॥ 276
असि-रत्न-महा-कोशं
मन्त्रेणोद्भूत-विग्रहम् ।
शैत्य-सौरभ्य-सौन्दर्य-
मार्दवौज्ज्वल्य-संयुतम् ॥ 277
मूलम्
अविद्याधारमप्यत्र चिन्तयेद्वर्म पूर्ववत् ॥ 276
असिरत्नमहाकोशं मन्त्रेणोद्भूतविग्रहम् ।
शैत्यसौरभ्यसौन्दर्यमार्दवौज्ज्वल्यसंयुतम् ॥ 277
पाञ्च-जन्य-ध्यानम्
विश्वास-प्रस्तुतिः
लीला-पद्मं स्व-मन्त्रेण
ध्यायेत् पुरुष-विग्रहम् ।
मूलम्
लीलापद्मं स्वमन्त्रेण ध्यायेत् पुरुषविग्रहम् ।
विश्वास-प्रस्तुतिः
वामतः पाञ्चजन्यं च
शङ्ख-राजं मनो-हरम् ॥ 278
शरच्-छश-धराकारं
बृहत्-कुक्षि-समन्वितम् ।
ह्रस्व-देहं महा-राव-
खण्डिताशेष-दानवम् ॥ 279
मूलम्
वामतः पाञ्चजन्यं च शङ्खराजं मनोहरम् ॥ 278
शरच्छशधराकारं बृहत्कुक्षिसमन्वितम् ।
ह्रस्वदेहं महारावखण्डिताशेषदानवम् ॥ 279
विश्वास-प्रस्तुतिः
फुल्ल-पद्म-सदृक्षाक्ष-
पाणि-पादाननोज्ज्वलम् ।
दधतं शिरसा शङ्खम्
अहङ्-काराधिदैवतम् ॥ 280
चिन्तयित्वा स्व-मन्त्रेण
शिरसा ऽभिप्रणम्य च ।
मूलम्
फुल्लपद्मसदृक्षाक्षपाणिपादाननोज्ज्वलम् ।
दधतं शिरसा शङ्खमहङ्काराधिदैवतम् ॥ 280
कौमोदकीध्यानम्
विश्वास-प्रस्तुतिः
ततः कौमोदकीं चापि
दिव्य-रूप-समन्विताम् ॥ 281
दधतीं शिरसा स्वेन
गदां भगवतः प्रियाम् ।
आधार-भूतां मुनयो
बुद्धि-तत्त्वस्य यां विदुः ॥ 282
ध्यात्वा प्रणम्य मन्त्रेण
वामतो हेमभूषिताम् ।
मूलम्
ततः कौमोदकीं चापि दिव्यरूपसमन्विताम् ॥ 281
दधतीं शिरसा स्वेन गदां भगवतः प्रियाम् ।
आधारभूतां मुनयो बुद्धितत्त्वस्य यां विदुः ॥ 282
ध्यात्वा प्रणम्य मन्त्रेण वामतो हेमभूषिताम् ।
शार्ङ्गध्यानम्
विश्वास-प्रस्तुतिः
ध्यायेत् ततः स्वमन्त्रेण
शार्ङ्गम् आयत-विग्रहम् ॥ 283
अहङ्कारस्येन्द्रियादेर्
अधिदैवतम् आश्रयम् ।
शरैस् सर्वेन्द्रियाधारैः
सर्वैः पुरुष-विग्रहैः ॥ 284
मूलम्
ध्यायेत्ततः स्वमन्त्रेण शार्ङ्गमायतविग्रहम् ॥ 283
अहङ्कारस्येन्द्रियादेरधिदैवतमाश्रयम् ।
शरैस्सर्वेन्द्रियाधारैः सर्वैः पुरुषविग्रहैः ॥ 284
विश्वास-प्रस्तुतिः
दधद्भिर् मौलिभिः स्वैः स्वैः
स्वं स्वं रूपं विभूति-जम् ।
सु-वृत्तं संवृतं मौर्व्या
सख्येव प्रियया स्वया ॥ 285
मूलम्
दधद्भिर्मौलिभिः स्वैःस्वैः स्वंस्वं रूपं विभूतिजम् ।
सुवृत्तं संवृतं मौर्व्या सख्येव प्रियया स्वया ॥ 285
विश्वास-प्रस्तुतिः
स्वाकृतिभ्यां च तूणीभ्यां
प्रियाभ्यामिव संयुतम् ।
त्रि-नतं पुरुषाकारं
दधत् स्वशिरसा धनुः ॥ 286
हैम-पट्टैर् बहु-विधैः
सुरत्नैः सर्वतो वृतम् ।
मूलम्
