तीर्थ-प्राप्तिः
विश्वास-प्रस्तुतिः
ततो भू-धर-मन्त्रेण
न्यस्य वाम-पदं भुवि ।
गृहीत-स्नान-संभारो
निष्क्रम्य भवनात् स्वकात् ॥ 47
मूलम्
ततो भूधरमन्त्रेण न्यस्य वामपदं भुवि ।
गृहीतस्नानसंभारः निष्क्रम्य भवनात् स्वकात् ॥ 47
विश्वास-प्रस्तुतिः
द्वि-त्रेषु-पात-प्रमिताम्
अतिक्रम्य भुवं बहिः ।
विण्-मूत्रादि विसृज्याथ
कृत्वा शौचं च शास्त्रतः ॥ 48
मूलम्
द्वित्रेषुपातप्रमिताम् अतिक्रम्य भुवं बहिः ।
विण्मूत्रादि विसृज्याथ कृत्वा शौचं च शास्त्रतः ॥ 48
तीर-संशोधनादि
विश्वास-प्रस्तुतिः
ततस् तीर्थं समाश्रित्य
शुद्धं भागवताश्रितम् ।
निरस्याशुचि-वस्त्रादि
तीरं संशोध्य वारिभिः ॥ 49
मूलम्
ततस्तीर्थं समाश्रित्य शुद्धं भागवताश्रितम् ।
निरस्याशुचिवस्त्रादि तीरं संशोध्य वारिभिः ॥ 49
विश्वास-प्रस्तुतिः
क्षालिताङ्घ्रि-करो मृद्भिः
वारिभिश् च यथा-क्रमम् ।
समाचम्य यथा-शास्त्रं
कृत्वा दन्त-विशोधनम् ॥ 50
मूलम्
क्षालिताङ्घ्रिकरो मृद्भिः वारिभिश्च यथाक्रमम् ।
समाचम्य यथाशास्त्रं कृत्वा दन्तविशोधनम् ॥ 50
मृद्-ग्रहादि
विश्वास-प्रस्तुतिः
समाचम्य शुचौ देशे
गृह्णीयात् स्नान-मृत्तिकाम् ।
अस्त्राभिमृष्टैः काष्ठाद्यैः
स्व-मन्त्रेणैव वाग्-यतः ॥ 51
मूलम्
समाचम्य शुचौ देशे गृह्णीयात् स्नानमृत्तिकाम् ।
अस्त्राभिमृष्टैः काष्ठाद्यैः स्वमन्त्रेणैव वाग्यतः ॥ 51
विश्वास-प्रस्तुतिः
तां विभज्य द्विधा तीरे
न्यस्याद्य्-आर्धं मृदोस् तयोः ।
भागेनैकेन महता
देहं प्रक्षाल्य सर्वतः ॥ 52
मूलम्
तां विभज्य द्विधा तीरे न्यस्याद्यार्धं मृदोस्तयोः ।
भागेनैकेन महता देहं प्रक्षाल्य सर्वतः ॥ 52
द्वितीय-मृत्-पिण्ड-विनियोगः
विश्वास-प्रस्तुतिः
ततो जलं प्रविश्य त्रिर्
निमज्ज्योत्तीर्य संयतः ।
आसीनः शोधिते तीरे
समाचम्य यथाविधि ॥ 53
मूलम्
ततो जलं प्रविश्य त्रिः निमज्ज्योत्तीर्य संयतः ।
आसीनः शोधिते तीरे समाचम्य यथाविधि ॥ 53
विश्वास-प्रस्तुतिः
अन्यं मृद्-भागम् आदाय
न्यसेद् दक्षिण-पाणिना ।
वाम-पाणि-तलस्यादौ
मध्येऽन्ते च समन्त्रकम् ॥ 54
मूलम्
अन्यं मृद्भागमादाय न्यसेद्दक्षिणपाणिना ।
वामपाणितलस्यादौ मध्येऽन्ते च समन्त्रकम् ॥ 54
विश्वास-प्रस्तुतिः
तत आदिम-मृद्-भागम्
अन्तर् वारिणि निक्षिपेत् ।
पीठार्थम् आगमिष्यन्त्याः
गङ्गायाः, स्नातुम् आत्मनः ॥ 55
मूलम्
तत आदिममृद्भागम् अन्तर्वारिणि निक्षिपेत् ।
पीठार्थमागमिष्यन्त्याः गङ्गायाः स्नातुमात्मनः ॥ 55
विश्वास-प्रस्तुतिः
मध्यस्थेन मृद् अंशेन
बध्नीयात् सकला दिशः ।
साङ्गुष्ठ-तर्जन्या ऽस्त्रेण
स्नान-विघ्न-करान् क्षिपेत् ॥ 56
मूलम्
मध्यस्थेन मृदंशेन बध्नीयात् सकला दिशः ।
साङ्गुष्ठतर्जन्याऽस्त्रेण स्नानविघ्नकरान् क्षिपेत् ॥ 56
विश्वास-प्रस्तुतिः
पश्चाद् अग्रिम-भागेन
स्व-गात्रम् अनुलिप्य च ।
स्व-मन्त्रेणैव पाणिभ्यां
प्रविशेच् च जलं ततः ॥ 57
मूलम्
पश्चादग्रिमभागेन स्वगात्रमनुलिप्य च ।
स्वमन्त्रेणैव पाणिभ्यां प्रविशेच्च जलं ततः ॥ 57
गङ्गावाहनादि
