विश्वास-प्रस्तुतिः
इति निर्विद्य तद्-अनु
धृतिम् आलम्ब्य सात्त्विकीम् ।
विधूय चेमं निर्वेदं
सर्व कार्यावसादकम् ॥ 29
मूलम्
इति निर्विद्य तदनु धृतिमालम्ब्य सात्त्विकीम् ।
विधूय चेमं निर्वेदं सर्व कार्यावसादकम् ॥ 29
विश्वास-प्रस्तुतिः
उद्धरिष्यन् स्वम् आत्मानं
मज्जन्तं भव-सागरे ।
पुनर् निश्चिनुयाद् एवं
स्थिर-धीः स्वार्थ-सिद्धये ॥ 30
मूलम्
उद्धरिष्यन् स्वमात्मानं मज्जन्तं भवसागरे ।
पुनर्निश्चिनुयादेवं स्थिरधीः स्वार्थसिद्धये ॥ 30
विश्वास-प्रस्तुतिः
गतम् एव गतं जन्म
का नु तत्र प्रतिक्रिया ।
प्रवहत्य् एव हि जले
सेतुः कार्यो विजानता ॥ 31 +++(5)+++
मूलम्
गतमेव गतं जन्म का नु तत्र प्रतिक्रिया ।
प्रवहत्येव हि जले सेतुः कार्यो विजानता ॥ 31
विश्वास-प्रस्तुतिः
इदानीं कर्तुम् एतावत्
शक्यं काले गते सति ।
मयाऽऽत्महित-कामेन
बिभ्यता भव-सागरात् ॥ 32
मूलम्
इदानीं कर्तुमेतावत् शक्यं काले गते सति (/ऽहनि) ।
मयाऽऽत्महितकामेन बिभ्यता भवसागरात् ॥ 32