०८ भगवद्-अनुग्रहः

विषयः - यदुगिरिग्रन्थोक्तः

भगवता स्वानुग्रहेण
शरणागते चेतने
प्रार्थितार्थ-निर्वृत्ति-दृढी-कारः

विश्वास-प्रस्तुतिः

एवं-भूत–मत्-कैङ्कर्य-प्राप्ति+उपायतया
ऽवकॣप्त-समस्त-वस्तु-विहीनो ऽपि,
अनन्त-तद्-विरोधि-पाप+आक्रान्तो ऽपि,
अनन्त-मद्+अपचार-युक्तो ऽपि,
अनन्त-मदीय+अपचार-युक्तोऽपि,
अनन्त+असह्य+अपचार-युक्तोऽपि,

सुदर्शन-भट्टः

अथ भगवद्वाक्यमाह1 -

एवम् इत्य्-आदि ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In response to the prayer, the Lord grants the prayer by the passage following:-“Yevamboota…. Heenopi”

वक्ष्यमाण-चरमश्लोक प्रथमपदार्थमाह एवम्भूत इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

conveys in substance the purport of the meaning of the first paada of the Charama Sloka. “Sarva Dharmaan Parityajya.”

अवक्कॢप्तम् - विहितम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Avaklupta means injuncted by the Saastra-

समस्तवस्तु-शब्देन कर्मज्ञानभक्तियोगाः,
तद्-अनुगुणाः अमानित्वादि-गुणाश् च विवक्षिताः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Samasta Vastu Viheena: means though not qualified by having performed, Karma Yoga, Gnana Yoga and Bhakti Yoga and not acquired the subsidiary qualifications mentioned in the Geeta (Amaanitvam).

विहीन इति त्यागोऽनूदित इति भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Viheena” conveys the idea that the Devottee had already given up all Dharmas as implied in the Tyaaga in the Charama Sloka.

+++(चरमश्लोक-)+++परि-शब्दार्थम् अभिप्रयन्नाह - अनन्त इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

By the words. the “Ananta, etc.”, it is sought. to convey the idea ingrained in the preposition “Pari” in Parityaga.’ (Pari means completely.)

विरोधिभूयस्तया कालान्तरेऽपि तन्-नैराश्यं हि तदर्थः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In fact, the helpless Prapanna is unable to perform the three Yogas on account of his sinful Karmas and hence he has to give them up on account of this inability (to do it even in future). These sinful Karmas which are enemies of salvation are so heinous in character that he has lost all hopes of being able to perform the Yogas at any time in future. All this is conveyed by the prefix ‘Pari.’

वेङ्कट-नाथः

अथैवम् अभ्यर्थितस्य भगवतस्
तद्-अभ्यनुज्ञादि-विषयैः प्रपत्ति-जनित-प्रसाद-परिवाहैः प्रतिवचनैः
प्रकृतौपयिकवक्ष्यमाण-चरम-श्लोकार्थोऽपि प्रतिबोध्यते।

