०५ आधार-शक्त्य्-आदि-परिकल्पनम्

देव-लोकान्तम्

विश्वास-प्रस्तुतिः

आसनं कल्पयेद् एवम्
आधारादि यथाक्रमम् ।
आधारशक्तिं प्रकृतिं
कूर्मं शेषं धराधरम् ॥ 181

मूलम्

आसनं कल्पयेदेवम् आधारादि यथाक्रमम् ।
आधारशक्तिं प्रकृतिं कूर्मं शेषं धराधरम् ॥ 181

विश्वास-प्रस्तुतिः

पृथिवीं चोपर्य् उपरि
न्यस्य मन्त्रैः प्रणम्य च ।
तत्र क्षीरार्णवं श्वेत-
द्वीपं श्रीरङ्गम् एव च ॥ 182

मूलम्

पृथिवीं चोपर्युपरि न्यस्य मन्त्रैः प्रणम्य च ।
तत्र क्षीरार्णवं श्वेतद्वीपं श्रीरङ्गमेव च ॥ 182

विश्वास-प्रस्तुतिः

परम-व्योम वैकुण्ठं
वैष्णवं धाम शाश्वतम् ।
एतेष्व् अन्यतमं देशं
ध्यात्वा देवगृहं स्वकम् ॥ 183

मूलम्

परमव्योम वैकुण्ठं वैष्णवं धाम शाश्वतम् ।
एतेष्वन्यतमं देशं ध्यात्वा देवगृहं स्वकम् ॥ 183

विश्वास-प्रस्तुतिः

तेन तेन च मन्त्रेण
स्मृत्वा ऽभ्यर्च्य प्रणम्य च ।
तत्रानन्तात्मकं दिव्यम्
आस्तीर्यास्तरणं शुभम् ॥ 184

मूलम्

तेन तेन च मन्त्रेण स्मृत्वाऽभ्यर्च्य प्रणम्य च ।
तत्रानन्तात्मकं दिव्यम् आस्तीर्यास्तरणं शुभम् ॥ 184

पीठम्

विश्वास-प्रस्तुतिः

तत्र वह्न्यादिकोणेषु
योगपीठस्य पादकान्
धर्मं ज्ञानं च वैराग्यम्
ऐश्वर्यं च यथाक्रमम्॥ 185

मूलम्

तत्र वह्न्यादिकोणेषु योगपीठस्य पादकान् ।
धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च यथाक्रमम्॥ 185

विश्वास-प्रस्तुतिः

विन्यस्य मन्त्रैस् तद्-अनु
दिक्षु पूर्वादिषु क्रमात्।
ऋगादीन् चतुरो वेदान्
हय-वक्त्रान् स्व-मौलिभिः।186

मूलम्

विन्यस्य मन्त्रैः तदनु दिक्षु पूर्वादिषु क्रमात्।
ऋगादीन् चतुरो वेदान् हयवक्त्रान् स्वमौलिभिः।186

विश्वास-प्रस्तुतिः

दधतो योगपीठं तम्
उत्क्षिप्तैः स्वभुजैर् अपि।
कृतादींश् च युगांस् तद्वत्
वृष-वक्त्रान् अवस्थितान्॥187

मूलम्

दधतो योगपीठं तम् उत्क्षिप्तैः स्वभुजैरपि।
कृतादींश्च युगांस्तद्वत् वृषवक्त्रानवस्थितान्॥187

विश्वास-प्रस्तुतिः

ततो गात्राणि पीठस्य
प्रागादिषु निवेशयेत्
अधर्माज्ञानावैराग्यानैश्वर्याह्वान-देवताः।188

मूलम्

ततो गात्राणि पीठस्य प्रागादिषु निवेशयेत्।
अधर्माज्ञानावैराग्यानैश्वर्याह्वानदेवताः।188

विश्वास-प्रस्तुतिः

प्रणम्याभ्यर्च्य तन्-मन्त्रैस्,,
ततस् सत्त्वं, रजस्, तमः।
तन्-मध्ये फलकाः कुर्यात्
मन्त्रैः स्वैः प्राग्-उपक्रमात्॥189
+++(कीदृशम् इदं कल्पनीयम्??)+++