स्वाकृतिभ्यां च तूणीभ्यां प्रियाभ्यामिव संयुतम् ।
त्रिनतं पुरुषाकारं दधत् स्वशिरसा धनुः ॥ 286
हैमपट्टैर्बहुविधैः सुरत्नैः सर्वतो वृतम् ।
इतरायुधानां ध्यानम्
विश्वास-प्रस्तुतिः
अन्यान्य् अ-सङ्ख्यान्य् अच्छेद्यान्य्
अ-मोघानि महान्त्य् अपि ॥ 287
दिव्य-पूरूष-रूपाणि
परितः सर्वतो हरेः।
स्व-शिरो-विधृतानन्त-
स्व-विभूति-वपूंष्य् अपि ॥ 288
मूलम्
अन्यान्यसङ्ख्या(न्योन्यसख्या)न्यच्छेद्यान्यमोघानि महान्त्यपि ॥ 287
दिव्यपूरूषरूपाणि परितः सर्वतो हरेः।
स्वशिरोविधृतानन्तस्वविभूतिवपूंष्यपि ॥ 288
विश्वास-प्रस्तुतिः
स्व–स्व-रूपावसक्तानि
स्वाङ्ग-प्रत्यङ्गवद् विभोः ।
एतान्य् आयुध-जालानि
स्व–स्व-मन्त्रैर् यथोदितम्॥ 289
मूलम्
स्वस्वरूपावस(नुष)क्तानि स्वाङ्गप्रत्यङ्गवद्विभोः ।
एतान्यायुधजालानि स्वस्वमन्त्रैर्यथोदितम्॥ 289
मुख्य-गण-ध्यानम्
सेनापतिध्यानम्
विश्वास-प्रस्तुतिः
अविदूऽरेऽथ देवस्य
प्रागुदीच्यां वरासने।
आसीनं नील-मेघाभं
शङ्ख-चक्र-गदा-धरम्॥290
मूलम्
अविदूऽरेऽथ देवस्य प्रागुदीच्यां वरासने।
आसीनं नीलमेघाभं शङ्खचक्रगदाधरम्॥290
विश्वास-प्रस्तुतिः
पीत-कौशेय-वसनं
चारु-पद्म-दलेक्षणम्।
ऊर्ध्वं लक्षित-तर्जन्या
साज्ञया स-सुरासुरान्।291
मूलम्
पीतकौशेयवसनं चारुपद्मदलेक्षणम्।
ऊर्ध्वं लक्षिततर्जन्या साज्ञया ससुरासुरान्।291
विश्वास-प्रस्तुतिः
शासतं सकलान् लोकान्
ध्यायेत् सेनापतिं हरेः।
मूलम्
शासतं सकलान् लोकान् ध्यायेत् सेनापतिं हरेः।
विश्वास-प्रस्तुतिः
तत्-पार्श्वे तत्-प्रियां देवीं
ध्यायेत् सूत्रवतीम् अपि॥292
काल-प्रकृति-पूर्वांश् च
चतुरस् तच्-चमू-पतीन्।
गजानन–जयत्-सेन–
हरि-वक्त्रान् अनुक्रमात्॥293
मूलम्
तत्पार्श्वे तत्प्रियां देवीं ध्यायेत्सूत्रवतीमपि॥292
कालप्रकृतिपूर्वांश्च चतुरस्तच्चमूपतीन्।
गजाननजयत्सेनहरिवक्त्राननुक्रमात्॥293
नागराजध्यानम्
विश्वास-प्रस्तुतिः
प्रणम्य भक्त्या मन्त्रैः स्वैः
ततः पश्चिमतो हरेः ।
नागराजम् अनन्तं च
हल-मुद्गर-धारिणम् ॥294
मूलम्
प्रणम्य भक्त्या मन्त्रैः स्वैः ततः पश्चिमतो हरेः ।
नागराजमनन्तं च हलमुद्गरधारिणम् ॥294
विश्वास-प्रस्तुतिः
चतुर्-भुजं सरो-जाक्षं
शशि-कोटि-सम-प्रभम् ।
फणा-सहस्र-मौल्याढ्यं
नील-वास-समुज्ज्वलम् ॥ 295
मूलम्
चतुर्भुजं सरोजाक्षं शशिकोटिसमप्रभम् ।
फणासहस्रमौल्याढ्यं नीलवाससमुज्ज्वलम् ॥ 295
विश्वास-प्रस्तुतिः
हरि-संस्पर्श-जानन्द-
मन्दोद्भ्रान्त-विलोचनम् ।
उपोपविष्टं वारुण्या
कान्त्या चैवानवद्यया ॥ 296
मूलम्