तथाहि अत्र प्रतिहतोऽपि इत्यन्तेन अशक्तिपूर्त्या अनागतानन्त कालसमीक्षयाऽप्यदृष्टसन्तारोपायतां प्रकाशयता2 अनन्यशरणः इत्युक्तविस्तररूपेण प्रथमपादतात्पर्योक्तिः । येनकेनापि इत्य्-आदिना त्वमित्यन्तेन द्वितीयपादोक्ताधिकारिकृत्यलाघवादिव्यञ्जनम् । केवलम् इत्य्-आदिना तु ‘अहं त्वा’ (भ.गी.१८-६६) इति वाक्याभिप्रेतानिष्टनिवृत्ति पूर्वकेष्टप्राप्तिप्रकाशनम् । एवम्भूतोऽसि इत्य्-आदिभिः प्रपन्नविषयशोकापनोदन वाक्याभिप्रेतप्रपञ्चनमिति विभागः 3 । एवम्भूतमत्कैङ्कर्य इति, अत्र एवम्भूत इति कैङ्कर्यविशेषणम् । उपायतया इत्यत्र गद्यान्तरोक्तक्रमेण साक्षात् परम्परया वेति भाव्यम् । अवक्लृप्तम् - मन्नित्येच्छानियमितमित्यर्थः, मदादेशात्मकैः शास्त्रैर्विहितमिति वा । समस्तवस्तु-शब्देन प्रस्तुतप्रपत्तिव्यतिरिक्ताः तत्त्वज्ञानपूर्वकाः कर्मयोगादय उपासनपर्यन्ता निवृत्तिधर्माः, तदुपयुक्ताश्चामानित्वाद्यात्मगुणाः सङ्गृह्यन्ते। एतेन परि-शब्दद्योतित सपरिकरत्यागव्यञ्जनम् । एवं पश्चादपि तदर्हता न सम्भवतीति नैराश्यरूपत्यागसिद्ध्यर्थमाह अनन्ततद्विरोधिपापाक्रान्त इति । उपासनादिविरोधित्वात् प्रवृत्तिधर्मोऽप्यत्र पाप-शब्देन सङ्गृहीतः । अनन्तमदपचार इत्य्-आदिभिः पूर्ववत् विशेषापचाराभिभूतत्वस्य पृथगुक्तिः।एकैकवर्गस्य दुस्तरत्वद्योतनाय प्रत्येकमानन्त्यनिर्देशः।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

{Then the Lord answers the prayer and says to the devotee}

You may not have all the requisite qualifications for attaining the state of being in my such service;
you may even be beset with sins which stand in your way (of attaining My service)
you may have sinned grievously against Me or against My people (BhagavatAs)
or committed unto Me extremely grievous wrongs unforgivable.

मूलम्

एवंभूत मत्कैङ्कर्यप्राप्त्युपायतया अवकॢप्त समस्तवस्तुविहीनोऽपि, अनन्त तद्विरोधिपापाक्रान्तोऽपि, अनन्त मदपचारयुक्तोऽपि, अनन्त मदीयापचारयुक्तोऽपि, अनन्त असह्यापचारयुक्तोऽपि,

विश्वास-प्रस्तुतिः

एतत्-कार्य–कारण-भूत-+अनादि-विपरीत+अहङ्कार-विमूढ+आत्म-स्वभावोऽपि,
एतद्+उभय-कार्य-कारण-भूत+अनादि-विपरीत-वासना-संबद्धोऽपि
एतद्+अनुगुण-प्रकृति-विशेष-सम्बद्धोऽपि,

सुदर्शन-भट्टः

एतत् इति - बीजाङ्कुर न्यायात्4 कार्यकारणभावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

‘Yetat Kaarya Kaarana Bhoota’ denotes the Nyaya “The tree from the seed”, each is Kaarya and Kaarana also.

‘अथातो अहङ्कारादेशः’ (छां.उ.७-२५-१) इत्याद्युक्त5 अहङ्कार व्यावृत्यर्थः विपरीताहङ्कार-शब्दः, विमूढात्मस्वभावः - तिरोहितशेषभावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The adjective Vipareeta is in connection with “Ahankaara” with the object of not excluding all Ahankaras, but some varieties of them (e.g. that body is the soul) For, some kinds of Ahankara are not objectionable. (e.g., “I am Brahman i.e. that Brahman is the indweller in Me.”) This is also found in the Sruti (Atha Atha: Ahankaara Aadesa :)

“Vimoodha Aatma Swabhava:” The nature of Atman (Finite Soul) is service-ship. This is hidden from the Jeeva.

