रूप-स्मरणम्
विश्वास-प्रस्तुतिः
इति संप्रार्थ्य तत्-सिद्ध्यै
संस्मरेत् प्रथमं हरिम् ।
भोगि-भोगासनासीनं
श्रिया भूम्या च संयुतम् ॥ 40
मूलम्
इति संप्रार्थ्य तत्सिद्ध्यै संस्मरेत् प्रथमं हरिम् ।
भोगिभोगासनासीनं श्रिया भूम्या च संयुतम् ॥ 40
विश्वास-प्रस्तुतिः
चतुर्-बाहुम् उदाराङ्गं
चक्राद्य्-आयुध-भूषणम् ।
पीते वसानं वसने
चारु-पद्मावतंसकम् ॥ 41
मूलम्
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ।
पीते वसानं वसने चारुपद्मावतंसकम् ॥ 41
विश्वास-प्रस्तुतिः
किरीट-हार-केयूर-
कटकादि-विभूषितम् ।
शक्र-चाप–तडिन्-माला-
विचित्रम् इव तोयदम् ॥ 42 +++(5)+++
मूलम्
किरीटहारकेयूरकटकादिविभूषितम् ।
शक्रचापतटिन्मालाविचित्रमिव तोयदम् ॥ 42
विश्वास-प्रस्तुतिः
सेवितं सूरिभिर् नित्यैः
शेष-शेषाशनादिभिः ।
परस्मिन् व्योम्नि सचिवैर्
अन्यैः पारिषदैरपि ॥ 43
मूलम्
सेवितं सूरिभिर्नित्यैः शेषशेषाशनादिभिः ।
परस्मिन् व्योम्नि सचिवैः अन्यैः पारिषदैरपि ॥ 43
नाम-कीर्तनम्
विश्वास-प्रस्तुतिः
एवम् एव सुसङ्कल्प-
सिद्ध्य्-उपायतया श्रितः ।
चिकीर्षन्न् ईप्सितं कर्म,
तन्-नामान्य् अनुकीर्तयेत् ॥ 44
मूलम्
एवमेव सुसङ्कल्पसिध्युपायतया श्रितः ।
चिकीर्षन्नीप्सितं कर्म तन्नामान्यनुकीर्तयेत् ॥ 44
विश्वास-प्रस्तुतिः
चतुर्भिर् वासु-देवाद्यैः
नामभिस् सह संयुतम् ।
जपेत् द्वादश नामानि
केशवादीनि चादरात् ॥ 45
मूलम्
चतुर्भिर्वासुदेवाद्यैः नामभिस्सह संयुतम् ।
जपेत् द्वादश नामानि केशवादीनि चादरात् ॥ 45
विश्वास-प्रस्तुतिः
दशावतार-नामानि
मत्स्य-कूर्मादिकान्य् अपि ।
जपन्न् उत्थाय शयनाद्
अर्चयिष्यन् सदा हरिम् ॥ 46
मूलम्
दशावतारनामानि मत्स्यकूर्मादिकान्यपि ।
जपन्नुत्थाय शयनाद् अर्चयिष्यन् सदा हरिम् ॥ 46