॥ शरणागतिगद्यम् ॥
FX Clooney
This is my translation, though I have benefited from consulting the translation of Ramanujam (2002). For the Sanskrit, I have followed Ramanujam and also consulted Krishnaswami Ayyangar (1976). The following prayer is counted as number 5 in most editions of the Gadyam.
Throughout, I use exclamation points to mark vocatives.
सुदर्शन-भट्टः
यतीन्द्र-कृतभाष्यार्था
यद्-व्याख्यानेन दर्शिताः ।
वरं सुदर्शनार्यं तं
वन्दे कूर-कुलाधिपम् ॥
श्रीसुदर्शन-भट्टार्य-प्रणीतं श्रीमच्-छ्रुत-प्रकाशिकाभिधानं शरणागति-गद्य-व्याख्यानम् ।
वेङ्कटनाथः
श्रीमान्वेङ्कटनाथार्यः
कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥
श्रीवेदान्तदेशिकप्रणीतं पृथु-गद्याधिकार-नामकं
शरणागतिगद्यस्य व्याख्या रहस्यरक्षा॥
वेङ्कट-नाथः
गुरुवन्दनं - प्रतिज्ञा च
प्रख्यात-श्रुत-विभवान् गुरून् अशेषान्
प्रश्रित्य प्रणयति वेङ्कटेश-सूरिः ।
लक्ष्मीश-प्रपदन-वैभव-प्रतिष्ठां
रागान्ध्य-प्रशम-करीं रहस्य-रक्षाम् ॥ १ ॥
लक्ष्मी-पतेर् यति-पतेश् च दयैक-धाम्नो
योऽसौ पुरा समजनिष्ट जगद्-धितार्थम् ।
प्राच्यं प्रकाशयतु नः परमं रहस्यं
संवाद एष शरणागति-मन्त्र-सारः ॥ २ ॥
अवतारिका॥
अत्र भगवान् भाष्यकारः
सदाचार्य-सम्प्रदायागत-द्वय-वचनेन
स्वयम् अनुष्ठितं न्यासाख्य-विद्या-विशेषं
+++(प्रपत्ति-प्रयोगम् आचार्योपदेशतो ग्राह्यं न वदन्न् अपि)+++
स्वानुबन्धि-सञ्जिजीवयिषया
+++(नित्य-ग्रन्थवद् मुख्यांशान्)+++ यथावत् प्रकाशयन् +++(5)+++
‘सीताम् उवाचातियशा
राघवञ्च महाव्रतम्’, (रा.अयो.३१-२)
‘सीतासमक्षं काकुत्स्थम्
इदं वचनम् अब्रवीत्’ (रा.अर.१५-६)
इत्य्-आदि–प्रकारेण
श्री-प्रपत्तिं,
तद्-अनुग्रह-पूर्वकं स्वस्य भगवता सञ्जातं स्वयम्-प्रयोजन-संवाद-विशेषं
निबध्नाति ।
प्रतिवचनांशस् तु शरणागति-वशीकृत-शरण्याभिप्राय-विशेषोन्नयनेन निबध्यत इत्येके ।
“इह सम्पत्स्यते” इत्यन्तं श्रीमच्-छब्दाभिप्रेत-प्रदर्शनम् ।
“अखिल” इत्य्-आदि-कम्
“अशरण्यशरण्य!” इत्यन्तं
नारायण-शब्दार्थ-विवरणम् ।
तन्मध्ये “श्रीमन्नारायण” इति द्विः पठनम्
उपायोपेय-वाक्ययोः सिद्ध-रूप-प्रधानांश-व्यञ्जनम् ।
“अनन्यशरणोऽहम्” इत्य् उत्तम-पुरुषाभिप्रेताधिकारि-विशेषोक्तिः ।
“त्वत्-पादारविन्द-युगलम्” इत्य्-आदि-कम् अप्य्
अर्थतस् स्वरूपतश्च
मान्त्र-वर्णिक-पद-ज्ञापकम् ।
एवं प्रधानतमेन सिद्धोपायेन1 सिद्ध-प्राप्येण2 च सह
महा-वाक्यार्थ3-पर्यवसा-नभूमितया
शाब्दप्राधान्यवान् साध्योपायांशो4 दर्शितः।
साध्य-प्राप्यम्5 अपि
“पारमार्थिक” इत्य्-आदि-ना सङ्क्षिप्तम् इति ज्ञापयितुं
मध्ये “द्वयम्” इति व्याख्येय-समाख्या-निर्देशः ।
<dg 2/>
पितरम् इत्य्-आदि-भिः
जितन्ता-विशेष-भगवद्-गीतादि-पठितैः उक्तसंवादकैर् उपबृंहण-ग्रन्थैः
