०३ तर्पण-सन्ध्योपासनादि

देव-पितृ-ऋषि-तर्पणान्तम्

विश्वास-प्रस्तुतिः

धृतोर्ध्व-पुण्ड्रो देव-र्षीन्
पितॄन् सन्तर्प्य मन्त्रतः ।

मूलम्

धृतोर्ध्वपुण्ड्रो देवर्षीन् पितॄन् सन्तर्प्य मन्त्रतः ।

सन्ध्या-वन्दनम्

विश्वास-प्रस्तुतिः

प्रयतः परया भक्त्या
स्व-कर्माराध्यम् अच्युतम् ॥ 73
आदित्य-मण्डलान्त-स्थं
प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां
सन्ध्येति परिकीर्तितम् ॥ 74

मूलम्

प्रयतः परया भक्त्या स्वकर्माराध्यमच्युतम् ॥ 73
आदित्यमण्डलान्तस्थं प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् ॥ 74

विश्वास-प्रस्तुतिः

श्रुति-स्मृत्य्-उदितं कर्म
स्व-वर्ण-स्वाश्रमोचितम् ।
फलाभिसन्धि-रहितं
पर-ब्रह्मार्चनात्मकम् ॥ 75

मूलम्

श्रुतिस्मृत्युदितं सर्वं स्ववर्णस्वाश्रमोचितम् ।
फलाभिसन्धिरहितं परब्रह्मार्चनात्मकम् ॥ 75

विश्वास-प्रस्तुतिः

न्यस्य कर्तृत्व-भोक्तृत्वे
स्वामित्वं च परात्मनि ।
नित्य-नैमित्तिकैः काम्यैः
कर्मभिश् च समन्वितः ॥ 76 +++(5)+++

मूलम्

न्यस्य कर्तृत्वभोक्तृत्वे स्वामित्वं च परात्मनि ।
नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितः ॥ 76

विश्वास-प्रस्तुतिः

गायत्री-जप-पर्यन्तं
मन्त्राचमन-पूर्वकम् ।
सान्ध्यं कर्माखिलं साधु
समाप्य च यथाविधि ॥ 77

मूलम्

गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् ।
सान्ध्यं कर्माखिलं साधु समाप्य च यथाविधि ॥ 77

विश्वास-प्रस्तुतिः

ततः स्व-कर्म-भोक्तारम्
आदित्यान्तर्-अवस्थितम् ।
उपस्थाय स्वकैर् मन्त्रैर्
नारायणम् अतन्द्रितः ॥ 78 +++(4)+++

मूलम्

ततः स्वकर्मभोक्तारम् आदित्यान्तरवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैः नारायणमतन्द्रितः ॥ 78

आधार-शक्त्यादि-तर्पणादि

विश्वास-प्रस्तुतिः

तत आधार-शक्त्य्-आदींस्
तर्पयित्वा स्वनामभिः ।
नमोऽन्तैः प्रणवोपेतैर्
निष्पीड्य स्नान-शाटिकाम् ॥ 79

मूलम्

तत आधारशक्त्यादीन् तर्पयित्वा स्वनामभिः ।
नमोन्तैः प्रणवोपेतैः निष्पीड्य स्नानशाटिकाम् ॥ 79