०६ गुरु-प्रार्थनम्

विश्वास-प्रस्तुतिः

पश्चिमोत्तर-दिग्-भागे
योग-पीठ-समीपतः।
आसीनान् मनसा ध्यात्वा
स्व-गुरून् तद्-गुरून् अपि॥208

मूलम्

पश्चिमोत्तरदिग्भागे योगपीठसमीपतः।
आसीनान् मनसा ध्यात्वा स्वगुरून् तद्गुरूनपि॥208

विश्वास-प्रस्तुतिः

उपसृत्योपसद्यैतान्
अभिवाद्य प्रसाद्य
च।
यथा-यथं स्व-मन्त्राभ्यां
प्रणम्याभ्यर्च्य सादरम्॥209
तेभ्यो विज्ञापयेद् एवं
प्रयतः स्वचिकीर्षितम् ।

मूलम्

उपसृत्योपसद्यैतान् अभिवाद्य प्रसाद्य च।
यथायथं स्वमन्त्राभ्यां प्रणम्याभ्यर्च्य सादरम्॥209
तेभ्यो विज्ञापयेदेवं प्रयतः स्वचिकीर्षितम् ।

विश्वास-प्रस्तुतिः

गुरवस् तदीय-गुरवो दि-
शन्तु मम साध्व् अनुग्रहम् ॥ 210
युष्मद्-उपजनित-शक्ति-मतिर्
हरिम् अर्चयामि गत-भीः प्रसीदत ।

शङ्कर-टिप्पनी - छन्दः

“अहम्” इति निष्कास्य द्वितीयार्धम् उद्गतेति भाति।
प्रथमार्धे द्वितीयपादे L L L has been modified to G L ।

मूलम्

गुरवस्तदीयगुरवो दिशन्तु मम साध्वनुग्रहम् ॥ 210
युष्मदुपजनितशक्तिमतिरहं हरिमर्चयामि गतभीः प्रसीदत ।

विश्वास-प्रस्तुतिः

इति विज्ञाप्य तैश् चाथ
दत्तानुज्ञो गतव्यथः ॥ 211

मूलम्

युष्मदुपजनितशक्तिमतिरहं हरिमर्चयामि गतभीः प्रसीदत ।
इति विज्ञाप्य तैश्चाथ दत्तानुज्ञो गतव्यथः ॥ 211