सर्वार्थ-तोयम्
विश्वास-प्रस्तुतिः
ततस् तोयं समुत्पूर्य
महत्य् आसिच्य भाजने ॥ 165
मूल-मन्त्रेण संशोध्य
दग्ध्वा प्लाव्या ऽमृताम्भसा ।
स्थापयेत् दक्षिणे पार्श्वे
सिक्त्त्वा सुरभि-मुद्रया ॥ 166
मूलम्
ततस्तोयं समुत्पूर्य महत्यासिच्य भाजने ॥ 165
मूलमन्त्रेण संशोध्य दग्ध्वा प्लाव्याऽमृताम्भसा ।
स्थापयेत् दक्षिणे पार्श्वे सिक्त्त्वा सुरभिमुद्रया ॥ 166
सम्भार-शोधनम्
विश्वास-प्रस्तुतिः
ततस् संभारम् अखिलं
पूजार्थम् उपकल्पितम् ।
शोषणादिभिर् आलोक्य
नीत्वा ऽऽराधन-योग्यताम् ॥ 167
स्थापयित्वा ऽग्रतः सर्वं
सर्वतः संस्मरन् हरिम् ।
मूलम्
ततस्संभारमखिलं पूजार्थमुपकल्पितम् ।
शोषणादिभिरालोक्य नीत्वाऽऽराधनयोग्यताम् ॥ 167
स्थापयित्वाऽग्रतः सर्वं सर्वतः संस्मरन् हरिम् ।
अर्घ्यादि
विश्वास-प्रस्तुतिः
हस्त-प्रक्षालनार्थं च
जलं संस्थाप्य वामतः ॥ 168
मूलम्
हस्तप्रक्षालनार्थं च जलं संस्थाप्य वामतः ॥ 168
विश्वास-प्रस्तुतिः
प्रोक्षणार्घ्यार्थम् उचितं
पात्रं प्रक्षाल्य वारिणा ।
शुचिना ऽऽपूर्य तोयेन
निर्मलेन सुगन्धिना ॥ 169
मूलम्
प्रोक्षणार्घ्यार्थमुचितं पात्रं प्रक्षाल्य वारिणा ।
शुचिनाऽऽपूर्य तोयेन निर्मलेन सुगन्धिना ॥ 169
विश्वास-प्रस्तुतिः
तत् तीर्थ-रूपिणं तत्र
ध्यात्वैवं मनसा हरिम् ।
अभ्यर्च्य गन्ध-पुष्पाद्यैः
सप्त-कृत्वो ऽभिमन्त्र्य तम् ॥ 170
मूलम्
तत्तीर्थ(त्तोय)रूपिणं तत्र ध्यात्वैवं मनसा हरिम् ।
अभ्यर्च्य गन्धपुष्पाद्यैः सप्तकृत्वोऽभिमन्त्र्य तम् ॥ 170
विश्वास-प्रस्तुतिः
पुनश् च तस्मिन्न् अपरं
पुष्पम् एकं समन्त्रकम् ।
दत्वा, तद् एव च ततः
समुद्धृत्य, बहिर् हरेत्॥ 171
मूलम्
पुनश्च तस्मिन्नपरं पुष्पमेकं समन्त्रकम् ।
दत्वा तदेव च ततः समुद्धृत्य बहिर्हरेत्॥ 171
विश्वास-प्रस्तुतिः
“ओम् अर्घ्यं कल्पयिष्यामी"त्य्
उक्त्वा चार्घ्यं प्रकल्प्य तु ।
तज्-जलेनैव संभारम्
आत्मानम् अवनीं च ताम् ॥ 172
मूलम्
ओमर्घ्यं कल्पयिष्यामीत्युक्त्वा चार्घ्यं प्रकल्प्य तु ।
तज्जलेनैव संभारमात्मानमवनीं च ताम् ॥ 172
विश्वास-प्रस्तुतिः
संप्रोक्ष्य स्वेन मन्त्रेण
योगपीठस्य पार्श्वतः ।
तम् अप्य् अर्घ्यम् अवस्थाप्य
रक्षां कृत्वा ऽस्त्रतेजसा ॥ 173
मूलम्
संप्रोक्ष्य स्वेन मन्त्रेण योगपीठस्य पार्श्वतः ।
तमप्यर्घ्यमवस्थाप्य रक्षां कृत्वाऽस्त्रतेजसा ॥ 173
४ पात्राणि
