०१ प्रवेशादि

प्रवेशः

विश्वास-प्रस्तुतिः

इज्या-काले तु संप्राप्ते
हृष्टो देव-गृहं गतः
प्रक्षाल्य पादौ पाणी च
समाचम्य स्मरन् हरिम् ॥ 91

मूलम्

इज्याकाले तु संप्राप्ते हृष्टो देवगृहं गतः ।
प्रक्षाल्य पादौ पाणी च समाचम्य स्मरन् हरिम् ॥ 91

विश्वास-प्रस्तुतिः

तत्-क्षेत्राधीशम् अभ्यर्च्य
स्व-मन्त्रेणाच्युतं प्रभुम् ।
देव-पूजा-गृह-द्वारात्
स्थित्वा बहिर् अदूरतः ॥ 92

मूलम्

तत्क्षेत्राधीशमभ्यर्च्य स्वमन्त्रेणाच्युतं प्रभुम् ।
देवपूजागृहद्वारात् स्थित्वा बहिरदूरतः ॥ 92

विश्वास-प्रस्तुतिः

चण्ड-प्रचण्ड-प्रमुखान्
द्वार्-स्थान् तद्-अधिपान् अपि ।
प्रणम्याभ्यर्च्य गन्धाद्यैः
याचित्वा ऽऽत्म-प्रवेशनम् ॥ 93

मूलम्

चण्डप्रचण्डप्रमुखान् द्वार्स्थान् तदधिपानपि ।
प्रणम्याभ्यर्च्य गन्धाद्यैः याचित्वाऽऽत्मप्रवेशनम् ॥ 93

विश्वास-प्रस्तुतिः

दत्ताभ्यनुज्ञस् तैश् चापि
सदयैर् अवलोकनैः ।
प्रविशन् द्वार-पार्श्वस्थः
स्वास्त्र-मन्त्राभिमन्त्रितम् ॥ 94

मूलम्

दत्ताभ्यनुज्ञस्तैश्चापि सदयैरवलोकनैः ।
प्रविशन् द्वारपार्श्वस्थः स्वास्त्रमन्त्राभिमन्त्रितम् ॥ 94

विश्वास-प्रस्तुतिः

पुष्पं देव-गृहस्यान्तः
प्रास्य दक्षिण-पाणिना ।
तद्-भयाद् अपयातेषु
दुष्ट-सत्त्वेषु तद्-गृहात् ॥ 95

मूलम्

पुष्पं देवगृहस्यान्तः प्रास्य दक्षिणपाणिना ।
तद्भयादपयातेषु दुष्टसत्त्वेषु तद्गृहात् ॥ 95

विश्वास-प्रस्तुतिः

प्रथमं दक्षिणं पादं
विन्यस्यान्तः प्रविश्य च ।
प्रणिनंसुः परात्मानं
भक्ति-निघ्नेन चेतसा ॥ 96

मूलम्

प्रथमं दक्षिणं पादं विन्यस्यान्तः प्रविश्य च ।
प्रणिनंसुः परात्मानं भक्तिनिघ्नेन चेतसा ॥ 96

प्रदक्षिण-प्रणामविधिः

विश्वास-प्रस्तुतिः

मनो-बुद्ध्य्-अभिमानेन
सह न्यस्य धरा-तले ।
कूर्मवच् चतुरः पादान्
शिरस् तत्रैव पञ्चमम् ॥ 97

मूलम्

मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ 97

विश्वास-प्रस्तुतिः

प्रदक्षिण-समेतेन
त्व् एवं-रूपेण याजकः ।
अष्टाङ्गेन प्रणामेन
प्रणमेत् पुरुषोत्तमम् ॥ 98

मूलम्

प्रदक्षिणसमेतेन त्वेवंरूपेण याजकः ।
अष्टाङ्गेन प्रणामेन प्रणमेत्पुरुषोत्तमम् ॥ 98

विश्वास-प्रस्तुतिः

ततस्सम्मार्ज्य तं देशं गोमयेनोपलिप्य च ।
साक्षतानि च पुष्पाणि प्रकीर्य च समन्ततः ॥ 99

मूलम्

ततस्सम्मार्ज्य तं देशं गोमयेनोपलिप्य च ।
साक्षतानि च पुष्पाणि प्रकीर्य च समन्ततः ॥ 99

आसन-क्रमः

पूजकस्य

विश्वास-प्रस्तुतिः

धूपयित्वा बहु-विधैः
कर्पूरागुरु-चन्दनैः ।
पुरस्ताद् एव देवस्य
संस्तीर्यासनम् आत्मनः ॥ 100

मूलम्

धूपयित्वा बहुविधैः कर्पूरागुरुचन्दनैः ।
पुरस्तादेव देवस्य संस्तीर्यासनमात्मनः ॥ 100

