०३ मन्त्रन्यासः

कर-न्यासः

व्यापक-न्यासः

विश्वास-प्रस्तुतिः

ततः स्व-हस्तौ मन्त्रेण
त्रिर् आमृश्य परस्परम्।
निधाय व्यापक-न्यासं
शुद्धयोर् हस्तयोर् द्वयोः॥133

मूलम्

ततः स्वहस्तौ मन्त्रेण त्रिरामृश्य परस्परम्।
निधाय व्यापकन्यासं शुद्धयोर्हस्तयोर्द्वयोः॥133

वर्ण-न्यासः

विश्वास-प्रस्तुतिः

वर्ण-न्यासं ततः कुर्यात्
प्रथमं दक्षिणे करे।
तर्जन्य्-आदि कनिष्ठान्तम्
अङ्गुली-मध्य-पर्वसु॥134

मूलम्

वर्णन्यासं ततः कुर्यात् प्रथमं दक्षिणे करे।
तर्जन्यादि कनिष्ठान्तम् अङ्गुलीमध्यपर्वसु॥134

विश्वास-प्रस्तुतिः

मन्त्रादींश् चतुरो वर्णान्
नादान्तान्+++(=मकारान्तान्)+++ प्रणवादिकान्।
अङ्गुष्ठेनैव विन्यस्य
प्रणवं चान्य-पर्वसु॥135

मूलम्

मन्त्रादींश्चतुरो वर्णान् नादान्तान् प्रणवादिकान्।
अङ्गुष्ठेनैव विन्यस्य प्रणवं चान्यपर्वसु॥135

विश्वास-प्रस्तुतिः

अङ्गुष्ठेनैव सव्येपि
वर्णान् मन्त्रस्य चापरान्।
नादान्तान् प्रणवोपेतान्
न्यसेत् सर्वेषु पर्वसु॥136

मूलम्

अङ्गुष्ठेनैव सव्येपि वर्णान्मन्त्रस्य चापरान्।
नादान्तान् प्रणवोपेतान् न्यसेत् सर्वेषु पर्वसु॥136

विश्वास-प्रस्तुतिः

प्रणवं च यथापूर्वं
पार्श्व-पर्वसु योजयेत्
वर्णान् न्यस्याङ्गुलीष्व् एवं,
तास्व् अङ्ग-न्यासम् आचरेत् ॥ 137

मूलम्

प्रणवं च यथापूर्वं पार्श्वपर्वसु योजयेत् ।
वर्णान् न्यस्याङ्गुलीष्वेवं तास्वङ्गन्यासमाचरेत् ॥ 137

गुण-न्यासः

विश्वास-प्रस्तुतिः

हृदयं+++(→तन्-मन्त्रं)+++ दक्षिणेऽङ्गुष्ठे
तर्जन्या विनिवेशयेत्
अङ्गुष्ठाग्रेण मूर्धादि +++(→मूर्धा, शिखा, कवचम्, अस्त्रम् इति तत्-तन्-मन्त्राः)+++
तर्जन्य्-आदिषु योजयेत् ॥ 138

(ओम् ‘ओम्’ ज्ञानाय ‘हृदयाय’ नमः
ओम् ‘नम्’ ऐश्वर्याय ‘शिरसे’ स्वाहा
ऒम् ‘मोम्’ शक्त्यै ‘शिखायै’ वौषट्
ओम् ‘नाम्’ बलाय ‘कवचाय’ हुम्
ओम् ‘राम्’ वीर्याय ‘अस्त्राय’ फट्)

मूलम्

हृदयं दक्षिणेऽङ्गुष्ठे तर्जन्या विनिवेशयेत् ।
अङ्गुष्ठाग्रेण मूर्धादितर्जन्यादिषु योजयेत् ॥ 138