प्रस्तुतोपाय-विशेष-परिग्रहं
शरण्य-स्वभावानुसन्धान-पूर्वकं प्राप्य-विरोधि-निवृत्ति-प्रार्थनांशं च
प्रपञ्चयिष्यमाण-द्वयार्थतया सङ्ग्रहेण सङ्कलय्याह ।
“मनो-वाक्-कायैः” इत्य्-आदि-भिः,
अर्थक्रमेण नमश्-शब्दार्थ-विवरण-पूर्वकं
चतुर्थ्य्-अभिप्रेत-परम-पुरुषार्थ-प्रार्थना प्रकाश्यते ।
प्रतिवचन-वाक्यैस् तु,
प्रकृताधिकारि-निर्भरत्वाय स्वीकृत-भरस्य शरण्यस्य
स्वाभाविक-दयार्द्रम् उत्तर-खण्डोक्त-परम-फलाङ्कुर-कल्पम् अभिप्रायं व्यवृणुत ।
अतः कृत्स्नम् इदं गद्यं द्वय-विवरणम् इति साधीयान् सम्प्रदायः ।
पूर्वोत्तर-कृत्यादिकम् इह6 भगवत्-प्रपदने समुद्यतस्य
सम्यग्-ज्ञान-सम्पादन–पुरुष-कार–पुरस्कारादिकं पूर्व-कृत्यम् ।
साङ्ग-स्व-रक्षा-भर-समर्पणं तत्-काल-कृत्यम्,
स्व-निष्ठानुसन्धान-पूर्वकं स्वाधिकारोचित-7कैङ्कर्यादिकम् उत्तर-कृत्यम् ।
शरण्यस्य तु
पूर्व-कृत्यम् पुरुष-कार-प्ररोचनादिकम्;
तत्-काल-कृत्यं समर्पित-सर्व-भर-स्वीकरणम्;
उत्तरकृत्यन् तु स्वयम्-प्रयोजन-भक्त्य्-आदि–प्रदानान्तिम-दशा-प्रबोधन-प्रभृति–
परिपूर्ण-8कैङ्कर्य-रूप-मुक्ति-प्रदान-पर्यन्तम् ।
एतद् अखिलम् इह शब्दतो ऽर्थतश् च यथा-स्थानम् अनुसन्धेयम् ।
किञ्च -
‘सम्बोधनैः परं तत्त्वं
न्यासोक्त्या परमं हितम् ।
प्रार्थनाभिश् च परमः
पुम्-अर्थ इह दर्शितः ’ ॥
लक्ष्मी-प्रपदनस्य स्थिरी-करणम्
नन्व्
एवं सकल-फल-प्रदो भगवान् एव
तत्-प्रपत्ति-सिद्ध्य्-अर्थम् अप्य् आश्रीयताम्,
किम् इह लक्ष्मी-प्रपदनेन?
मैवम्;
यदि भगवत्-प्रपदनम् इदानीं शक्यम् इति निश्चिनुयात्,
तदा मोक्षार्थम् एव तद्-उपाददीत।
न पुनस् तद्-अर्थं तत्-प्रयुञ्जीत,
अ-निश्चिते तु शक्यत्वे नतराम्9।
ननु च
विदितश् चेत् प्रपत्ति-शास्त्रार्थः
स च सुकरः;
तदा स्वयम् एव मोक्षार्थम् अनुष्ठीयताम् ?
मैवम्; दुष्कर-कर्माद्य्-अङ्ग-विरहात्
सौकर्येऽपि,
महा-विश्वासाद्य्-अङ्गक-प्रपत्ति-स्वरूपे,
‘श्रूयते किल गोविन्दे’ (वि.ध. २-२५)
‘सत्यं शतेन विघ्नानाम्’ , (वि.ध. ७०-८४)
इत्य्-आदि–न्यायेन सम्भवत्-प्रतिबन्धे मात्रया दौष्कर्यात् ।
उक्तञ्च
‘उपायस् सुकरस् सोऽयं
दुष्करश्च मतो मम’ (ल.तं. १७-१०४)
इति ।
अतः ‘स्थिते मनसि’ (व.च. श्लो) इत्य्-आदि–प्रक्रियया
विषयतस् स्वरूपतश् च
विशिष्टाकार-प्रपत्त्य्-अनुष्ठाने
प्राप्याऽभिलाष-प्रापकाध्यवसाय–प्रापकान्तराऽनन्वयानुवृत्त्य्-अनुगुण-मनस्-समाधानाद्य्-अर्थम्
इह तत्-प्रार्थनं युक्तम् ।
एवम् अपि
सुकृत-विशेषैर् एव
लक्ष्मी-प्रपत्तिवत्,
भगवत्-प्रपत्तिर् अप्य् अस्तु;
मैवम्, तद्-अर्थ एव ह्य् अयं सुकृत-विशेषः ।
न चात्रापि पूर्ववद् अशक्यत्व-चोदना;
स्वतन्त्र-बुद्ध्यैव पूर्वं तावन्-मात्र-शक्ति-प्रदानात्,
तद्-अभिप्रायेण ह्य् उक्तम् भगवता शौनकेन -
‘वाचः परं प्रार्थयिता प्रपद्येन् नियतश् श्रियम्’ (शौ. सं.)
