वयश्-चिन्तनम्
विश्वास-प्रस्तुतिः
उत्थाय शयने तस्मिन्न्
आसीनो नियतेन्द्रियः ।
त्रस्त-निर्विण्ण-हृदयो
व्यर्थं वीक्ष्य गतं वयः ॥
मूलम्
उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः ।
त्रस्तनिर्विण्णहृदयो व्यर्थं वीक्ष्य गतं वयः ॥ 3
विश्वास-प्रस्तुतिः
ताप-त्रयेण चाक्रान्तः
तीव्रेणाध्यात्मिकादिना ।
दाव-जेनाग्निना ऽऽलीढो
भ्राम्यन्न् इव वने मृगः ॥ 4
मूलम्
तापत्रयेण चाक्रान्तः तीव्रेणाध्यात्मिकादिना ।
दावजेनाग्निनाऽऽलीढो भ्राम्यन्निव वने मृगः ॥ 4
विश्वास-प्रस्तुतिः
संसार-वागुरान्त-स्थो
लूनपक्ष इवाण्डजः ।
अपश्यन् निर्गमोपायम्
आगामिष्व् अपि जन्मसु ॥ 5
मूलम्
संसारवागुरान्तस्थो लूनपक्ष इवाण्डजः ।
अपश्यन्निर्गमोपायम् आगामिष्वपि जन्मसु ॥ 5
विश्वास-प्रस्तुतिः
अकार्यैर् अतिबीभत्सैः
क्रियमाणैः कृतैर् अपि ।
लज्जितश् च विषण्णश् च
स्मर्यमाणैस् स्व-कर्मभिः ॥ 6
मूलम्
अकार्यैरतिबीभत्सैः क्रियमाणैः कृतैरपि ।
लज्जितश्च विषण्णश्च स्मर्यमाणैस्स्वकर्मभिः ॥ 6
विश्वास-प्रस्तुतिः
अविनीतम् अशिक्षार्हम्
असद्गुण-गणाकरम् ।
अवधार्य स्वम् आत्मानम्
अचिकित्स्याशुभाश्रयम् ॥ 7
मूलम्
अविनीतमशिक्षार्हम् असद्गुणगणाकरम् ।
अवधार्य स्वमात्मानम् अचिकित्स्याशुभाश्रयम् (/ अचिदाद्यशुभाश्रयम्) ॥ 7
विश्वास-प्रस्तुतिः
दह्यमानेन्धनान्तस्थः
विस्फुटन्न् इव कीटकः ।
अलब्ध-निर्गमस् तिष्ठन्
मध्ये मरण-जन्मनोः ॥ 8 +++(5)+++
मूलम्
दह्यमानेन्धनान्तस्थः विस्फुटन्निव कीटकः ।
अलब्धनिर्गमस्तिष्ठन् मध्ये मरणजन्मनोः ॥ 8
दह्यमानेन्धनान्तस्थः विस्फुरन्निव कीटकः ।
अलब्धनिर्गमस्तिष्ठन् मध्ये मरणजन्मनोः ॥ 8
विश्वास-प्रस्तुतिः
विह्वलश्च विषण्णश्च
विमृशन् स्वामिमाम् दशाम् ।
चिन्तयेत् प्रथमं चैवम्
आचरन् हितमात्मनः ॥ 9
मूलम्
विह्वलश्च विषण्णश्च विमृशन् स्वामिमाम् दशाम् ।
चिन्तयेत् प्रथमं चैवम् आचरन् हितमात्मनः ॥ 9
जन्म-सन्तति-विवरणम्
विश्वास-प्रस्तुतिः
संसार-चक्रम् आरोप्य
बलिभिः कर्म-रज्जुभिः ।
कालेनाऽऽकृष्यमाणस्य
जङ्गम-स्थावरात्मनः ॥ 10
मूलम्
संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः ।
कालेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः ॥ 10