विश्वास-प्रस्तुतिः

नयनं+++(→तन्-मन्त्रं)+++ वाम-तर्जन्या
तद्-अङ्गुष्ठे निवेशयेत्
अङ्गुष्ठेनोदरादीनि +++(→उदरं पृष्ठं बाहू ऊरू इति तत्-तन्-मन्त्राः)+++
तर्जन्यादिषु योजयेत् ॥ 139

(ओम् ‘यम्’ तेजसे ‘नेत्राभ्याम्’ नमः
ओम् ‘णाम्’ तेजसे ‘उदराय’ नमः
ओम् ‘यम्’ तेजसे ‘पृष्ठाभ्याम्’ नमः
ओम् ‘यम्’ तेजसे ‘बाहुभ्याम्’ नमः
ओम् ‘यम्’ तेजसे ‘ऊरुभ्याम्’ नमः)

द्राविडम्

इडदु कैयिलुम् मुदलिल् इड आळ्गाट्टि विरलाल् अक् कट्टै विरलिल् नेत्रत्तैयुम्, अक् कट्टै विरलाल् मट्र विरल्गळिल् उदरम्, प्रुष्ट्टम्, पाहु, ऊरु ऎण्ड्र अङ्गङ्गळैयुम् वैप्पदु. इदन् पिऱगु-

मूलम्

नयनं वामतर्जन्या तदङ्गुष्ठे निवेशयेत् ।
अङ्गुष्ठेनोदरादीनि तर्जन्यादिषु योजयेत् ॥ 139

विश्वास-प्रस्तुतिः

अङ्गुष्ठाभ्यां जानुपादौ +++(इति तत्-तन्-मन्त्रौ)+++
न्यसेद् दक्षिण-सव्ययोः ।
अव्युच्छिन्न-क्रमेणैव
यथा स्वाङ्गुलि-मूर्धसु ॥ 140

(ओम् ‘यम्’ तेजसे ‘जानुभ्याम्’ नमः
ओम् ‘यम’ तेजसे ‘पादाभ्याम्’ नमः)

विस्तारः (द्रष्टुं नोद्यम्)

अन्दन्दग कै कट्टैविरलाल् अन्दन्दक् कैमुदुगम्.
विरल् मुनैगळ् मुऴुमैयुम् तडवि वलदिल् जानु ऎन् अङ्गत्तैयुम्, इडदिल् पादम् ऎण्ड्रदैयुम् वैप्पदु. अन्दन्द अङ्गत्तै अन्दन्द इडत्तिल् वैक्कुम्बोदु
सॊल्लुम् मुऴु मन्द्र वडिवु
इप्पोदु इङ्गुत् तॆळिव विल्लै.
मेले अङ्गन्यासत्तिले सॊल्लप् पोगिऱा अव्वाऱे कॊळ्वदु.
अदै इङ्गेये तॆळिविक्किऱो मॊत्तम् 12 न्यासम्.
आग मुऱैये 12 मन्द्रङ्गळ्.

पत् विरल्गळुक्कुम् मुऴु कै :
विरल्नुनिगळ् इरण्डुक्कुम् आ 12-क्कुम्-

ओम् ‘ओम्’ ज्ञानाय ‘हृदयाय’ नमः
ओम् ‘नम्’ ऐश्वर्याय ‘शिरसे’ स्वाहा
ऒम् ‘मोम्’ शक्त्यै ‘शिखायै’ वौषट्
ओम् ‘नाम्’ बलाय ‘कवचाय’ हुम्
ओम् ‘राम्’ वीर्याय ‘अस्त्राय’ फट्

ओम् ‘यम्’ तेजसे ‘नेत्राभ्याम्’ नमः

ओम् ‘णाम्’ तेजसे ‘उदराय’ नमः
ओम् ‘यम्’ तेजसे ‘पृष्ठाभ्याम् नमः
ओम् ‘यम्’ तेजसे ‘बाहुभ्याम्’ नमः
ओम् ‘यम्’ तेजसे ‘ऊरुभ्याम्’ नमः

ओम् ‘यम्’ तेजसे ‘जानुभ्याम्’ नमः
ओम् ‘यम’ तेजसे ‘पादाभ्याम्’ नमः

ऎट्टु ऎऴुत्तुक्कळ् ऎट्टु इडङ्गळुक्कु आन पिऱगु
मिगुन्द नालु इडङ्गळुक्कुम्
ऒम् ‘यम्’ ऎण्ड्रु कडैसि ऎऴुत्तैये वैप्पदाम्. करन्यासम् मुट्रुम्.