विश्वास-प्रस्तुतिः
पाणिभ्यां जलम् आदाय
तीर्थायार्घ्य-प्रदित्सया ।
तिष्ठन्न् आवाहयेद् गङ्गां
सर्व-तीर्थ-समन्विताम् ॥ 58
मूलम्
पाणिभ्यां जलमादाय तीर्थायार्घ्यप्रदित्सया ।
तिष्ठन्नावाहयेद्गङ्गां सर्वतीर्थसमन्विताम् ॥ 58
विश्वास-प्रस्तुतिः
आवाहयामि त्वां देवि
स्नानार्थम् इह सुन्दरि ।
एहि गङ्गे नमस् तुभ्यं
सर्व-तीर्थ-समन्विते ॥ 59
मूलम्
आवाहयामि त्वां देवि स्नानार्थम् इह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ 59
विश्वास-प्रस्तुतिः
विष्णु-वाम-पदाङ्गुष्ठ-
नख-स्रोतो-विनिस्सृते ।
तद्-भक्ति-विघ्न-रूपात् त्वं
गङ्गे मां मोचयैनसः ॥ 60
मूलम्
विष्णुवामपदाङ्गुष्ठनखस्रोतोविनिस्सृते ।
तद्भक्तिविघ्नरूपात् त्वं गङ्गे मां मोचयैनसः ॥ 60
विश्वास-प्रस्तुतिः
एवम् उच्चार्य दत्वा ऽर्घ्यं
गङ्गायै सुर-सिन्धवे ।
मूलम्
एवमुच्चार्य दत्वार्घ्यं गङ्गायै सुरसिन्धवे ।
आत्मसेकादि
विश्वास-प्रस्तुतिः
तोयम् आदाय पाणिभ्यां
त्रिर् मन्त्रेणाभिमन्त्र्य तत् …॥ 61
त्रिः पञ्च-कृत्वो वा तेन
सिञ्चेन् मूर्धानम् आत्मनः ।
ततो दक्षिण-हस्तेन
समादाय जलं शुचि ॥ 62
मूलम्
तोयमादाय पाणिभ्यां त्रिर्मन्त्रेणाभिमन्त्र्य तत् ॥ 61
त्रिः पञ्चकृत्वो वा तेन सिञ्चेन्मूर्धानमात्मनः ।
ततो दक्षिणहस्तेन समादाय जलं शुचि ॥ 62
विश्वास-प्रस्तुतिः
त्रिर् वाथ पञ्चकृत्वो वा
स्व-मन्त्रेणाभिमन्त्र्य तत् ।
पीत्वा पुनस् समाचम्य
प्रोक्षयेद् आत्मनस् तनुम् ॥ 63
मूलम्
त्रिर्वाथ पञ्चकृत्वो वा स्वमन्त्रेणाभिमन्त्र्य तत् ।
पीत्वा पुनस्समाचम्य प्रोक्षयेदात्मनस्तनुम् ॥ 63
निमज्जनम्
विश्वास-प्रस्तुतिः
स्वेन मन्त्रेण तद्-अनु
निमग्नस् तज्-जले चिरम् ।
निधायाधः स्वम् आत्मानं
पादयोः परमात्मनः ॥ 64
मूलम्
स्वेन मन्त्रेण तदनु निमग्नस्तज्जले चिरम् ।
निधायाधः स्वमात्मानं पादयोः परमात्मनः ॥ 64
विश्वास-प्रस्तुतिः
भोगि-भोगासन-स्थस्य
ध्यातस्याथ जगद्-विभोः ।
भक्ति-निघ्नेन मनसा
स्वकं मन्त्रम् अनुस्मरन् ॥ 65
मूलम्
भोगिभोगासनस्थस्य ध्यातस्याथ जगद्विभोः ।
भक्तिनिघ्नेन मनसा स्वकं मन्त्रमनुस्मरन् ॥ 65
सूर्यवन्दनादि
विश्वास-प्रस्तुतिः
यावच्-छक्ति निमग्नोऽथ
समुन्मज्ज्य जलात् ततः ।
आदित्य-मण्डलान्त-स्थं
हरिं ध्यात्वाऽभिवीक्ष्य च ॥ 66
मूलम्
यावच्छक्ति निमग्नोऽथ समुन्मज्ज्य जलात्ततः ।
आदित्यमण्डलान्तस्थं हरिं ध्यात्वाऽभिवीक्ष्य च ॥ 66
विश्वास-प्रस्तुतिः
उत्तीर्याचम्य तीरस्थो
वासो विपरिवर्त्य च ।
स्नान-शाटीम् अ-निष्पीड्य
विनिक्षिप्य स्वपार्श्वतः ॥ 67
मूलम्
उत्तीर्याचम्य तीरस्थो वासो विपरिवर्त्य च ।
स्नानशाटीमनिष्पीड्य विनिक्षिप्य स्वपार्श्वतः ॥ 67
मन्त्र-स्नानम्
विश्वास-प्रस्तुतिः
आसीनः पुनर् अप्य् एवं
मन्त्र-स्नानं समाचरेत् ।
जपन् पवित्रं मन्त्रं स्वं
प्राणायाम-समन्वितम् ॥ 68
द्राविडम्
मीण्डुम् उट्कार्न्दवनाय्, प्राणायामम् सॆय्दु कॊण्डे सुत्तिगरमान तन् मन्द्रत्तै जबिक् वेण्डुम्. इदे मन्द्र स्नानम्; इदैच् चॆय्वदु?
