आवाहनम्
विश्वास-प्रस्तुतिः
यागभूमिं संप्रकीर्य
साक्षतैः कुसुमोत्करैः ।
ततो गुग्गुलु-कर्पूर-
चन्दनागुरु-जन्मभिः॥ 212
मूलम्
यागभूमिं संप्रकीर्य साक्षतैः कुसुमोत्करैः ।
ततो गुग्गुलुकर्पूरचन्दनागुरुजन्मभिः॥ 212
विश्वास-प्रस्तुतिः
अधिवास्य शुभैर् धूपैर्
भूयो भूयश् च सर्वतः ।
ततो ऽभिमुखयन् देवम्
अवतीर्णं स्वके गृहे ॥ 213
मूलम्
अधिवास्य शुभैर्धूपैः भूयो भूयश्च सर्वतः ।
ततोऽभिमुखयन्देवम् अवतीर्णं स्वके गृहे ॥ 213
विश्वास-प्रस्तुतिः
सहिष्णुम् अपराधानाम्
अनन्तासह्य-रूपिणाम् ।
व्योम्नश् च तस्माद् वैकुण्ठाद्
अवतीर्यात्मनोऽग्रतः॥ 214
मूलम्
सहिष्णुमपराधानाम् अनन्तासह्यरूपिणाम् ।
व्योम्नश्च तस्माद्वैकुण्ठाद् अवतीर्यात्मनोऽग्रतः॥ 214
विश्वास-प्रस्तुतिः
आसीनम् आदिपुरुषं
श्रिया भूम्या च संयुतम् ।
शेष-शेषाशनाद्यैश् च
सूरिभिः सचिवैर् अपि ॥ 215
मूलम्
आसीनमादिपुरुषं श्रिया भूम्या च संयुतम् ।
शेषशेषाशनाद्यैश्च सूरिभिः सचिवैरपि ॥ 215
विश्वास-प्रस्तुतिः
स्वयैव कृपया सम्यक्
स्वदृष्टिपथम् आगतम् ।
प्रणम्य दण्डवद् भूम्यां
साष्टाङ्गं हृष्ट-मानसः॥ 216 +++(5)+++
मूलम्
स्वयैव कृपया सम्यक् स्वदृष्टिपथमागतम् ।
प्रणम्य दण्डवद्भूम्यां साष्टाङ्गं हृष्टमानसः॥ 216
विश्वास-प्रस्तुतिः
मूर्ध्न्य् आधायाञ्जलिं
तिष्ठन् स-स्नेहादर-साध्वसम् ।
आवाहनम् इति प्रोक्तं
याचेद् आत्मावलोकनम् ॥ 217
निवेदयेच् च भूयोऽपि
प्रणम्यात्म-मनो-रथम् ।
मूलम्
मूर्ध्न्याधायाञ्जलिं तिष्ठन् सस्नेहादरसाध्वसम् ।
आवाहनमिति प्रोक्तं याचेदात्मावलोकनम् ॥ 217
निवेदयेच्च भूयोऽपि प्रणम्यात्ममनोरथम् ।
भगवत्प्रार्थना
विश्वास-प्रस्तुतिः
इज्या-कालस् तृतीयोऽयम्
अह्नो ऽंशस् समुपागतः ॥ 218
मूलम्
इज्याकालस्तृतीयोऽयम् अह्नोंशस्समुपागतः ॥ 218
विश्वास-प्रस्तुतिः
संभृताश् चैव संभाराः
कल्पितान्य् आसनानि च ।
स्नानाद्य् अर्थानि देवेश
तवेच्छा वर्तते यदि ॥ 219
मूलम्
संभृताश्चैव संभाराः कल्पितान्यासनानि च ।
स्नानाद्यर्थानि देवेश तवेच्छा वर्तते यदि ॥ 219
विश्वास-प्रस्तुतिः
अवलोकन-दानेन
तत् सर्वं सफलं कुरु ।
तदर्थं सह देवीभ्यां
सानुगैः सचिवैः सह ॥ 220
मद्-अनुग्रहाय कृपया
ह्य् अत्रागन्तुं त्वम् अर्हसि ।
मूलम्
अवलोकनदानेन तत्सर्वं सफलं कुरु ।
तदर्थं सह देवीभ्यां सानुगैः सचिवैः सह ॥ 220
मदनुग्रहाय कृपया ह्यत्रागन्तुं त्वमर्हसि (त्वत्र चागन्तुम् अर्हसि) ।
विश्वास-प्रस्तुतिः
यावद् आद्यासनं मन्त्रा-
सनान्तं पूज्यसे मया।
तावत् सान्निध्यम् अत्रैव
कुरुष्व पुरुषोत्तम॥
मूलम्
(यावद् आद्यासनं मन्त्रा-
सनान्तं पूज्यसे मया।
तावत् सान्निध्यम् अत्रैव
कुरुष्व पुरुषोत्तम॥)
विश्वास-प्रस्तुतिः
इति विज्ञापितायाथ
ददते चावलोकनम् ॥ 221
मूलम्
इति विज्ञापितायाथ ददते चावलोकनम् ॥ 221
प्रथम-मन्त्रासनम्
विश्वास-प्रस्तुतिः
पादुकाग्र्ये प्रदायाग्रे
प्रणम्य च पुनः पुनः ।
हरि-वाहनम् आत्मानं
मन्यमानः ख-गाधिपम् ॥ 222
मूलम्
पादुकाग्र्ये प्रदायाग्रे प्रणम्य च पुनः पुनः ।
हरिवाहनमात्मानं मन्यमानः खगाधिपम् ॥ 222
विश्वास-प्रस्तुतिः
मूर्ध्न्य् आधाय च तं देवं
प्रथमासनम् आनयेत् ।
आगताय निवेद्याथ
पूर्व-कल्पितम् आसनम् ॥ 223
मूलम्
मूर्ध्न्याधाय च तं देवं प्रथमासनमानयेत् ।
आगताय निवेद्याथ पूर्वकल्पितमासनम् ॥ 223
विश्वास-प्रस्तुतिः
अध्यास्वैनम् इहास्वेति
याचित्वा ऽभिप्रणम्य च ।
आसीनाय सुसंहृष्टः
स-पत्नीकाय वेधसे ॥ 224
मूलम्
अध्यास्वैनमिहास्वेति याचित्वाऽभिप्रणम्य च ।
आसीनाय सुसंहृष्टः सपत्नीकाय वेधसे ॥ 224
विश्वास-प्रस्तुतिः
स्वागतं विनिवेद्याथ
सान्निध्यं प्रार्थ्य सादरम् ।
मूलम्
स्वागतं विनिवेद्याथ सान्निध्यं प्रार्थ्य सादरम् ।
आत्म-निवेदनम्
विश्वास-प्रस्तुतिः
ततस् स-पुत्र-भार्याकं
सान्वयं स-परिग्रहम् ॥ 225
सादरं विष्णवे तस्मै
स्वम् आत्मानं निवेदयेत् ।
मूलम्
ततस्सपुत्रभार्याकं सान्वयं सपरिग्रहम् ॥ 225
सादरं विष्णवे तस्मै स्वमात्मानं निवेदयेत् ।