विश्वास-प्रस्तुतिः

दार्भं काष्ठ-मयं वापि
सास्त्र-च्छोटाभिवीक्षितम्
तत्रैकाग्रं मनः कृत्वा
यत-चित्तेन्द्रिय-क्रियः ॥ 101

मूलम्

दार्भं काष्ठमयं वापि सास्त्रच्छोटाभिवीक्षितम् ।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ॥ 101

विश्वास-प्रस्तुतिः

प्रवेश्योभय-जान्व्-अन्तः
स्वपादाङ्गुष्ठयोर् युगम् ।
दक्षिणोत्तरम् आसीनः
स्वस्तिकेनासनेन तु ॥ 102

मूलम्

प्रवेश्योभयजान्वन्तः स्वपादाङ्गुष्ठयोर्युगम् ।
दक्षिणोत्तरमासीनः स्वस्तिकेनासनेन तु ॥ 102

भगवतः

विश्वास-प्रस्तुतिः

पद्मादिष्व् आसनेष्व् एकम्
अवलम्ब्येच्छयाऽथ वा ।
इति संचिन्तयेत् पूर्वम्
आरिराधयिषुर् हरिम् ॥ 103

मूलम्

पद्मादिष्वासनेष्वेकमवलम्ब्येच्छयाऽथ वा ।
इति संचिन्तयेत् पूर्वम् आरिराधयिषुर्हरिम् ॥ 103

सात्त्विक-त्यागः

विश्वास-प्रस्तुतिः

स्व-सङ्कल्प-पराधीन-
स्व-रूप–स्थिति-वृत्तिना ।
स्व-शेषतैक-रूपेण
स्व-देहेनाऽत्मना ऽमुना ॥ 104

मूलम्

स्वसङ्कल्पपराधीनस्वरूपस्थितिवृत्तिना ।
स्वशेषतैकरूपेण स्वदेहेनाऽत्मनाऽमुना ॥ 104

विश्वास-प्रस्तुतिः

स्वैर् एव करणैः सर्वैः
बुद्धि-कर्मात्मकैर् अपि ।
गन्धादिभिस् तथा द्रव्यैः
स्वकीयैर् एव संप्रति ॥ 105

मूलम्

स्वैरेव करणैः सर्वैः बुद्धिकर्मात्मकैरपि ।
गन्धादिभिस्तथा द्रव्यैः स्वकीयैरेव संप्रति ॥ 105

विश्वास-प्रस्तुतिः

स-पत्नीकं स-सचिवं
स-द्वार-प–गणेश्वरम् ।
स्वयम् एव स्वम् आत्मानम्
अर्चयत्य् अपदिश्य माम् ॥ 106

मूलम्

सपत्नीकं ससचिवं सद्वारपगणेश्वरम् ।
स्वयमेव स्वमात्मानम् अर्चयत्यपदिश्य माम् ॥ 106

विश्वास-प्रस्तुतिः

स्वयैव कृपया देवः
श्री-पतिः पुरुषोत्तमः।
इत्य् एवम् अनुसन्धाय
पुनश् चैवम् अनुस्मरेत् ॥ 107

मूलम्

स्वयैव कृपया देवः श्रीपतिः पुरुषोत्तमः।
इत्येवमनुसन्धाय पुनश्चैवमनुस्मरेत् ॥ 107

विश्वास-प्रस्तुतिः

तत्-प्रेरितस् तदीयश् च
तद्-दत्त-मति-शक्तितः।
तद्-आत्मकस् तद्-आधारः
तत्-प्रीत्यै तत्-पदाश्रितः॥ 108

मूलम्

तत्प्रेरितस्तदीयश्च तद्दत्तमतिशक्तितः।
तदात्मकस्तदाधारः तत्प्रीत्यै तत्पदाश्रितः॥ 108

विश्वास-प्रस्तुतिः

तद्-दत्तैर् एव तद्-द्रव्यैः
तत्-पूजां करवाण्य् अहम्।
संचिन्त्यैवं स्वम् आत्मानं
तत्-क्रिया-योग्यतां नयेत्॥ 109

मूलम्

तद्दत्तैरेव तद्द्रव्यैः तत्पूजां करवाण्यहम्।
संचिन्त्यैवं स्वमात्मानं तत्क्रियायोग्यतां नयेत्॥ 109

विश्वास-प्रस्तुतिः

अनेन विधिना कुर्यान्
नित्यं देहात्म-शोधनम् ।
त्रिर् वाथ पञ्च-कृत्वो वा
प्राणानायम्य सुस्थिरः ॥ 110

मूलम्

अनेन विधिना कुर्यान्नित्यं देहात्मशोधनम् ।
त्रिर्वाथ पञ्चकृत्वो वा प्राणानायम्य सुस्थिरः ॥ 110