उभय-शब्दः पापाज्ञानपरः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Ubhaya Karya Karana” - Ubhaya denotes both sin and ignorance

वेङ्कट-नाथः

उक्तानां पापानां निदानं भक्तियोगादिप्रतिबन्धे द्वारभूतम् ‘अहङ्कार विमूढात्मा’ (भ.गी.३-२७) इत्य्-आदिषु प्रसिद्धं पूर्वं विपरीतज्ञान-शब्दोपात्तेष्वन्यतममाह - एतत्कार्येति । कार्यस्याप्यहङ्कारस्यानादित्वं बीजाङ्कुर न्यायात् प्रवाहरूपेण भाव्यम् । ‘अथातो अहङ्कारादेशः’ (छां.उ.७-२५-१) इत्याद्युक्तयथावस्थित अहङ्कारात् व्यवच्छेदार्थं विपरीत-शब्दः, अनहमर्थे अहन्त्वाभिमानात्, स्वातन्त्र्यारोपाच्च विपरीतत्वम् । विमूढत्वम् इह तिरोहित त्वम् ।

नित्यं प्रकाशमानस्याप्यात्मनस्तिरोहितत्वम् आधेयत्वविधेयत्वशेषत्वादिधर्माणामनवभासादिति ज्ञापनाय स्वभाव-शब्दः ।

पापस्याहङ्कारस्य च प्रवाहनिर्वाहकम् अशेषत इति पूर्वत्र सङ्क्षिप्तं विशदम् अनुभाषते एतदुभय इति । वासनाया अपि प्रवाहरूपेण अनादित्वम्। यथावस्थिततत्त्वहित पुरुषार्थ6 व्यावृत्त्यर्थाऽत्र विपरीतत्वोक्तिः
पापस्य वासना पापान्तरारम्भरुचिजनकनिग्रहांशः, अहङ्कारस्य वासना भूयोभूयस्तादृशभ्रमजनकबुद्धिसंस्कारः ।

भगवत्स्वरूपतिरोधानकरीम् इत्याद्युक्तमनुवदति - एतदनुगुण इति । एतत् शब्देन पूर्वोक्तपापाहड्ङ्कारवासनारूपत्रितयपरामर्शः । अत्रापि कार्यत्वं कारणत्वं च विवक्षितम् । सात्त्विकप्रकृतिव्यवच्छेदाय विशेष-शब्दः।
सम्बद्धः - दृढबद्धः इत्यर्थः ।

एतच् च मितगद्ये - ‘दुर्विवेच’ इति पदेन विवृतम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Your disposition may be such a disposition which hides Me from your vision, i.e., ahankAra which is the cause and result of the above sins.
You may be even affected by beginningless and perverted impressions and tendencies (inherited from previous births) which are the cause and result of your sins and of ahankAra.
You may be connected with Prakrti (the cause of the above All).

मूलम्

एतत्कार्यकारणभूत अनादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि, एतदुभय कार्यकारणभूत अनादि विपरीतवासनासंबद्धोऽपि, एतदनुगुण प्रकृतिविशेषसंबद्धोऽपि,

विश्वास-प्रस्तुतिः

एतन्-मूल+आध्यात्मिक+आधिभौतिक+आधिदैविक–सुख-दुःख–
तद्-हेतु–तद्+इतर+उपेक्षणीय–विषय+अनुभव-ज्ञान-सङ्कोच-रूप-
मच्-चरणारविन्द-युगल+एकान्तिक+आत्यन्तिक-
पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++–
विघ्न-प्रतिहतो ऽपि

सुदर्शन-भट्टः

सुखदुःखतद्धेतु शब्देन भोग्य7 विषया विवक्षिताः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Sukha Duhkha Taddhetu: All undesirable things not fit to be enjoyed.

ज्ञानस्य सङ्कोचः आत्मपरमात्मविषये ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Gnaana Sankocha: Ignorance of the true nature of Paramaatman and Jeevatman.

विषयानुभवरूपः, ज्ञानसङ्कोचरूपश्च विघ्नः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

This ignorance and the enjoyment of material objects are the obstructions (Vighna) stated later on.

