विश्वास-प्रस्तुतिः
आवाहिताश् च गङ्गाद्याः
तत्-तन्-मन्त्र-गणं तथा ।
अनुज्ञाप्य समारोप्य
स्वात्मन्य् एव समाहितः ॥ 80
मूलम्
आवाहिताश्च गङ्गाद्याः तत्तन्मन्त्रगणं तथा ।
अनुज्ञाप्य समारोप्य स्वात्मन्येव समाहितः ॥ 80
विश्वास-प्रस्तुतिः
ततः कुम्भं समादाय
शुचिना ऽऽपूर्य वारिणा ।
हरेर् आराधनार्थाय
मौनी नियत-मानसः ॥ 81
मूलम्
ततः कुम्भं समादाय शुचिनाऽऽपूर्य वारिणा ।
हरेराधनार्थाय मौनी नियतमानसः ॥ 81
विश्वास-प्रस्तुतिः
पाषाण्डावेक्षणादीनि
वर्जयन् यत्नतः पथि ।
ध्यायन् नारायणं देवं
याग-भूमिं समाचरेत् ॥ 82
मूलम्
पाषाण्डावेक्षणादीनि वर्जयन् यत्नतः पथि ।
ध्यायन् नारायणं देवं यागभूमिं समाचरेत् ॥ 82