इनि अङ्गन्यासम् सॆय्वदऱ्‌काग मुदलिल् अङ्गत्तिल्, व्याबग न्यासम् सॆय्य वेण्डुम्. अदावदु–

मूलम्

अङ्गुष्ठाभ्यां जानुपादौ न्यसेद्दक्षिणसव्ययोः ।
अव्युच्छिन्नक्रमेणैव यथा स्वाङ्गुलिमूर्धसु ॥ 140

अङ्ग-न्यासः

व्यापक-न्यासः

विश्वास-प्रस्तुतिः

ततो देहे ऽपि तद् अनु
व्यापक-न्यासम् आचरेत्
शिरः-प्रभृति पाणिभ्याम्
आपादाभ्यां स्वपार्श्वयोः ॥ 141

द्राविडम्

पिऱगु तेहत्तिलुम् कैयिल् सॆय्ददऱ्‌कु ऒत्तु इरु कैगळालुम्, सिरस्सिलिरुन्दु इरुबादङ्गळ् वरैयिल् इरु पक्कङ्गळिल् मुऴुमैयुम् मूण्ड्रु तरम् तडविक् कॊण्डे 5 मन्द्रत्तै वैप्पदु.इदु ‘कवसम्’ पूण्वदु पोलागुम्: ‘आबादाप्याम्’ ऎण्ड्रदु पञ्जमीत्विवसनम्. पादङ्गळ् वरैयिल् ऎण्ड्रु पॊरुळाम्.

मूलम्

ततो देहेपि तदनु व्यापकन्यासमाचरेत् ।
शिरःप्रभृति पाणिभ्यामापादाभ्यां स्वपार्श्वयोः ॥ 141

विश्वास-प्रस्तुतिः

त्रिः स्पृशन् स्वेन मन्त्रेण
वेष्टयन्न् इव वर्मणा ।
मन्त्र-वर्णान् स्वदेहे ऽपि
न्यसेद् एवम् अतन्द्रितः ॥ 142

द्राविडम्

इनि तेहावयवङ्गळिल् मन्द्र वर्णङ्गळुक्कु स्त्तिदि कु न्यासम्:
‘ऎङ्गॆङ्गु ऎन्दॆन्द विरल्गळ्’ सेर्त्तु वैप्प” तॆन्बदै कवनिक्क वेण्डुम्. वर्णङ्गळुक्कु मुन्ने ओङ्गारत्तैयुम् मेले नादत्तै (अनुस्वारत्तै)युम् सेर्क्क वेण्डुम्. इप्पडि स्त्तिदिन्यासम् सॆय्य विरुप् पत्तुडन् मुदन्मुदल् नाबियिल् तॊडङ्गुवदु-

मूलम्

त्रिः स्पृशन् स्वेन मन्त्रेण वेष्टयन्निव वर्मणा ।
मन्त्रवर्णान् स्वदेहेऽपि न्यसेदेवमतन्द्रितः ॥ 142

वर्ण-न्यासः

विश्वास-प्रस्तुतिः

नाभ्याम् ओंकारम् अङ्गुष्ठ-
कनिष्ठाभ्यां निवेशयेत्
सनादं प्रणवोपेतं
स्थिति-न्यास-चिकीर्षया ॥ 143

