विश्वास-प्रस्तुतिः
प्राप्ते चाह्नो द्वितीयांशे
स्वास्त्र-मन्त्रेण धर्मतः ।
आर्जयित्वा ऽर्चना-द्रव्यम्
अशेषञ् च यथोदितम् ॥ 89
मूलम्
प्राप्ते चाह्नो द्वितीयांशे स्वास्त्रमन्त्रेण धर्मतः ।
आर्जयित्वार्चनाद्रव्यम् अशेषञ्च यथोदितम् ॥ 89
विश्वास-प्रस्तुतिः
ततो माध्यन्दिनं कर्म
स्वोचितं श्रुति-चोदितम् ।
स्नानादि-ब्रह्म-यज्ञान्तं
कृत्वा ऽखिलम् अतन्द्रितः ॥ 90
मूलम्
ततो माध्यन्दिनं कर्म स्वोचितं श्रुतिचोदितम् ।
स्नानादिब्रह्मयज्ञान्तं कृत्वाऽखिलमतन्द्रितः ॥ 90