वेङ्कट-नाथः

प्रतिसम्बन्धस्याभिमतप्रतिबन्धकत्वे द्वारं प्रपञ्चयति - एतन्मूल इति । दुःखस्य संसारोद्वेगजनकत्वमपि सम्भवति । सुखस्य तु संसाररुचि जनकत्वेन विघ्नत्वम् अधिकमित्यभिप्रायेण पूर्वं सुखस्योक्तिः । दुःखवत् सुखमपि आध्यात्मिकादिभेदेन त्रिविधम् । आध्यात्मिकम् - आत्माश्रित अचित्समुदायप्रधानहेतुकम् । तादृशं दुःखं द्विविधम् - शारीरं मानसं चेति । तत्र शारीरम् 8शिरो रोगः8 प्रतिश्यायः’ (वि.पु.६-५-३) इत्य्-आदि-नोक्तम् । मानसम् ‘कामक्रोधभयद्वेष’ (वि.पु.६-५-५) इत्य्-आदिना । आधिभौतिकं तु ‘पशुपक्षिमनुष्याद्यैः’ (वि.पु. ६-५-७) इत्य्-आदिना । आधिदैविकं च ‘शीतोष्ण-वात-वर्षाम्बुवैद्युतादिसमुद्भवम्’ (वि.पु. ६-५-८) इति । अत्र दुःख-शब्दस्य पूर्वकालिकदुःखविषयत्वात् उत्तरत्र दुःखविघ्नगन्धरहितत्वोक्तेः उत्तरकालस्वास्थ्यपरत्वात् तितिक्षायां वा तात्पर्यादविरोधः । त्रिविधमप्येतत् प्रत्येकमवान्तरहेतुस्वरूपवैषम्यादनन्तप्रकारमिति सूचयितुं तद्धेतु-शब्दः । सुखदुःखहेतवश्च स्वरूपतो बुद्धिविषयतयाऽपि परभक्त्यादि विघ्नाः । तदितर इति उपेक्षणीयविशेषणम् । उपेक्षणीयविषयश्च तृणादिः, तदनुभवोऽपि अब्रह्मात्मकानुभवरूपत्वेन पूर्वोक्त विपरीतज्ञानविशेषतया स्वरूपतः संस्कारतश्च प्राप्तविषयानुभवविरोधी । ज्ञानसङ्कोचः - तर्कोपदेशसहकृतैः शास्त्रैरपि परावरतत्त्वविषययथावस्थितज्ञान प्रसराभावः । मच्चरणारविन्दयुगल इति स्वयमुक्तिरिह न दोषाय, ईश्वरस्य यथाभूतार्थशंसिनः सर्वत्र स्वगुणाविष्क्रियादोषरहितत्वात्, तेनापि चरणयोः स्वाश्रितरक्षणसाधनतया सम्प्रीतिविषयत्वेन स्तुत्यत्वोपपत्तेश्च ।

तथा चाहुः - ‘तस्य स्वात्मप्रदाने तु साधनं स्वपदद्वयम्, इति । अत्र परभक्त्यादि-शब्दैः देहपातात् पूर्वभाविनः, पश्चाद्भाविनश्चावस्थाविशेषाः सङ्गृह्यन्ते । प्रतिहतोऽपि इत्यन्तेषु अपि-शब्दैस्त्यागानुवादो द्योत्यते ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

You may be even set upon by obstructions to Para bhakti, Para Jn~Ana and Parama Bhakti – a Bhakti constant and one pointed towards the lotus like feet of Mine,
the obstructions for which are due to the enjoyment of external (Material) things, which in turn are the objects of pleasure and sorrow or of neither: caused by bodily organs and outside objects (of the earth or divine), all these due to connection with Prakrti.