द्राविडम्
  1. नाबियिल् ओङ्गारम् - कट्टै विरलुम् सुण्डु विरलुम् सेर्त्तु
  2. कुह्य स्तलत्तिल् ‘नम’-मट्र विरल्गळाल्
  3. मुऴङ्गाल्गळिल्-‘मोम्’-मट्र विरल्गळालेये
  4. पादङ्गळिल् पिन् पुऱत्तिनिण्ड्रु}‘नाम्’-ऎल्ला विरल्गळालुम्
  5. सिरस्सिल् -‘राम्’- नडु विरलाल्
  6. कण्गळिरण्डिल्-‘यम्’-3-वदु 4-वदु विरल्गळाल्
  7. मुगत्तिन् नडुविल् मूक्किन् ऎदिरिल्-‘णाम्’-2-वदुम् वदुम् सेर्त्तु.
  8. ह्रुदयत्तिल् —‘यम्’-आळ्गाट्टियुम् कटै विरलुम् सेर्त्तु.

इदु (144, 147) 5 श्लोकप् पॊरुळ्.

सलोगम् 144-ल् ‘साङ्गुष्ट्टाबिस्स तिस्रुबि:’- ऎन्गिऱ पाडम् असुत्तम्. ऎन्द-मूण्ड्रु विरल्गळॆन्बदुम् विळङ्गविल्लै. ओलैयिलुळ्ळ ‘सदस्रुबि:’ ऎन्गिऱ पाडमे तगुम्. आनालुम् ‘साङ्गुष्ट्टाबि:’-ऎण्ड्राल् मेल् सॊल् लुम् न्यासम् पोलागुम्. अदनाल् आन्निगत्तिलुळ्ळबडि ‘व्यङ्गुष्ट्टाबि:’ ऎण्ड्रे पाडम् तगुम्. आग 144-147 सलोगङ्गळ् उरैक्कप् पॆट्रन. अवैयावन.-

मूलम्

नाभ्यामोंकारमङ्गुष्ठकनिष्ठाभ्यां निवेशयेत् ।
सनादं प्रणवोपेतं स्थितिन्यासचिकीर्षया ॥ 143

विश्वास-प्रस्तुतिः

द्वितीयं च तृतीयं चाप्य्
उपस्थे जानुनोर् अपि ।
साङ्गुष्ठाभिश् च तिसृभिर्
अङ्गुलीभिर् यथा-क्रमम ॥ 144

मूलम्

द्वितीयं च तृतीयं चाप्युपस्थे जानुनोरपि ।
साङ्गुष्ठाभिश्च तिसृभिः अङ्गुलीभिर्यथाक्रमम ॥ 144

विश्वास-प्रस्तुतिः

न्येसच् चतुर्थं सर्वाभिः
पादयोः पृष्ठतः पुमान् ।
पञ्चमं मध्यया मूर्ध्नि
न्यस्य, षष्ठं दृशोर् अपि … ॥ 145

मूलम्

न्येसच्चतुर्थं सर्वाभिः पादयोः पृष्ठतः पुमान् ।
पञ्चमं मध्यया मूर्ध्नि न्यस्य षष्ठं दृशोरपि ॥ 145

विश्वास-प्रस्तुतिः

… मध्ययैव सतर्ज्यन्या,
युगपत् संनिवेशयेत्
साङ्गुष्ठया ऽनामिकया
सप्तमं मुख-मध्यतः ॥ 146

मूलम्

मध्ययैव सतर्ज्यन्या युगपत् संनिवेशयेत् ।
साङ्गुष्ठयाऽनामिकया सप्तमं मुखमध्यतः ॥ 146

विश्वास-प्रस्तुतिः

घ्राणस्य पुरतो न्यस्य,
हृदये चान्त्यम् अक्षरम् ।
साङ्गुष्ठ-तर्जन्य्-अग्रेण
न्यसेद् एवं यथाक्रमम् ॥ 147

मूलम्

घ्राणस्य पुरतो न्यस्य हृदये चान्त्यमक्षरम् ।
साङ्गुष्ठतर्जन्यग्रेण न्यसेदेवं यथाक्रमम् ॥ 147

