विश्वास-प्रस्तुतिः
ततः प्रक्षाल्य चरणौ
स्वाचान्तस् सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा
वानप्रस्थोऽथ वा यतिः ॥ 83
मूलम्
ततः प्रक्षाल्य चरणौ स्वाचान्तस्सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ वा यतिः ॥ 83
विश्वास-प्रस्तुतिः
स्व-वर्ण-स्वाश्रमार्हेण
विधिना श्रद्धया ऽन्वितः ।
समिद्-आज्यादिभिर् द्रव्यैः
मन्त्रैर् अपि यथोदितैः ॥ 84
मूलम्
स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वितः ।
समिदाज्यादिभिर्द्रव्यैः मन्त्रैरपि यथोदितैः ॥ 84
विश्वास-प्रस्तुतिः
हुत्वाग्नीन् अग्निहोत्रादौ
उक्तं कालम् अपि क्षिपन् ।
पराराधन-रूपेण
कृतेनैव स्वकर्मणा ॥ 85 +++(5)+++
मूलम्
हुत्वाग्नीन् अग्निहोत्रादौ उक्तं कालमपि क्षिपन् ।
पराराधनरूपेण कृतेनैव स्वकर्मणा ॥ 85