मूलम्

एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक सुखदुःख तद्धेतु तदितरोपेक्षणीय विषयानुभव ज्ञान संकोचरूप मच्चरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नप्रतिहतोऽपि,

विश्वास-प्रस्तुतिः

येन केनापि प्रकारेण +++(भोग्यतया, नोपायतया)+++ द्वय-वक्ता त्वं
केवलं मदीयया+एव दयया

सुदर्शन-भट्टः

येन केनाऽपि प्रकारेण इति ‘आर्ततया दृप्ततया वा’ इति भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Ena Kenaapi Prakaarena: Whether as a person in a hurry to attain Moksha (Aartha) or one who is willing to delay (till the end of his life).

केवल-शब्दः आकाङ्क्षिता नुपपत्ति9 व्यावृत्यर्थः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

‘Kevalam’ - Only by My Grace and Mercy “irrespective of the feeling of anxiety or repentance of the Devotee.”

एव-कारः कृपायाः पुष्कलकारणत्वपरः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Eva in Madeeyaya eva is used to emphasise that only His Grace is responsible for the Devotee’s salvation

तत्र हेतुः मदीयत्त्वम्

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and Madeeya connotes that He does not need any other agency for showing His Grace.

वेङ्कट-नाथः

धर्मान्तरनैरपेक्ष्यविशिष्टविधानमपि द्वयवक्ता इत्यनेन सूचितम् । न चैतावता प्रपत्तेस्तदविनाभूताङ्गानां वा निवृत्तिः, शरणमहं प्रपद्ये इति पूर्वोक्तानुवादत्वेन प्रपत्युपश्लिष्टस्यैव द्वयवचनस्यात्र विवक्षितत्वात् । येन केनाऽपि इत्यस्य तु ‘आर्तो वा यदि वा दृप्तः , (रा.यु.१८-२८) ‘मित्रभावेन सम्प्राप्तम् ), (रा.यु. १८-३) ‘विभीषणो वा सुग्रीव10 यदि वा रावणः स्वयम्’, (रा.यु.१८-३५) इत्याद्युक्ताधिकारिविशेषानियमे तात्पर्यम् । ‘शरण्यस्य प्रपन्नेष्वाद रातिशयादीदृशव्याजमात्रानुभाषणम्, इति केचित् । एतेन जीव11 व्यापारनिरपेक्षमोक्षप्रदानादिपक्षश्च निरस्तः । इतः परं त्वत्प्रवृत्त्यन्तरमनपेक्षितमित्याह - केवलम् इति । मदीययैवनान्यदीयता, न सहकार्यन्त सापेक्षयेति भावः । दयाऽत्र प्रपत्त्युल्लसिता रक्षणेच्छा ।
प्रपत्तिजनितप्रसादवैशिष्टये सत्यपि सहजदयायाः प्राधान्यमिह सूचितम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

However, you have somehow or other uttered the words of dvaya mantra.
By My mere DayA,

मूलम्

येनकेनापि प्रकारेण द्वयवक्ता त्वम्, केवलं मदीययैव दयया,

विश्वास-प्रस्तुतिः

निःशेष-विनष्ट-सहेतुक–
मच्-चरणारविन्द-युगल+एकान्तिक+आत्यन्तिक-
पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति+++(=उत्तरोत्तरानुभवाभिनिवेश)+++,
-विघ्नः

वेङ्कट-नाथः

कर्मणां सुखदुःखजननशक्तिवत् तिरोधायकत्वादिशक्तिरपि निवृत्तेत्यभिप्रायेण निश्शेष-शब्दः । तेन अशेषतः इत्युक्तस्यानूक्तिः । हेतुभूतपापादिसद्भावे पुनरपि विघ्न उत्पद्येतेति तत्परिहारार्थमुक्तम् - सहेतुक इति । विघ्नाः पूर्वोक्ताः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

you will be freed completely from the obstructions to Para Bhakti, Para Jn~Ana, Parama Bhakti and their causes.