गुण-न्यासः

विश्वास-प्रस्तुतिः

अङ्ग-न्यासं ततः कुर्याद्
अङ्ग-मन्त्रान् यथा-क्रमम् ।
हृदि मूर्ध्नि शिखायां च
कण्ठ-कट्योश् च मध्यमे ॥ 148

(ओम् ‘ओम्’ ज्ञानाय ‘हृदयाय’ नमः
ओम् ‘नम्’ ऐश्वर्याय ‘शिरसे’ स्वाहा
ऒम् ‘मोम्’ शक्त्यै ‘शिखायै’ वौषट्

ओम् ‘नाम्’ बलाय ‘कवचाय’ हुम्)

द्राविडम्

इनि आन्निगत्तिलिराद सङ्ग्षेबमान नियास्म् वरुमाऱु-148 मुदल् 154. वरैयिल् इवट्रिल् 150, श्लोकङ्गळैप् पिरित्तु अङ्गन्यास विषयम् आनबि 1631क्कु मेल् सेर्त्तुक् कॊळ्वदु.

अङ्गङ्गळिल् वर्ण न्यासम् आन पिऱगु
अङ्ग मन्द्रङ् गळै वैप्पद् आगिऱ
अङ्ग न्यासत्तैच् चॆय्वदु.
अङ्ग मन्द्रङ्गळ् 152 मुदल् मूण्ड्रु सलोगङ्गळाल् सॊल्लप् पडुम्.
मुऱैये ह्रुदयम्, तलै, सिगैकऴुत्तुक्कुम्,
अरैक्कुमिडैयिल् उळ्ळ उडल्,

मूलम्

अङ्गन्यासं ततः कुर्याद् अङ्गमन्त्रान् यथाक्रमम् ।
हृदि मूर्ध्नि शिखायां च कण्ठकट्योश्च मध्यमे ॥ 148

विश्वास-प्रस्तुतिः

शरीरे ऽंस-द्वये चापि
नेत्रयोर् उदरे तथा ।
पृष्ठ-बाहूरु-जान्व्-अङ्घ्रि-
युगलेषु यथोचितान् ॥ 149

(ओम् ‘राम्’ वीर्याय ‘अस्त्राय’ फट् ओम् ‘यम्’ तेजसे ‘नेत्राभ्याम्’ नमः

ओम् ‘णाम्’ तेजसे ‘उदराय’ नमः

ओम् ‘यम्’ तेजसे ‘पृष्ठाभ्याम् नमः
ओम् ‘यम्’ तेजसे ‘बाहुभ्याम्’ नमः
ओम् ‘यम्’ तेजसे ‘ऊरुभ्याम्’ नमः
ओम् ‘यम्’ तेजसे ‘जानुभ्याम्’ नमः
ओम् ‘यम’ तेजसे ‘पादाभ्याम्’ नमः )

द्राविडम्

तोट्कळ्, कण्कळ्, वयिऱु, प्रुष्ट्टङ्गळ्, पुजङ्गळ्, तॊडैगळ्, मुऴङ्गाल् कळ्, पातङ्गळ् आग पन्निरण्डिडङ्गळिलाम्. ‘यदोसिदान्’ ऎण्ड्र विडत्तिल् ‘यदोदिदान्’ ऎण्ड्रु ताळबाडम् आम्,
सास्त्रत्तिल् सॊल्लप्पट्ट पडियान ऎण्ड्र पॊरुळदाम्.

