० मङ्गलम्

विश्वास-प्रस्तुतिः

श्रियःपतिं जगद्योनिं प्रणम्य पुरुषोत्तमम् ।
कथयामि यथाशक्ति तत्पूजाक्रममञ्जसा ॥ 1

मूलम्

ब्राह्मे मुहूर्ते सम्प्राप्ते त्यक्त्वा निद्रां प्रसन्नधीः ।
हरिर्हरिर्हरिरिति व्याहरेद्वैष्णवः पुमान् ॥ 2