द्राविडम्

वणङ्गि
नम:पदम् सेर्न्द अददन् मन्द्रङ्गळाल् अर्च्चित्तु
सत्तुव रजस् तमो गुणङ्गळागिऱ मूण्ड्रु पलगैगळैक्किऴक्किनिण्ड्रु तॊडङ्गिच् चेर्त्तु-

मूलम्

प्रणम्याभ्यर्च्य तन्मन्त्रैः ततस्सत्त्वं रजस्तमः।
तन्मध्ये फलकाः कुर्यात् मन्त्रैः स्वैः प्रागुपक्रमात्॥189

विश्वास-प्रस्तुतिः

एवं सद्-आत्मकं पीठम्
अनन्तात्मकम् उज्ज्वलम्।
सर्व-कार्योन्मुखं स्मृत्वा
तन्-मन्त्रेणाभि-पूज्य च॥190

मूलम्

एवं सदात्मकं पीठमनन्तात्मकमुज्ज्वलम्।
सर्वकार्योन्मुखं स्मृत्वा तन्मन्त्रेणाभिपूज्य च॥190

पद्मम्

विश्वास-प्रस्तुतिः

तस्योपरि महा-पद्मं
सहस्र-दल-संवृतम्।
उद्यद्-भास्कर-बिम्बाभं
शु(क्ल)भ-केसर-कर्णिकम्॥191
तन्-मन्त्रेणैव विन्यस्य
समभ्यर्च्य प्रणम्य च।

मूलम्

तस्योपरि महापद्मं सहस्रदलसंवृतम्।
उद्यद्भास्करबिम्बाभं शु(क्ल)भकेसरकर्णिकम्॥191
तन्मन्त्रेणैव विन्यस्य समभ्यर्च्य प्रणम्य च।

विश्वास-प्रस्तुतिः

दलेषु मण्डलं वह्नेः
केसरेष्व् इन्दु-मण्डलम्॥192
कर्णिकायां रवेर् बिम्बं
स्व-मन्त्रेणैव योजयेत् ।

मूलम्

दलेषु मण्डलं वह्नेः केसरेष्विन्दुमण्डलम्॥192
कर्णिकायां रवेर्बिम्बं स्वमन्त्रेणैव योजयेत् ।

नवशक्तिध्यानम्

विश्वास-प्रस्तुतिः

दलेष्वष्टसु तस्याथ
पूर्वाद्येषु यथाक्रमम् ॥ 193
विमलोत्कर्षिणी ज्ञाना-
क्रिया-योगाः पृथक् पृथक् ।
प्रभ्वीं च सत्याम् ईशानां
ध्यात्वा मन्त्रैर् यथा-क्रमम् ॥ 194

मूलम्

विमलोत्कर्षिणी ज्ञाना क्रियायोगाः पृथक् पृथक् ।
प्रभ्वीं च सत्याम् ईशानां ध्यात्वा मन्त्रैर्यथाक्रमम् ॥ 194

विश्वास-प्रस्तुतिः

स्मरेद् अग्रे स्वमन्त्रेण
कर्णिकायाम् अनुग्रहाम् ।
शक्तीर् नवैताः परितो
वीक्षमाणा हरेर् मुखम् ॥ 195

मूलम्

स्मरेदग्रे स्वमन्त्रेण कर्णिकायामनुग्रहाम् ।
शक्तीर्नवैताः परितो वीक्षमाणा हरेर्मुखम् ॥ 195

विश्वास-प्रस्तुतिः

करेणैकेन दधतीश्
चामराणि स्व्-अलङ्कृताः ।
अन्येन च नमस्यन्तीः
स्व-शिरो-निहितेन च ॥ 196

मूलम्

करेणैकेन दधतीः चामराणि स्वलङ्कृताः ।
अन्येन च नमस्यन्तीः स्वशिरोनिहितेन च ॥ 196

विश्वास-प्रस्तुतिः

चिन्तयित्वैवम् एताश् च
गन्धाद्यैर् अभिपूज्य च ।
योग-पीठम् इदं सर्वं
जगत्-प्रकृति-निर्मितम्॥ 197

मूलम्

चिन्तयित्वैवमेताश्च गन्धाद्यैरभिपूज्य च ।
योगपीठमिदं सर्वं जगत्प्रकृतिनिर्मितम्॥ 197

विश्वास-प्रस्तुतिः

आधार-शक्त्याद्य्-अखिलं
देवतामयम् अद्भुतम् ।
प्रणम्याभ्यर्च्य गन्धाद्यैः
स्व-मन्त्रेण ततः परम् ॥ 198

