०३ पाञ्चकालिक-क्रिया-संकल्पः

विश्वास-प्रस्तुतिः

इत ऊर्ध्वम् अहं तावत्
यावज् जीवं श्रियःश्रियः ।
पदयोर् अर्चनं कर्तुं
यतमानस् समाहितः ॥ 33

मूलम्

इत ऊर्ध्वमहं तावत् यावज्जीवं श्रियःश्रियः ।
पदयोरर्चनं कर्तुं यतमानस्समाहितः ॥ 33

आह्निकार्थप्रकाशिका

सात्त्विकधृत्यालम्बनप्रकारम् आह - इत ऊर्ध्वम् इत्यादिना।

तदुक्तं +++(वेदान्तदेशिकेन पाञ्चरात्ररक्षायां नित्यव्याख्याने)+++

तस्मिन्न् एव शयने समासीनः

इत्यारभ्य

नियतेन्द्रियस् समाहितो
ऽतिक्रान्तम् अनन्तं कालं निरर्थकम् अवलोक्य
निर्वेदं परं गच्छेत् -
निर्वेदप्रकाराश्च विविधास् तत्-तत्-संहिताविशेषेष्व् अनुसन्धेयाः ।

तदित्थं सङ्गृहीतं नारायणमुनिभिः -

ब्राह्मे मुहूर्ते सत्त्वस्थो
हरिर्हरिरिति ब्रुवन् ।
उत्थाय शयने तत्र
समासीनस् समाहितः ॥
व्यर्थं वीक्ष्य गतं कालं
निर्विद्याहम् इतः परम् ।

इति। विस्तरेणोद्धृतं चैतद्वङ्गिवंशेश्वरैः

इत्यादि,

यद्यपि मुमुक्षोः

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान् - नास्त्यकृतः कृतेन, तद्विज्ञानार्थं स गुरुम् एवाभिगच्छेत्
+++(मुण्डके-१-२-१२)+++

इति प्राथमिक-गुरूपसत्ति-कालात् पूर्वम् एव
तृणीकृत-हिरण्य-गर्भादि-भोगः
परिपूर्णो निर्वेदस् संवृत्तः
तथापि विषम-विपाक-विशेष-गुण-त्रयाश्रय-भूत-
प्रकृति-सम्बद्धतया
सम्भावित-विषय-सङ्गादि-दोष-परिहाराय
तथाविध एव निर्वेदो ऽनुवर्तनीयः

अगीयत चास्य नित्यानुवर्तनीयत्वं - अमानित्वादि-गुण-गण-मध्ये -

जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषाऽनुदर्शनम्

इति।
अतः सिद्धोपायस्यापि
पराङ्कुश-परकालादीनाम् इव
भगवद्-अनुभव-च्छेदकतया
हेयतम-रजस्-तमोमय-निद्रादि-प्रतिकूल-वर्ग-प्रवाहानुवृत्ति-दर्शनेन
संसार-वैराग्योपचर्यार्थम्
अहर्-अहस् तद्-उचितावसरेषु
निर्वेदः कर्तव्य एव ।

एवं सति विवेक-विमोकादि-
सप्तकान्यतम-भूतानवसाद-विरुद्धावसाद-वशाद्
उत्तर-कैङ्कर्य-प्रवृत्तेर् अनिष्पत्तिः स्याद् इति
तत्-परिहारायानन्तरम् उच्यते -

इति निर्विद्य तदनु
धृतिमालम्ब्य सात्त्विकीम् ।
विधूय चेमं निर्वेदं
सर्वकार्यावसादकम् ॥

इत्यादिना गत-जल-सेतु-बन्धनाभिलाष-तुल्यानुताप-प्रशमन-पूर्वकं
सात्त्विक-धृत्य्-अवलम्बनात्मकागामि-काल-शक्य-कैङ्कर्य-निश्चयः ।

इत्यादि ।

विश्वास-प्रस्तुतिः

अभिगच्छन् हरिं प्रातः
पश्चाद् द्रव्याणि चार्जयन्
अर्चयंश् च ततो देवं
ततो मन्त्रान् जपन्न् अपि ॥ 34

मूलम्

अभिगच्छन् हरिं प्रातः पश्चात् द्रव्याणि चार्जयन् ।
अर्चयंश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥ 34

विश्वास-प्रस्तुतिः

ध्यायन्न् अपि परं देवं
कालेषूक्तेषु पंचसु ।
वर्तमानस् सदा चैवं
पाञ्चकालिक वर्त्मना ॥ 35

मूलम्

ध्यायन्नपि परं देवं कालेषूक्तेषु पंचसु ।
वर्तमानस्सदा चैवं पाञ्चकालिक वर्त्मना ॥ 35

विश्वास-प्रस्तुतिः

स्वार्जितैः गन्धपुष्पाद्यैः
शुभैः शक्त्य्-अनुरूपतः ।
आराधयन् हरिं भक्त्या
गमयिष्यामि वासरान् ॥ 36

मूलम्

स्वार्जितैः गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः ।
आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् ॥ 36