मूलम्

निश्शेषविनष्ट सहेतुक मच्चरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नः,

विश्वास-प्रस्तुतिः

मत्-प्रसाद-लब्ध
मच्-चरणारविन्द-युगल+एकान्तिक+आत्यन्तिक-
पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्तिः+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++,

वेङ्कट-नाथः

एवमनिष्टनिवृत्तिः उक्ता, अथेष्टप्राप्तिं वदन् प्रथमं ‘तेषां ज्ञानी’ (भ.गी. ७-१७) इत्य्-आदि-प्रार्थितज्ञानपूर्वकपरभक्तयादिप्रदानमाह - मत्प्रसादलब्ध इति । इह हि परभक्तयादिवचनं तत्पूर्वभाविज्ञानविशेष स्याप्युपलक्षणम् ।

अत्र प्रसाद12-शब्दः प्रपत्तिजनित-प्रसाद-निरस्त-प्रतिबन्ध13 निरुपाधिक सौहार्दपरः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

You will also by My grace obtain Para Bhakti, Para Jn~Ana and Parama Bhakti

मूलम्

मत्प्रसादलब्ध मच्चरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिः,

विश्वास-प्रस्तुतिः

मत्-प्रसादाद् एव
साक्षात्-कृत-यथा+अवस्थित-
मत्-स्वरूप-रूप–गुण-विभूति-लीला+उपकरण-विस्तारः

सुदर्शन-भट्टः

कदाचित्स्वरूपा14द्यनुभवव्युपदासाय विस्तार-शब्दः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Visthaara: is used to show that when the Devotee gets the direct vision of God, it is not only of some of His qualities but all of them.

एवं नारायण-शब्दार्थानुभव उक्तः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Thus far the word Narayana has been expounded.

वेङ्कट-नाथः

एवं मत्प्रसादादेव इति वक्ष्यमाणेऽप्यवधारणेन15 सहकारिनैरपेक्ष्यं द्योत्यते ।
मत्स्वरूप इत्य्-आदिकमुत्तरखण्डस्थ-नारायण-शब्दार्थः । विभूति-शब्दोऽत्र नित्यविभूतिविषयः । उपायदशायां शास्त्रविहिततत्तत्स्थान गुणादिपरिच्छिन्नस्वरूपाद्यनुभवात् तद्व्यावृत्त्यर्थं यथावस्थितविस्तार शब्दौ, आरोपशङ्कानिवृत्त्यर्थं वा यथावस्थित शब्दः । हेत्वभावात् अत्र भ्रमाभावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and be favoured with the direct vision of Me, My form, My attributes, My vibhUtis and also of Moola Prakrti, which is My playground.

मूलम्

मत्प्रसादादेव साक्षात्कृत यथावस्थित मत्स्वरूपरूपगुण विभूति लीलोपकरणविस्तारः,

विश्वास-प्रस्तुतिः

अपरोक्ष-सिद्ध-
मन्-नियाम्यता–मद्-दास्य+एक-स्वभाव+आत्म-स्वरूपः

सुदर्शन-भट्टः

तदन्तर्गतजीवस्वरूपाविर्भावमाह - अपरोक्ष इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Next follows the description of the status of Jeeva, at the Moksha - a status which is naturally his. - in the passage beginning with Aparoksha.

व्याप्तिर्धारणा च नियमनान्तर्गते ‘प्रशासने गार्गिः’ (बृ. उ.५८-९) ‘अन्तः प्रविष्टः’ (तै. आर. ३-११-२१) इति श्रुतेः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Manniyaamyatva includes both ideas about Paramaatman-pervasiveness and support by Him Cf. “Oh! Gargi, Sun, Moon, etc. are supported by Him and controlled by Him.”

अतः पृथग नुक्तिः । एतेन स्वाधीन प्रवृत्तित्वान्यशेषत्वाद्यशेषत्वभ्रमः 16 फलितः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Thus, the idea that Jeevaatman is independant (of Him) is excluded.