विश्वास-प्रस्तुतिः
ततश् चत्वारि पात्राणि
सौवर्णादीनि शक्तितः ।
प्रक्षाल्यास्त्रेण विधिवत्
स्थापयेत् पुरतो हरेः॥ 174
मूलम्
ततश्चत्वारि पात्राणि सौवर्णादीनि शक्तितः ।
प्रक्षाल्यास्त्रेण विधिवत् स्थापयेत् पुरतो हरेः॥ 174
विश्वास-प्रस्तुतिः
मृष्टोपलिप्ते भूभागे
संस्कृते शोषणादिभिः।
आस्तीर्यास्तरणं धौतं
तस्योपरि समाहितः॥ 175
मूलम्
मृष्टोपलिप्ते भूभागे संस्कृते शोषणादिभिः।
आस्तीर्यास्तरणं धौतं तस्योपरि समाहितः॥ 175
अर्घ्यादिपात्राणां दिग्विभागः
विश्वास-प्रस्तुतिः
अथोम् अर्घ्यं कल्पयामीत्य्
उक्त्वा, वायु-पदे न्यसेत्।
कलशं तद्वद् ऐशान्यां
न्यसेद् आचमनार्थकम्॥ 176
द्राविडम्
वैक्किऱेनॆण्ड्रु वायु मूलैयि वैप्पदु
आसमनत्तिऱ्कान कलसत्तै वडटगिऴक्कु मूलैयि वैप्पदु.
मूलम्
अथोमर्घ्यं कल्पयामीत्युक्त्वा वायुपदे न्यसेत्।
कलशं तद्वदैशान्यां न्यसेदाचमनार्थकम्॥ 176
विश्वास-प्रस्तुतिः
स्नानार्थम् अग्नि-भागे तु
पाद्यार्थं नैर्ऋते तथा।
द्राविडम्
तिरुमञ्जनत्तिऱ्कान पात्रत्तैत् तॆन्गिऴक् वैप्प पात्य तीर्त्त पात्रत्तैत् तॆन्मेऱ्किलुम्
विश्वास-टिप्पनी
क्रमेण आग्नेयादिषु कोणेषु अर्घ्य-पाद्य-आचमनीय-स्नानीय-पात्राणि निधाय
इति रामानुज-नित्य-ग्रन्थे।
कथं व्यत्यासः? किम् उपादेयम्?
मूलम्
स्नानार्थमग्निभागे तु पाद्यार्थं नैर्ऋते तथा।
अर्घ्यादीनां गन्धद्रव्याणि
विश्वास-प्रस्तुतिः
तानि तोयैः समुत्पूर्य
शुभिभिश् च सुगन्धिभिः॥ 177
गन्ध-पुष्पाक्षत-कुशान्
अर्घ्ये, पाद्ये स-पद्मकम्।
श्यामाकं विष्णु-पर्णीं च,
दूर्वां चाचमनाम्भसि …॥ 178
… एला-लवङ्ग-तक्कोल-
लामज्ज-कुसुमान्य् अपि।
द्राविडम्
अवट्रै सुत्तमाय्प् परिमळम् सेर्त्त तीर्त्तङ्गळा निऱैत्तु-
मूलम्
तानि तोयैः समुत्पूर्य शुभिभिश्च सुगन्धिभिः॥ 177
गन्धपुष्पाक्षतकुशान् अर्घ्ये पाद्ये सपद्मकम्।
श्यामाकं विष्णुपर्णीं च दूर्वां चाचमनाम्भसि॥ 178
एलालवङ्गतक्कोललामज्जकुसुमान्यपि।
विश्वास-प्रस्तुतिः
सिद्धार्थकादीन् स्नानीये
पृथक् प्रथग् अनुक्रमात्॥ 179
मूलम्
सिद्धार्थकादीन् स्नानीये पृथक् प्रथगनुक्रमात्॥ 179
विश्वास-प्रस्तुतिः
स्वमन्त्रेण विनिक्षिप्य
तद्-अलाभे हरि-प्रियाम् ।
तुलसीम् एव निक्षिप्य
रक्षां कृत्वा ततः परम् ॥ 180
मूलम्
स्वमन्त्रेण विनिक्षिप्य तदलाभे हरिप्रियाम् ।
तुलसीमेव निक्षिप्य रक्षां कृत्वा ततः परम् ॥ 180