०२ भूत-शुद्धि-क्रमः

शोषणादि

विश्वास-प्रस्तुतिः

ततो दक्षिण-पाण्य्-अन्तर्
न्यस्य मन्त्रं धियाऽऽत्मनः ।
तं निदध्यात् स्वनाभ्य्-अन्तः
पाणिना प्राणसंयमः ॥ 111

मूलम्

ततो दक्षिणपाण्यन्तः न्यस्य मन्त्रं धियाऽऽत्मनः।
तं विदध्यात् स्वनाभ्यन्तः पाणिना प्राणसंयमः॥ 111

विश्वास-प्रस्तुतिः

तन्-मन्त्रतस् समुद्भूतैः
शोषणैश् चण्ड-मारुतैः।
संशोषयेत् स्वकं देहं
प्राचीनैः कर्मभिस् सह॥ 112

मूलम्

तन्मन्त्रतस्समुद्भूतैः शोषणैश्चण्डमारुतैः।
संशोषयेत् स्वकं देहं प्राचीनैः कर्मभिस्सह॥ 112

विश्वास-प्रस्तुतिः

अथ विन्यस्य हृदये
पूर्ववत् पाणिना मनुम् ।
तत उद्भूत-चक्राग्नि-
ज्वालया दाहयेत् तनुम् ॥ 113

मूलम्

अथ विन्यस्य हृदये पूर्ववत् पाणिना मनुम् ।
तत उद्भूतचक्राग्निज्वालया दाहयेत्तनुम् ॥ 113

संहारन्यासः

विश्वास-प्रस्तुतिः

ततो मस्तक-विन्यस्त-
मन्त्रोद्भूतामृत-द्युतेः।
रश्मिभिः प्लावयेद् दग्धं
स्वकं देहं सुधामयैः ॥ 114

मूलम्

ततो मस्तकविन्यस्तमन्त्रोद्भूतामृतद्युतेः।
रश्मिभिः प्लावयेद्दग्धं स्वकं देहं सुधामयैः ॥ 114

विश्वास-प्रस्तुतिः

ततः पाद, उपस्थे च,
हृदि, वक्त्रे, शिरस्य् अपि।
पञ्चोपनिषदो न्यस्य,
पृथिव्य्-आद्य्-अधिदेवताः॥ 115

मूलम्

ततः पाद उपस्थे च हृदि वक्त्रे शिरस्यपि।
पञ्चोपनिषदो न्यस्य पृथिव्याद्यधिदेवताः॥ 115

विश्वास-प्रस्तुतिः

ततो ऽप्य् एवं क्रमेणैव
स्व-देहे भूत-पञ्चकम्।
कारणे कारणे +++(=??)+++ स्वस्मिन्
न्यस्तैर् मन्त्रैर् विलापयेत्॥ 116

मूलम्

ततोप्येवं क्रमेणैव स्वदेहे भूतपंचकम्।
कारणे कारणे स्वस्मिन् न्यस्तैर्मन्त्रैर्विलापयेत्॥ 116

विश्वास-प्रस्तुतिः

पद-जान्व्-अन्तरं भूमिः
जानु-कट्य्-अन्तरं जलम्
हृत्-कट्योर् अन्तरं तेजो
वायुर् नासा-हृद्-अन्तरम्॥ 117

मूलम्

पदजान्वन्तरं भूमिः जानुकट्यन्तरं जलम्।
हृत्कट्योरन्तरं तेजः वायुर्नासाहृदन्तरम्॥ 117

विश्वास-प्रस्तुतिः

व्योम नासा-शिरो-मध्यम्
एवं देहे व्यवस्थितः
तस्मात् ततस् ततस् तानि
समुत्थाप्य विलापयेत् ॥ 118

मूलम्

व्योम नासाशिरोमध्यमेवं देहे व्यवस्थितः।
तस्मात्ततस्ततस्तानि समुत्थाप्य विलापयेत् ॥ 118

विश्वास-प्रस्तुतिः

पृथिवीम् अप्सु, ताश् चाग्नौ,
तं वायौ, तं च खे क्रमात्।
तम् अप्य् अहं-कृतौ, ताञ् च
सविकारां महत्य् अपि॥ 119

मूलम्

पृथिवीमप्सु ताश्चाग्नौ तं वायौ तं च खे क्रमात्।
तमप्यहंकृतौ ताञ्च सविकारां महत्यपि॥ 119

विश्वास-प्रस्तुतिः

महान्तं प्रकृतौ, ताञ् च
तमस्य्, एतत् परमात्मनि।
ततो विमुक्तम् आत्मानं
विमुक्तं तत्त्व-पञ्जरात्॥ 120

मूलम्

महान्तं प्रकृतौ ताञ्च तमस्येतत् परमात्मनि।
ततो विमुक्तमात्मानं विमुक्तं तत्त्वपञ्जरात्॥ 120

विश्वास-प्रस्तुतिः

विमुक्तं मेघ-पटलाद्
दिवाकरम् इवोज्ज्वलम्।+++(5)+++
ततः प्रकृति-संसर्गाद्
अनादेर् अशुचेस् ततः॥ 121