हरिसंस्पर्शजानन्दमन्दोद्भ्रान्तविलोचनम् ।
उपोपविष्टं वारुण्या कान्त्या चैवानवद्यया ॥ 296
विश्वास-प्रस्तुतिः
वृतं स्वानुचरैर् नित्यैः
अन्यैश् च भुजगेश्वरैः ।
वर-काञ्चन-पीठ-स्थं
ध्यायेत् तन्-मन्त्र-पूर्वकम्॥ 297
मूलम्
वृतं स्वानुचरैर्नित्यैः अन्यैश्च भुजगेश्वरैः ।
वरकाञ्चनपीठस्थं ध्यायेत्तन्मन्त्रपूर्वकम्॥ 297
वैनतेयध्यानम्
विश्वास-प्रस्तुतिः
पुरतश् च सुखासीनं
वैनतेयं वरासने।
सु-कीर्त्या रुद्रया चैव
सार्धं हृदि कृताञ्जलिम्॥298
मूलम्
पुरतश्च सुखासीनं वैनतेयं वरासने।
सुकीर्त्या रुद्रया चैव सार्धं हृदि कृताञ्जलिम्॥298
विश्वास-प्रस्तुतिः
शित-श्यामल-तुण्डाग्रं
वृत्त-भीम-विलोचनम्।
देवालोकन-हर्षोत्थ-
स्मित-भिन्नोष्ठ-सम्पुटम्॥299
मूलम्
शितश्यामलतुण्डाग्रं वृत्तभीमविलोचनम्।
देवालोकनहर्षोत्थस्मितभिन्नोष्ठसम्पुटम्॥299
विश्वास-प्रस्तुतिः
लसत्-कर्णान्त-विन्यस्त-
नाग-कुण्डल-मण्डनम्।
परिनिक्षिप्त–सु-मुख+++(-नाम-सर्प-)+++-
कृत-कर्णावलम्बकम्॥300
हिन्दी
सॆविगळिन् मुनैगळिल् वैक्कप्पट्ट मण्डलागारमान
नागङ्गळैक् कुण्डलमागक् कॊण्डु,
सुट्रि विळङ्गुम्
सुमुगनॆण्ड्र सर्प्पत्तैच् चॆवियिल् तॊङ्गुम्बडिय् उडैयवरै,
मूलम्
लसत्कर्णान्तविन्यस्तनागकुण्डलमण्डनम्।
प(ह)रिनिक्षिप्तसुमुखकृतकर्णावलम्बकम्॥300
विश्वास-प्रस्तुतिः
पक्षाभ्यां पञ्च-वर्णाभ्यां
युतं हैमम् इवाचलम्।
अन्यैश् चानुचरैस् सार्धं
ध्यायेत् पत्त्र-रथेश्वरम्॥301
तन्-मन्त्रेण प्रणम्याथ
प्रियं मित्रं परात्मनः ।
मूलम्
पक्षाभ्यां पञ्चवर्णाभ्यां युतं हैममिवाचलम्।
अन्यैश्चानुचरैस्सार्धं ध्यायेत् पत्ररथेश्वरम्॥301
तन्मन्त्रेण प्रणम्याथ प्रियं मित्रं परात्मनः ।
पादुका-ध्यानम्
विश्वास-प्रस्तुतिः
देवस्य पुरतः पार्श्वे
पादुके हेमभूषिते ॥302
दिव्य-पूरुष-रूपेण
ध्यात्वा तन्-मन्त्र-पूर्वकम् ।
अ-शरण्याखिल-जगच्-
छरण्ये शरणं व्रजेत्॥ 303
मूलम्
देवस्य पुरतः पार्श्वे पादुके हेमभूषिते ॥
दिव्यपूरुषरूपेण ध्यात्वा तन्मन्त्रपूर्वकम् ।
अशरण्याखिलजगच्छरण्ये शरणं व्रजेत्॥ 303
बाह्य-गण-ध्यानम्
द्वार-पाल-ध्यानम्
विश्वास-प्रस्तुतिः
ततश् चण्ड-प्रचण्डौ द्वौ
पूर्व-द्वारस्य पार्श्वतः।
शङ्ख-चक्र-गदा-हस्तौ
संज्ञा-मुद्रौ महाबलौ॥ 304
मूलम्
ततश्चण्डप्रचण्डौ द्वौ पूर्वद्वारस्य पार्श्वतः।
शङ्खचक्रगदाहस्तौ संज्ञामुद्रौ महाबलौ॥ 304
विश्वास-प्रस्तुतिः
भूषितौ भूषणैः सर्वैः
किरीटाद्यैर् महा-धनैः।
दक्षिण-द्वार-पार्श्व-स्थौ
तथा भद्र–सु-भद्रकौ॥ 305
मूलम्