मूलम्

शरीरेंऽसद्वये चापि नेत्रयोरुदरे तथा ।
पृष्ठबाहूरुजान्वङ्घ्रियुगलेषु यथोचितान् ॥ 149

दिग्-बन्धः

विश्वास-प्रस्तुतिः

साङ्गुष्ठ-तर्जन्य्-अग्रेण
सास्त्र-च्छोटेन सर्वशः ।
बध्वा दिशश् च पूर्वाद्या
वह्न्य्-आद्या विदिशस् तथा ॥ 150

मूलम्

साङ्गुष्ठतर्जन्यग्रेण सास्त्रच्छोटेन सर्वशः ।
बध्वा दिशश्च पूर्वाद्याः वह्न्याद्या विदिशस्तथा ॥ 150

विश्वास-प्रस्तुतिः

तेनैव भ्रामयन्न् अस्त्रं
कुर्यात् प्राकारम् आत्मनः ।
कवचेन च मन्त्रेण
कुर्याद् देहावगुण्ठनम् ॥ 151

मूलम्

तेनैव भ्रामयन्नस्त्रं कुर्यात् प्राकारमात्मनः ।
कवचेन च मन्त्रेण कुर्याद्देहावगुण्ठनम् ॥ 151

मन्त्र-निर्देशः

सङ्क्षेपतः

विश्वास-प्रस्तुतिः

अङ्ग-मन्त्रा - मन्त्र-वर्णा
नादान्ताः प्रणवादिकाः।
ज्ञानैश्वर्य-शक्ति-बल-
वीर्य-तेजः-पदैर् युताः॥ 152

द्राविडम्

अङ्ग मन्द्रङ्गळावन-अष्टाक्षर मन्द्र वर्णङ् गळे. अवट्रिल् वरिसैयाग ऒव्वॊण्ड्रैयुम् मुदलिल् प्रणवम्, वर्णत्तिऱ्‌कुप् पिऱगु नादम् (अनुस्वारम्); अदन् मेल् ज्ञान-ऐच्वर्य, सक्ति पल वीर्य तेज: पदङ् गळिलॊण्ड्रु, अदन् मेल् ऎन्द अङ्गत्तैत् तॊडुगिऱदो अन्द अङ्गत्तिऱ्‌कुप् पॆयरान ह्रुदयादि सॊल्लैयुम् अन्दन्द अङ्गऱ्‌तिऱ्‌कुच् चेर्प्पदु. ज्ञानादि पदङ्गळ् आऱु मुडिन्दु विट्ट पडियाल्

मूलम्

अङ्गमन्त्रा मन्त्रवर्णा नादान्ताः प्रणवादिकाः।
ज्ञानैश्वर्यशक्तिबलवीर्यतेजःपदैर्युताः॥ 152

विश्वास-प्रस्तुतिः

चतुर्थ्यन्तैस् तथा स्वाङ्गैर्
हृदयाद्यैः समन्विताः
तेजसे इति संयुक्ताः
षट्स्व् अङ्गेषूर-आदिषु ॥ 153

द्राविडम्

आऱुक्कु मेल् णाम् ऎण्ड्रदै तेजस् उदर ऎण्ड्र सॊऱ्‌कळै मट्टुम् सेर्त्तु निया सॆय्वदॆण्ड्रिरुन्दिरुक्कुम्. पिऱगु विडप्पट्टदॆ तोण्ड्रुगिऱदु. ‘णाम्’ ऎन्बदै मेले सॊल्लविल्लै पिऱगु कडैयक्षरमान ‘य’ ऎन्बदे प्रुष्ट्टम् मुदल् वरैयिलान अङ्गङ्गळुक्कु आगुम्. इन्द तेजस्पद वीर्यादिबदमुम्. अन्दन्द अङ्गबदमुमॆल्लाम् सदुर्त्ती पक्ति यन्दमागच्चॊल्लप्पडुम्. इदु सङ्ग्षेब न्यासॆ किऱार्. मेले विस्तार न्यासम् सॊल्लुगिऱार्. अदिल् स्वाहा ऎण्ड्राऱ्‌पोल् कडैसियिल् सॊल्लॊ सेर्प्पदु नीङ्गलाग वेऱु विसेषम् तॆरियविल्लै. अन्द विस्तार मन्द्रङ्गळै 140वदु कारिगैयिन् उ यिल् कूऱियिरुक्किऱोम्. अवट्रैक् कीऴ् कूऱुम् विदम न्यासम् सॆय्ग अवट्रिल्-