इति । श्रीसात्त्वते च
‘याम् आलम्ब्य सुखेनेमं
दुस्तरं हि गुणोदधिम् ।
निस्तरन्त्य् अचिरेणैव
व्यक्त-ध्यान-परायणाः’ ॥
(सा. सं. १२-८४)
इति ।
सा चैवं स्वयम् आह
‘प्रायश्चित्त-प्रसङ्गे तु
सर्व-पाप-समुद्भवे ।
माम् एकां देव-देवस्य
महिषीं शरणं श्रयेत्’ ॥
(ल.तं. १७-१०२)
इति ।
न चैवम्,
तद्-अर्थम् अपि10 प्रपत्त्य्-अन्तरापेक्षया11 अनवस्थादि-प्रसङ्गः -
स्व-तन्त्र-सङ्कल्पेन व्यवस्थितत्वात् सामग्री-विशेषाणाम् ।
सामग्री-प्रवाहानवस्था तु
सर्वस्मिन्न् अपि कार्ये
सर्वैस् सिद्धान्तिभिस् स्वीकर्तव्या; स्वीकृता चेति नासौ दोषः ।
अतो ऽपवर्गार्थ-भगवत्-प्रपत्ति-सिद्धये
‘यज्ञविद्या महाविद्या
गुह्यविद्या च शोभने ।
आत्मविद्या च देवि !
त्वं विमुक्ति-फलदायिनी’ ॥
(वि.पु. १९-१२०)
‘विद्या-सहायवन्तं माम्
आदि-त्यस्थं सनातनम्’,
(म.भा. शां. ३४७-६९)
इत्य्-आदि-भिः सर्व-विद्या-प्रवर्तकतया
तत्-तद्-विद्यात्वेन निर्दिष्टां
सम्यग्-ज्ञान-व्यवसायोपायादि-प्रदाने विशेषाधिकारवतीम्
अनुग्रहैक-स्वभावां श्रियम् आदौ प्रपद्यते -
भगवत् इति ।
अत्र ‘अशरण्यशरण्याम्’ इति वक्ष्यमाणस्योपयुक्ताः विशेषाः नवभिः पदैः ख्याप्यन्ते ।
<dg 3/>
सुदर्शन-भट्टः
वरदं द्विरदाद्रीशं
श्रीनिधिं करुणानिधिम् ।
शरण्यं शरणं यामि
प्रणतार्तिहरं हरिम् ॥
उपायोपेय-परं द्वयं विशदी-क्रियते ।
-
उपायेन उपाय-भूत-ब्रह्मणः पुरुष-व्यापारासाध्यतया सिद्धोपायत्वम्’फलम् अत उपपत्तेः’ इति सूत्राभिप्रेतम् । ↩︎
-
सिद्ध - एवं विभूति-द्वय-विशिष्ट-ब्रह्मणः प्राप्यत्वेन
तस्यापि व्यापारा साद्ध्यतया सिद्धप्राप्यत्वम्
‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति सूत्रारूढमिदम् । ↩︎ -
वाक्य - अ । ↩︎
-
साध्योपायांशः - निदिध्यासनस्य, प्रपत्तेर् वा
पुरुष-व्यापार-साध्यत्वात् साध्योपाय-शब्द-वाच्यता -
‘पुरुषार्थोऽतः शब्दाद् इति बादरायणः’ इति विद्यातः पुरुषार्थ-साधनात् ।
अत्र विद्या-पदं न्यास-विद्या-साधारणं व्यवहित-साधनम् इदम् ।
अव्यवहित-साधनन् तु
‘फलम् अत उपपत्तेः’ इत्युक्तरीत्या ब्रह्मैवेति बोध्यम् ।
अन्यथा पूर्वापर-विरोधः स्यात् । ↩︎ -
साध्य-प्राप्यम् - एवं मुक्तिकाले
यथाभिमत-कैङ्कर्यस्यापि स्वव्यापार साध्यतया प्राप्यतया च
साध्य-प्राप्यत्वम् ।
‘द्वादशाहवत् उभयविधं बादरायणः’ इति सूत्रसिद्धम् ।
शरीर-परिग्रहस्य भगवत्-कैङ्कर्यार्थत्वात्,
न तु स्व-भोगाय इति बोद्ध्यम् । ↩︎ -
इह च अ । ↩︎
-
कैङ्कर्य - आ । ↩︎
-
कैङ्कर्य - आ । ↩︎
-
नितराम् - अ । ↩︎
-
तदर्थं -आ । ↩︎
-
पेक्षायां - आ । ↩︎