विश्वास-प्रस्तुतिः
एतत्-क्रिया-विरोधीनि
प्राचीनान्य् अशुभानि मे ।
कर्माण्य् अनन्तान्य् अच्छेद्यान्य्
अनादीन्य् अशुचीन्यपि ॥ 37
मूलम्
एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥ 37
विश्वास-प्रस्तुतिः
स्वयैव कृपया देवो
विनाश्य +अस्मन्-मनोरथान् ।
पूरयत्व् इति संप्रार्थ्य
मन्त्रम् एतम् उदीरयेत् ॥ 38
मूलम्
स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् ।
पूरयत्विति संप्रार्थ्य मन्त्रमेतमुदीरयेत् ॥ 38
विश्वास-प्रस्तुतिः
त्वय्य् आराधन-कामोऽयं
व्रतं चरितुम् इच्छति ।
सङ्कल्प-सिद्ध्यै भगवन्
पूरयास्य मनोरथान् ॥ 39
मूलम्
त्वय्याराधनकामोऽयं व्रतं चरितुमिच्छति ।
सङ्कल्पसिद्ध्यै भगवन् पूरयास्य मनोरथान् ॥ 39