विश्वास-प्रस्तुतिः
कृते निष्कल्मषे शुद्धे
स्वस्मिन् मनसि सुस्थिते ।
लब्धाधिकारे देवस्य
ध्यानार्चन-जपादिषु ॥ 86
मूलम्
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते ।
लब्धाधिकारे देवस्य ध्यानार्चनजपादिषु ॥ 86
विश्वास-प्रस्तुतिः
विनिष्क्रम्याग्नि-शालायाः
गत्वा देव-गृहं स्वकम् ।
अर्चयित्वा परात्मानं
देश-कालाद्य्-अपेक्षया ॥ 87
मूलम्
विनिष्क्रम्याग्निशालायाः गत्वा देवगृहं स्वकम् ।
अर्चयित्वा परात्मानं देशकालाद्यपेक्षया ॥ 87
विश्वास-प्रस्तुतिः
पत्रैः पुष्पैः फलैर् वापि
पूजाकालोक्त-वर्त्मना ।
केवलाञ्जलिना वापि +++(5)+++
विहितेन यथा तथा ॥ 88
मूलम्
पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना ।
केवलाञ्जलिना वापि विहितेन यथा तथा ॥ 88