वेङ्कट-नाथः

एवं सर्व-विशिष्ट-परम-भोक्तव्य-साक्षात्कारे नार-शब्दार्थस्वस्वरूपाविर्भावमपि स्वाधीन-स्वार्थ-कर्तृत्व-भोक्तृत्व-भ्रमनिवृत्तिपूर्वक-तद्भोक्तृत्वज्ञापनाय पृथगाह - अपरोक्ष इति । नियाम्यत्वोक्त्या अत्र व्याप्यत्वधार्यत्वे च आकृष्टे, ‘अन्तः प्रविष्टः शास्ता जनानाम्’, (तै. आर. ३-११-२१,२३) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ५-८-९) इति श्रुत्यनुसारात् । एतेन ‘स स्वराट्’ (छां. उ. ७-२५-२) इत्युक्तेऽपि मुक्ते पारतन्त्र्यादेरनपायो दर्शितः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

You will also realize directly and clearly your own nature (innate quality), i.e., being in ever service to Me and be controlled by Me.

मूलम्

अपरोक्षसिद्ध मन्नियाम्यता मद्दास्यैकरसात्मस्वभावात्मस्वरूपः,

विश्वास-प्रस्तुतिः

मद्+एक+अनुभवः
मत्-दास्य+एक-प्रियः

परिपूर्ण+अनवरत-नित्य-विशदतम-
+अनन्य-प्रयोजन-
+अनवधिक+अतिशय-प्रिय-मद्-अनुभवः त्वं

सुदर्शन-भट्टः

आत्मीयाभिमानानुगुण17-पुमर्थानुभाव्यम्18 आह - मदेक इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Madeka Anubhava: Generally, a man follows actions which are in conformity with the status in which he considers himself to be. Here, when a devotee thinks himself to be the servant of the Lord, he engages himself in worship, etc., and thus enjoys Him.

एक-शब्देन अनुभाव्यन्तरव्युदासः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Eka emphasises that the service is directed only to Him and not to anything or anybody else.

विरूपभर्त्रनुभवसाम्यव्युदासाय आह - मद्दास्यैक इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Mad daasya eka Priya: Service to Him is pleasurable because the Lord is so High that He deserves all the worship that one can give Him.

एक-शब्देन स्वरूपाननुरूपस्वातन्त्र्यस्य अपुमर्थत्वम् अभिप्रेतम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Eka emphasises that the Devotee will not desire for anything else but service.

वेङ्कट-नाथः

नियाम्यत्वं चिदचित्साधारणम्, दासत्वं तु चेतनैकनिष्ठम्, तयोः प्रातिस्विकं प्रयोजनमाह - मदेकानुभवो मद्दास्यैकप्रिय इति । ऐश्वर्यकैवल्य पुरुषार्थयोरिव स्वनिष्ठतया स्वतन्त्रतया च स्वात्मानुभवप्रसङ्गोऽपि तदा19 न सम्भवतीत्यभिप्रायेण मदेकानुभव-शब्दः । स्वाम्यनुभवप्रधाने स्वानुभवे स्वप्राधान्यगन्धनिवृत्त्यर्थं महास्यैकप्रिय इत्युक्तम् ।

पूर्वोक्तमेवानुभवं परमपुरुषार्थत्वप्रतिबोधाय पूर्ववत् पौष्कल्यादिभिः विशिनष्टि - परिपूर्ण इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then, finding your enjoyment only in Me only and desirous of serving Me only and experiencing such enjoyment (as stated above) full clear, eternal, with no goal other than Me and extremely pleasant,

मूलम्

मदेकानुभवः, मद्दास्यैकप्रियः, परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं,

विश्वास-प्रस्तुतिः

तथाविध-मद्-अनुभव-जनित+
अनवधिक+अतिशय-प्रीति–
कारिताशेष+अवस्था+उचित
+अशेष-शेषता+एक-रति-रूप-
नित्य-किङ्करो भव ॥ १८ ॥