विश्वास-प्रस्तुतिः
अहो मे महती याता
निष्फला जन्म-सन्ततिः ।
अनाराधित-गोविन्द-
चरणाम्भो-रुह-द्वया ॥ 11 +++(4)+++
मूलम्
अहो मे महती याता निष्फला जन्मसन्ततिः ।
अनाराधितगोविन्दचरणाम्भोरुहद्वया ॥ 11
विश्वास-प्रस्तुतिः
अनास्वादित-सत्कर्म-
ज्ञान-भक्ति-सुधा-रसा ।
अदृष्टानन्त-संसार-
सागरोत्तारण-प्लवा ॥ 12
मूलम्
अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा ।
अदृष्टानन्तसंसारसागरोत्तारणप्लवा ॥ 12
विश्वास-प्रस्तुतिः
श्रुति-स्मृत्य्-उदिताशेष-
सदाचार-पराङ्मुखी ।
अनुपासित-सद्-वृद्धा
स्वीकृतासत्-समागमा ॥ 13
मूलम्
श्रुतिस्मृत्युदिताशेषसदाचारपराङ्मुखी ।
अनुपासितसद्वृद्धा स्वीकृतासत्समागमा ॥ 13
विश्वास-प्रस्तुतिः
असंपादित-शुश्रूषा
गुर्व्-आचार्य-पितृष्व् अपि ।
त्यक्त-वर्णाश्रमाचारा
भ्रष्टा वैदिक-वर्त्मनः ॥ 14
मूलम्
असंपादितशुश्रूषा गुर्वाचार्यपितृष्वपि ।
त्यक्तवर्णाश्रमाचारा भ्रष्टा वैदिकवर्त्मनः ॥ 14
विश्वास-प्रस्तुतिः
निज-कर्म-ज-देवादि-
देहाध्यस्तात्म-भावना ।
तद्-भावनानुगोद्भूत-
सुख-दुःख-व्यवस्थितिः ॥ 15 +++(4)+++
मूलम्
निजकर्मजदेवादिदेहाध्यस्तात्मभावना ।
तद्भावनानुगोद्भूतसुखदुःखव्यवस्थितिः ॥ 15
विश्वास-प्रस्तुतिः
अनुद्भूत-स्वयाथात्म्य-
ज्ञान-जोत्तम-निर्वृतिः ।
पशुवत् प्राकृतैर् एव
गुणैर् अधिक-निर्वृता ॥ 16
मूलम्
अनुद्भूतस्वयाथात्म्यज्ञानजोत्तमनिर्वृतिः ।
पशुवत् प्राकृतैरेव गुणैरधिकनिर्वृता ॥ 16
विश्वास-प्रस्तुतिः
न कर्मनिष्ठा नात्मज्ञा
नापि भक्ति-युता हरौ ।
नोद्युक्ता भक्ति-हीनत्वात्
तत्-क्रियास्व् अर्चनादिषु ॥ 17
मूलम्
न कर्मनिष्ठा नात्मज्ञा नापि भक्तियुता हरौ ।
नोद्युक्ता भक्तिहीनत्वात् तत्क्रियास्वर्चनादिषु ॥ 17
मायया ऽऽवरणम्
विश्वास-प्रस्तुतिः
कर्मभिः पुण्य-पापाख्यैः
अविद्यापर-नामभिः ।
धूमैर् इवार्चिर् आग्नेयं
ज्ञानम् आवृत्य देहिनः …॥ 18
मूलम्
कर्मभिः पुण्यपापाख्यैः अविद्यापरनामभिः ।
धूमैरिवार्चिराग्नेयं ज्ञानमावृत्य देहिनः ॥ 18
विश्वास-प्रस्तुतिः
भूषयित्वा स्वकं देहं
शब्दाद्यैः स्वाश्रयैर् गुणैः ।
दर्शयित्वा स्वसौन्दर्यम्
आत्मने तिष्ठमानया …॥ 19
मूलम्
भूषयित्वा स्वकं देहं शब्दाद्यैः स्वाश्रयैर्गुणैः ।