मुदल् मन्द्रवर्णत्तै ह्रुदयत्तिल् कट्ट विरलुडन् सेर्न्द आळ्गाट्टियाल्- 2. 2वदु मन्दरवर्णत्तैत् तलैयिल् कट्टैविर विट्टु नालु विरल्गळाल्. (1564) 3वदै सिगैयिल् कट्टैविरलै नाळमागक् कॊण् मुष्टियाल्.(1571) 4वदै पलाय कवसाय हुम् ऎण्ड्रु इरुगैगळालु कऴुत्तिनिण्ड्रु अरै वरैयिल् कवसमागक्प् पोर्प्पदु. (1 5वदै ‘वीर्यायास्त्राय पट्’ ऎण्ड्रु सॊल्लि अ काट्टिगट्टैविरल्गळाल् तोळ्गळिन् मेल् सप्तिक्कच्चॆ वदु. असुरादिगळै विरट्टवाम् इदु.(160) 6वदैक् कण्गळिल् नडुविरल् आळ्गाट्टिविरल्गळाल्, (61 सम् 57 7 वदै नाबियिल् विरल्गळाल् (162), 8 वदै प्रुष्टङ् गळिल्, 9वदै पुजङ्गळिल्, 10वदै तॊडैगळिल्, 11वदै य.) मुऴङ्गाल्गळिल्, 12वदैक् काल्गळिल् (163). ण्ड्रु काल् मुम् वि- . म इन्द विस्तार न्यासमे आन्निगत्तिलुमुळ्ळदु. इदऱ्‌कान कारिगैगळ् 155 मुदल् 163 वरैयिलिव्वाऱु-

मूलम्

चतुर्थ्यन्तैस्तथा स्वाङ्गैः हृदयाद्यैः समन्विताः ।
तेजसे इति संयुक्ताः षट्स्वङ्गेषूर आदिषु ॥ 153

विश्वास-प्रस्तुतिः

यम् इत्य् अनेन बीजेन
युताः पृष्ठादि-पञ्चसु ।
संक्षेपो ऽङ्ग-न्यासो ऽयं
सविस्तारो ऽपि कीर्त्यते ॥ 154

मूलम्

यम् इत्यनेन बीजेन युताः पृष्ठादिपञ्चसु ।
संक्षेपोऽङ्गन्यासोऽयं सविस्तारोऽपि कीर्त्यते ॥ 154

विस्तृत-निर्देशः

हृदि

विश्वास-प्रस्तुतिः

ओंकारात् परतो युञ्ज्यात्
नादान्तान् प्रणवादिकान् +++(वर्णान्)+++ ।
“ज्ञानाय हृदयाये"ति
“नमश्” चैव यथाक्रमम् ॥ 155
मन्त्रम् एनं हृदि न्यस्य
तर्जन्य्-आङ्गुष्ठ-युक्तया ।

मूलम्

ओंकारात् परतो युञ्ज्यात् नादान्तान् प्रणवादिकान् ।
ज्ञानाय हृदयायेति नमश्चैव यथाक्रमम् ॥ 155
मन्त्रमेनं हृदि न्यस्य तर्जन्याङ्गुष्ठयुक्तया ।

मूर्ध्नि

विश्वास-प्रस्तुतिः

“(ओं) नम् ऐश्वर्याय शिरसे
स्वाहे"ति पद-संयुतम् ॥ 156
अनङ्गुष्ठाङ्गुलीभिस् तु
न्यसेन् मस्तक-मध्यतः।

मूलम्

(ओं) नम् ऐश्वर्याय शिरसे स्वाहेति पदसंयुतम् ॥ 156
अनङ्गुष्ठाङ्गुलीभिस्तु न्यसेन्मस्तकमध्यतः।