मूलम्

विमुक्तं मेघपटलात् दिवाकरमिवोज्ज्वलम्।
ततः प्रकृतिसंसर्गाद् अनादेरशुचेस्ततः॥ 121

अङ्गुष्ठ-प्रवेशः

विश्वास-प्रस्तुतिः

अ-शुद्धं शुद्धतां नेतुं
शुभाश्रय-वशेन तु।
भगवद्-दक्षिणाङ्घ्र्य्-अब्ज-
शुभाङ्गुष्ठं प्रवेशयेत्॥ 122

मूलम्

अशुद्धं शुद्धतां नेतुं शुभाश्रयवशेन तु।
भगवद्दक्षिणाङ्घ्र्यब्जशुभाङ्गुष्ठं प्रवेशयेत्॥ 122

विश्वास-प्रस्तुतिः

तत्-प्रवेशात् परां शुद्धिं
गतं विगत-कल्मषम्
तत आदाय, तद्-वाम-
पादाम्भोजाद् अधो नयेत्॥ 123

मूलम्

तत्प्रवेशात् परां शुद्धिं गतं विगतकल्मषम्।
तत आदाय तद्वामपादाम्भोजादधो नयेत्॥ 123

विश्वास-प्रस्तुतिः

तत एनं तद्-अङ्गुष्ठ-
नख-स्रोतो-विनिस्सृतैः।
दिव्यामृतजलैर् गाङ्गैर्
आत्मानम् अभिषेचयेत्॥ 124

मूलम्

तत एनं तदङ्गुष्ठनखस्रोतोविनिस्सृतैः।
दिव्यामृतजलैर्गाङ्गैः आत्मानमभिषेचयेत्॥ 124

विश्वास-प्रस्तुतिः

तज्-जलं दिव्यम् अमृतं
प्रसादात् परमात्मनः।
अनघं घनतां गत्वा
वपुर् अस्योपजायते॥125

मूलम्

तज्जलं दिव्यममृतं प्रसादात् परमात्मनः।
अनघं घनतां गत्वा वपुरस्योपजायते॥125

सृष्टि-न्यासः

विश्वास-प्रस्तुतिः

तद् एव भूयो विदधत्
पञ्च-शक्तिमयं वपुः।
सृष्टि-क्रमेण विन्यस्य
पञ्चोपनिषदो धिया॥126

मूलम्

तदेव भूयो विदधत् पञ्चशक्तिमयं वपुः।
सृष्टिक्रमेण विन्यस्य पञ्चोपनिषदो धिया॥126

विश्वास-प्रस्तुतिः

मूर्धादि-चरणान्तेषु
स्वकीयाङ्गेषु पञ्चसु।
चिन्तयेच् च पुनश् चैवं
शरीरोत्पत्तिम् आत्मनः॥127

मूलम्

मूर्धादिचरणान्तेषु स्वकीयाङ्गेषु पञ्चसु।
चिन्तयेच्च पुनश्चैवं शरीरोत्पत्तिमात्मनः॥127

विश्वास-प्रस्तुतिः

रजस्-तमोभ्याम् अस्पृष्टा
शुद्ध-सत्त्वमयी शुभा।
प्रकृतिर् जायते दिव्या
परस्माद् ब्रह्मणस् ततः॥128

मूलम्

रजस्तमोभ्यामस्पृष्टा शुद्धसत्त्वमयी शुभा।
प्रकृतिर्जायते दिव्या परस्माद्ब्रह्मणस्ततः॥128

विश्वास-प्रस्तुतिः

महान् सत्त्वमयस् तस्माद्,
अहङ्कारश् च सात्त्विकः।
तस्मात् सत्त्वमयैर् जातैर्
इन्द्रियैर् ज्ञान-हेतुभिः॥129

मूलम्

महान् सत्त्वमयस्तस्माद् अहङ्कारश्च सात्त्विकः।
तस्मात् सत्त्वमयैर्जातैः इन्द्रियैर्ज्ञानहेतुभिः॥129

विश्वास-प्रस्तुतिः

श्रोत्र-त्वग्-रसना-घ्राणैः
कर्माख्यैः पञ्चभिः सह।
पायूपस्थ-पाणि-पाद-
वाग्भिश् च मनसा सह॥130

मूलम्

श्रोत्रत्वग्रसनाघ्राणैः कर्माख्यैः पञ्चभिः सह।
पायूपस्थपाणिपादवाग्भिश्च मनसा सह॥130

विश्वास-प्रस्तुतिः

स्व-वाय्व्-अग्न्य्-अम्बु-भूमीभिः
महाभूतैश् च सात्त्विकैः।
शब्द-स्पर्श-रूप-रस-
गन्धैर् भूत-गुणैर् अपि॥131

मूलम्

स्ववाय्वग्न्यम्बुभूमीभिः महाभूतैश्च सात्त्विकैः।
शब्दस्पर्शरूपरसगन्धैर्भूतगुणैरपि॥131

प्लावनम्

विश्वास-प्रस्तुतिः

एभिश् चतुर्-विंशतिभिः
तत्त्वैर् जातं वपुः स्वकम्।
विष्णु-वाम-पदोद्भूत-
गङ्गया प्लावयेत् ततः॥132

मूलम्

एभिश्चतुर्विंशतिभिः तत्त्वैर्जातं वपुः स्वकम्।
विष्णुवामपदोद्भूतगङ्गया प्लावयेत्ततः॥132