दर्शयित्वा स्वसौन्दर्यम् आत्मने तिष्ठमानया ॥ 19
विश्वास-प्रस्तुतिः
निरस्तातिशयाह्लाद-
सुख-भावैक-लक्षणम् ।
संछाद्य स्वगुणैर् एव
स्वरूपं च परात्मनः ॥ 20
मूलम्
निरस्तातिशयाह्लादसुखभावैकलक्षणम् ।
संछाद्य स्वगुणैरेव स्वरूपं च परात्मनः ॥ 20
विश्वास-प्रस्तुतिः
गुणमय्या प्रकृत्याख्य-
भगवन्-मायया ऽनया ।
स्वसंलीनानन्त-जीव-
कृत-कर्मानुरूपतः … ॥ 21
मूलम्
गुणमय्या प्रकृत्याख्यभगवन्माययाऽनया ।
स्वसंलीनानन्तजीवकृतकर्मानुरूपतः ॥ 21
विश्वास-प्रस्तुतिः
गुण-त्रयाश्रयानन्त-
विचित्र-परिणामया ।
अतिदुस्तरया देव
प्रपत्ति-रहितात्मभिः … ॥ 22
मूलम्
गुणत्रयाश्रयानन्तविचित्रपरिणामया ।
अतिदुस्तरया देव प्रपत्तिरहितात्मभिः ॥ 22
विश्वास-प्रस्तुतिः
प्रलोभ्यमाना सततं
तयैवात्यन्त-निर्वृता ।
अजानतीव स्वहितं
मूक-स्वप्नानुकारिणी … ॥ 23
मूलम्
प्रलोभ्यमाना सततं तयैवात्यन्तनिर्वृता ।
अजानतीव स्वहितं मूकस्वप्नानुकारिणी ॥ 23
विश्वास-प्रस्तुतिः
निष्पानीये निरालम्बे
निश्छाये निरपाश्रये ।
द्राघीयस्य् अशुभे मार्गे
यमस्य सदनं प्रति … ॥ 24
मूलम्
निष्पानीये निरालम्बे निश्छाये निरपाश्रये ।
द्राघीयस्यशुभे मार्गे यमस्य सदनं प्रति ॥ 24
विश्वास-प्रस्तुतिः
गच्छतो मेऽसहायस्य
वर्धयन्ती भयं महत् ।
अतीतापि सदैवेषा
तिष्ठतीव पुरो मम ॥ 25 +++(4)+++
मूलम्
गच्छतो मेऽसहायस्य वर्धयन्ती भयं महत् ।
अतीतापि सदैवेषा तिष्ठतीव पुरो मम ॥ 25
कालगतिः
विश्वास-प्रस्तुतिः
गतायास् त्वीदृशं रूपं
वर्तमानेऽपि जन्मनि ।
तयैव सुमहान् कालो
गतः क्षण इवाल्पकः ॥ 26 +++(4)+++
मूलम्
गतायास्त्वीदृशं रूपं वर्तमानेऽपि जन्मनि ।
तयैव सुमहान् कालः गतः क्षण इवाल्पकः ॥ 26
विश्वास-प्रस्तुतिः
अलब्ध-सुख-संस्पर्शो
ह्य् अकृताघौघ-निष्कृतिः ।
विनैव हरिपादार्चाम्
अहो पश्यत एव मे ॥ 27
मूलम्
अलब्धसुखसंस्पर्शो ह्यकृताघौघनिष्कृतिः ।
विनैव हरिपादार्चाम् अहो पश्यत एव मे ॥ 27
विश्वास-प्रस्तुतिः
किं करिष्यामि पदयोः
निपतिष्यामि कस्य वा ।
दुस्तरां दुर्दशाम् एतां
कथयिष्यामि कस्य वा ॥ 28
मूलम्
किं करिष्यामि पदयोः निपतिष्यामि कस्य वा ।
दुस्तरां दुर्दशामेतां कथयिष्यामि कस्य वा ॥ 28
गोपाल-देशिकः
इति निर्विण्णो भूत्वा