शिखायाम्

विश्वास-प्रस्तुतिः

“शक्त्यै शिखायै वौषड्” इत्य्-
एतन् मोङ्-कार-संयुतम्॥157
मुष्टिना ऽङ्गुष्ठ-नालेन
न्यसेन् मध्ये-शिखं मनुम्।

मूलम्

शक्त्यै शिखायै वौषडित्येतन्मोंकारसंयुतम्॥157
मुष्टिनाऽङ्गुष्ठनालेन न्यसेन्मध्येशिखं मनुम्।

वक्षसि

विश्वास-प्रस्तुतिः

नाङ्कारेण समायोज्य
“बलाय कवचाय हुम्”॥158
तेन कण्ठादि-कट्यन्तं
पाणिभ्यां वर्मयेत् तनूम्।

मूलम्

नाङ्कारेण समायोज्य बलाय कवचाय हुम्॥158
तेन कण्ठादिकट्यन्तं पाणिभ्यां वर्मयेत्तनूम्।

अंसयोः

विश्वास-प्रस्तुतिः

“वीर्यायास्राय फड्” इति
रांकारेणानुबध्य तु॥159
शब्दयेद् अंसयोस् तेन
तर्जन्या ऽङ्गुष्ठ-युक्तया।
दैत्य-दानव-रक्षांसि
भीषयन्न् अस्त्रतेजसा॥160

मूलम्

वीर्यायास्राय फटिति रांकारेणानुबध्य तु॥159
शब्दयेदंसयोस्तेन तर्जन्याङ्गुष्ठयुक्तया।
दैत्यदानवरक्षांसि भीषयन्नस्त्रतेजसा॥160

नेत्रयोः

विश्वास-प्रस्तुतिः

“यं” समायोज्य “तेजसे
नेत्राभ्यां वौषड्” इत्य् अदः।
निदध्याद् युगपन् मध्य-
तर्जनीभ्यां दृशोर् द्वयोः॥161

मूलम्

यं समायोज्य तेजसे नेत्राभ्यां वौषडित्यदः।
निदध्याद्युगपन्मध्यतर्जनीभ्यां दृशोर्द्वयोः॥161

उदरे

विश्वास-प्रस्तुतिः

“तेजसे उदराये"ति
पदाभ्यां नमसा ऽपि च।
णां समायोज्य तन् नाभ्याम्
अङ्गुलीभिर् निवेशयेत्॥162

मूलम्

तेजसे उदरायेति पदाभ्यां नमसापि च।
णां समायोज्य तन्नाभ्यामङ्गुलीभिर्निवेशयेत्॥162

पृष्ठ-बाहूरु-जान्व्-अङ्घ्रिषु

विश्वास-प्रस्तुतिः

पृष्ठ-बाहूरु-जान्व्-अङ्घ्रि-
युगलेषु यथाक्रमम्।
तेजस इति संयुक्तैः
नमोऽन्तैश् च स्व-नामभिः॥ 163
यं-कारेण च संयोज्य
तत्र-तत्र निवेशयेत्

मूलम्

पृष्ठबाहूरुजान्वङ्घ्रियुगलेषु यथाक्रमम्।
तेजसे इति संयुक्तैः नमोन्तैश्च स्वनामभिः॥ 163
यंकारेण च संयोज्य तत्रतत्र निवेशयेत् ।

हृद्याग-काल-विकल्पः

विश्वास-प्रस्तुतिः

अस्मिन् वाऽवसरे कुर्याद्
आहूते वाऽसने हरौ ॥ 164
हृद्-यागं कॢप्त-संभारः
स्वच्छन्देन यथाविधि ।

मूलम्

अस्मिन्वाऽवसरे कुर्याद् आहूते वाऽसने हरौ ॥ 164
हृद्यागं कॢप्तसंभारः स्वच्छन्देन यथाविधि ।