मूलम्
आसीनः पुनरप्येवं मन्त्रस्नानं समाचरेत् ।
जपन्पवित्रं मन्त्रं स्वं प्राणायामसमन्वितम् ॥ 68
विश्वास-प्रस्तुतिः
असङ्ख्येयाशुचि-स्पर्श-
दूषितैर् बाह्य-वारिभिः ।
स्नातस्यापि भवेद् एतत्
स्नानम् अन्यस्य किं पुनः ॥ 69
मूलम्
असङ्ख्येयाशुचिस्पर्शदूषितैर्बाह्यवारिभिः ।
स्नातस्यापि भवेदेतत् स्नानमन्यस्य किं पुनः ॥ 69
ध्यान-स्नानम्
विश्वास-प्रस्तुतिः
ध्यान-स्नानं ततः कुर्यात्
+++(जल-मन्त्र-स्नानाभ्यां)+++ द्वाभ्याम् अपि परन् तु यत् ।
ख-स्थितं पुण्डरीकाक्षं
+++(अष्टाक्षर-)+++मन्त्र-मूर्तिं हरिं प्रभुम् ॥ 70
द्राविडम्
अन्द इरण्डु स्नानङ्गळुक्कुप् पिऱगु ध्यानम् आगिऱ स्नानत्तैच् चॆय्दु,
अदु अवट्रिनुम् मेम्बट्टदु.
अदावदु-
आगायत्तिल् इरुक्किण्ड्रवन् आगवुम्
अष्टाक्षर मूर्त्तियागव् उम्
सॆन्-तामरैक् कण्णन् आय् प्रभुव् आन भगवानै स्मरित्तु-
मूलम्
ध्यानस्नानं ततः कुर्यात् द्वाभ्याम् अपि परन्तु यत् ।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं हरिं प्रभुम् ॥ 70
विश्वास-प्रस्तुतिः
स्मरेत् पादोद-जां धारां
पतन्तीं स्वस्य मूर्धनि ।
चिन्तयेत् ब्रह्म-रन्ध्रेण
प्रविशन्तीं स्विकां तनूम् ॥ 71
द्राविडम्
अवन् तिरुवडित् तामरैयिनिण्ड्रुम् प्रवाहम् उण् डागित्तन् सिरस्सिल् विऴुगिऱदागवुम् अदु सिरस्सिलुळ्ळ प्रुम्मरन्द्रम् वऴियागत् तन् सरीरत्तिऱ्कुळ् पुगुवदागवुम् सिन्दिप्पदु.
मूलम्
स्मरेत्पादोदजां धारां पतन्तीं स्वस्य मूर्धनि ।
चिन्तयेत् ब्रह्मरन्ध्रेण प्रविशन्तीं स्विकां तनूम् ॥ 71
विश्वास-प्रस्तुतिः
तया संक्षालयेत् सर्वम्
अन्तर्-बाह्य-गतं मलम् ।
तत्-क्षणाद् विरजा मन्त्री
जातः स्फटिक-सन्निभः ॥ 72
द्राविडम्
अन्द धारैयिनाल्
उळ्ळे इरुक्किऱदुम्, वॆळियिल् उळ्ळदुम् आन
अऴुक्कैय् ऎल्लाम्
अलम्बुवद् आग निनैप्पदु
अदे क्षणत्तिल् अऴुक्कट्रवनाय् (रजोगुणमट्रवनाय्)
स्फटिकत्तिऱ्कु ईड् आन पळबळप्पै अडैन्दवन् आगिऱान्.
(अन्तर्गतं बाह्यम् ऎन अन्वयम्)
विश्वास-टिप्पनी
जयाख्यसंहितायां, हरिभक्तिविलासे, नारदीयपुराणे, वसिष्ठसंहितायां, मेरुतन्त्रे च - “तत्क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः ।” इति पाठो दृश्यते। पुनर् अन्यत्र “तत्क्षणाद्विरजो भूत्वा जायते स्फटिकोपमः” इति।
मूलम्
तया संक्षालयेत्सर्वम् अन्तर्बाह्यगतं मलम् ।
तत्क्षणात् विरजा मन्त्रैः जातः स्फटिकसन्निभः ॥ 72