भूषितौ भूषणैः सर्वैः किरीटाद्यैर्महाधनैः।
दक्षिणद्वारपार्श्वस्थौ तथा भद्रसुभद्रकौ॥ 305
विश्वास-प्रस्तुतिः
जयञ् च विजयञ् चैव
पश्चिम-द्वार-पार्श्वयोः।
धातारं च विधातारम्
उत्तर-द्वार-पार्श्वयोः ॥ 306
मूलम्
जयञ्च विजयञ्चैव पश्चिमद्वारपार्श्वयोः।
धातारं च विधातारमुत्तरद्वारपार्श्वयोः ॥ 306
विश्वास-प्रस्तुतिः
तेषाम् अधिपतींश् चैव
तत्-पतींस् तत्-पतीन् अपि ।
तत्-तन्-मन्त्रैस् संप्रणम्य
सम्पूज्याभिप्रसाद्य च॥ 307
मूलम्
तेषामधिपतींश्चैव तत्पतींस्तत्पतीनपि ।
तत्तन्मन्त्रैस्संप्रणम्य सम्पूज्याभिप्रसाद्य च॥ 307
बहिर्-गणाधीश-ध्यानम्
विश्वास-प्रस्तुतिः
ततो बहिर्गणाधीशान्
अष्टाव् अष्टसु दिक्ष्व् अपि।
कुमुदं कुमुदाक्षं च
पुण्डरीकं च वामनम्॥ 308
मूलम्
ततो बहिर्गणाधीशान् अष्टावष्टसु दिक्ष्वपि।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम्॥ 308
विश्वास-प्रस्तुतिः
शङ्कुकर्णं सर्व-नेत्रं
सु-मुखं सु-प्रतिष्ठितम्।
स-वाहन-परीवारान्
सायुधान् स-परिच्छदान्॥ 309
मूलम्
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम्।
सवाहनपरीवारान् सायुधान् सपरिच्छदान्॥ 309
विश्वास-प्रस्तुतिः
सर्वांश् चतुर्-भुजान् एतान्
शङ्ख-चक्र-गदा-धरान्।
भूषितान् भूषणैर् दिव्यैर्
ध्यायेन् मन्त्रैः पृथक् पृथक्॥ 310
मूलम्
सर्वांश्चतुर्भुजानेतान् शङ्खचक्रगदाधरान्।
भूषितान् भूषणैर्दिव्यैः ध्यायेन्मन्त्रैः पृथक् पृथक्॥ 310
विश्वास-प्रस्तुतिः
नित्य-ज्ञान-क्रियैश्वर्यान्
परं साम्यम् उपागतान्।
सर्वान् पारिषदान् ध्यायेन्
मन्त्रैः स्वैः परितो हरेः॥ 311
मूलम्
नित्यज्ञानक्रियैश्वर्यान् परं साम्यमुपागतान्।
सर्वान्पारिषदान् ध्यायेत् मन्त्रैः स्वैः परितो हरेः॥ 311
पूजा
विश्वास-प्रस्तुतिः
एवं ध्यात्वा (ऽथ)च तं देवं
मानसैर् अतिमानुषैः।
सांस्पर्शिकैश् च गन्धाद्यैश्
छत्राद्यैर् औपचारिकैः॥ 312
मूलम्
एवं ध्यात्वा (ऽथ)च तं देवं मानसैरतिमानुषैः।
सांस्पर्शिकैश्च गन्धाद्यैः छत्राद्यैरौपचारिकैः॥ 312
विश्वास-प्रस्तुतिः
शुद्धैर् हविर्-अपूपाद्यैः
शुभैर् आभ्यवहारिकैः।
उपचारैश् चतुः-षष्टि-
सङ्ख्यैर् आवाहनादिभिः॥ 313
मूलम्
शुद्धैर्हविरपूपाद्यैः शुभैराभ्यवहारिकैः।
उपचारैश्चतुःषष्टिसङ्ख्यैरावाहनादिभिः॥ 313
विश्वास-प्रस्तुतिः
अभ्यर्च्य देवं हृदये
द्रव्यैर् भावमयैः शुभैः।
पत्नी-परिजनोपेतं
प्रणम्याभिप्रसाद्य च ॥ 314
मूलम्
अभ्यर्च्य देवं हृदये द्रव्यैर्भावमयैः शुभैः।
पत्नीपरिजनोपेतं प्रणम्याभिप्रसाद्य च ॥ 314