मूलम्

आधारशक्त्याद्यखिलं देवतामयमद्भुतम् ।
प्रणम्याभ्यर्च्य गन्धाद्यैः स्वमन्त्रेण ततः परम् ॥ 198

अनन्तासनध्यानम्

विश्वास-प्रस्तुतिः

तत्-पद्म-कर्णिका-मध्ये
कुण्डली-कृत-विग्रहम्।
राजताद्रि-प्रतीकाशं
सहस्रेन्दु-समप्रभम्॥199

मूलम्

तत्पद्मकर्णिकामध्ये कुण्डलीकृतविग्रहम्।
राजताद्रिप्रतीकाशं सहस्रेन्दुसमप्रभम्॥199

विश्वास-प्रस्तुतिः

कुन्द-मालाङ्गम् उन्निद्र-
पद्म-पत्रारुणेक्षणम्।
शैत्य-सौरभ्य-सौगन्ध्य-
मार्दवादि-गुणाकरम्॥200

मूलम्

कुन्दमालाङ्गमुन्निद्रपद्मपत्रारुणेक्षणम्।
शैत्यसौरभ्यसौगन्ध्यमार्दवादिगुणाकरम्॥200

विश्वास-प्रस्तुतिः

फणा-मणि-सहस्रांशु-
निचयेन विसर्पता
रञ्जितं चन्दनेनैव
रक्तेनातिसुगन्धिना॥201

मूलम्

फणामणिसहस्रांशुनिचयेन विसर्पता।
रञ्जितं चन्दनेनैव रक्तेनातिसुगन्धिना॥201

विश्वास-प्रस्तुतिः

नारायणाङ्ग-सौगन्ध्य–
चर्चित-स्वाङ्ग-सौरभम्।
फणा-सहस्रं वियति
वितानम् इव सर्वतः॥202

मूलम्

नारायणाङ्गसौगन्ध्य चर्चि(वर्धि)तस्वाङ्गसौरभम्।
फणासहस्रं वियति वितानमिव सर्वतः॥202

विश्वास-प्रस्तुतिः

वितत्यासीनम् आनन्द-
निर्भरोद्भ्रान्त-लोचनम्।
अचिन्त्यानन्त-विज्ञान-
बलैक-निलयं विभुम्॥203

मूलम्

वितत्यासीनमानन्दनिर्भरोद्भ्रान्तलोचनम्।
अचिन्त्यानन्तविज्ञानबलैकनिलयं विभुम्॥203

विश्वास-प्रस्तुतिः

राजाधिराजं नागानाम्
अनन्तं कान्त-विग्रहम्।
ध्यात्वा प्रणम्य चाभ्यर्च्य
गन्ध-पुष्पादिभिः शुभैः॥204

मूलम्

राजाधिराजं नागानामनन्तं कान्तविग्रहम्।
ध्यात्वा प्रणम्य चाभ्यर्च्य गन्धपुष्पादिभिः शुभैः॥204

इतर-परिवाराणां पीठ-कल्पनम्

विश्वास-प्रस्तुतिः

ततः प्राग्-उत्तरे देशे
योग-पीठस्य पार्श्वतः।
न्यसेद् रत्नमयं पीठं
रुचिरं शेष-भोजिनः॥205

मूलम्

ततः प्रागुत्तरे देशे योगपीठस्य पार्श्वतः।
न्यसेत् रत्नमयं पीठं रुचिरं शेषभोजिनः॥205

विश्वास-प्रस्तुतिः

पश्चिमायाम् अपि दिशि
पीठं शेषाय निक्षिपेत्
पुरतो वैनतेयस्य निदध्यात्
पीठम् आसनम्॥206

मूलम्

पश्चिमायामपि दिशि पीठं शेषाय निक्षिपेत्।
पुरतो वैनतेयस्य निदध्यात् पीठमासनम्॥206

विश्वास-प्रस्तुतिः

पुरतः पार्श्वतः पश्चाद्
अपि पद्मानि सर्वतः।
अन्येषां परिवाराणाम्
आसनानि प्रकल्प्य च॥207

मूलम्

पुरतः पार्श्वतः पश्चादपि पद्मानि सर्वतः।
अन्येषां परिवाराणाम् आसनानि प्रकल्प्य च॥207