वेङ्कट-नाथः

तत्प्रयुक्तप्रीतिं तत्परिवाहं च - “नित्यकिङ्करो भवानि” इत्यन्तेन प्रार्थितं प्रयच्छति तथाविध इति ।

ईदृशस्वकैङ्कर्यसाम्राज्ययोग्यतामलभ्यलाभत्वव्यक्तया सन्तोषार्थमुत्तरकृत्यविधानार्थं च अनुवदति - एवम्भूतोऽसि इति । प्रकृत्यात्मविवेकात् धार्मिकः, परावरतत्त्वविवेकाद्भागवतः, परावरपुरुषार्थविवेकादनन्य प्रयोजनः, स्वपराधिकारविवेकादनन्यसाधनः, पूर्वोक्तात्, ‘अस्तु ते’ इत्यनुग्रहविशेषात् प्रमितानुष्ठितभरन्यासः, ततश्च मया स्वीकृतभरः, नित्यकिङ्करो भव इति दत्तवरश्च त्वं मुक्तप्रायो आसीत्यर्थः । आख्यातेन ‘सन्तमेनम्’ (तै.उ. आन.६-१) इत्यवस्था व्यज्यते ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

you will be My servant for ever and ever as stated above. Take it that you have become My servant as described above.

मूलम्

तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भव !

विश्वास-प्रस्तुतिः

एवम्-भूतो ऽसि ॥ १९ ॥

सुदर्शन-भट्टः

तत् कदेत्य् अत्राह एवम्भूतोऽसि इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Evam Bhutosi is in answer to a question arising in the mind of the Devotee (Sri Ramanuja) as to when should the state of service start?

कदा इति त्वरा तव यदा स्यात्, तदा त्वमीदृ गवस्थितोऽसि20

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The past tense denotes that you have already become one or can become at any time desired.

अयं हि तव लाभ21 इत्यर्थः

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

This is the great boon and gain.

वेङ्कट-नाथः

यद्वा, नित्यकिङ्करो भव इति सत्यसङ्कल्पेनोक्ते, तेन वा स्वेन22 वा प्रत्याख्यातुमशक्यत्वे
निवारकान्तराभावे च
तदानीम् एव तथाविधात्मानम् अपश्यतः
क्रमात् तत्सिद्धिमाह - एवम् इति ।
एवं भवितुम् उपक्रान्तोऽसीत्यर्थः ।

मूलम्

एवम्भूतोऽसि ।

विषयः - यदुगिरिग्रन्थोक्तः

द्वयार्थ-चिन्तन-सह-कृत-
मन्त्रानुसन्धान-युत-
यावद्-आयुष-श्रीरङ्गवासस्य
भगवता लाभः

विश्वास-प्रस्तुतिः

आध्यात्मिक+आधिभौतिक+आधिदैविक-दुःख-गन्ध-रहितस् त्वं
द्वयम्, अर्थानुसन्धेन सह,
सदा +एवं वक्ता
यावत्-शरीर-पातम्
अत्र +एव श्रीरङ्गे सुखम् आस्व ॥ २० ॥

सुदर्शन-भट्टः

शरीरपातावधिकल्पकालः एवं विनोदेन नेय इत्याह - आध्यात्मिक इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then follow directions by the Lord as to how the Devotee should conduct himself or arrange to spend the rest of the days of his life.

दुःखरूपो विघ्नः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Du:kka and Vighna connote the same thing.

तत्र सङ्गरहितत्वे हेतुमाह - द्वयम् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The investigation into meaning of Dvaya and recitation of it are prescribed to avoid any attachment to material things.

सदैवम् इति क्षणमात्रं द्वयार्थानुसन्धानाभावे सति तापत्रयस्य अवकाशः स्यात् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

If even for a minute, there is a vacant interval in this action, room will be given to the three kinds of afflictions.

अतः23 निरन्तरानुसन्धानेन तद्विरहः कार्य इति भावः । उपायत्वे द्वयोक्तिरेव अलमितिकृत्वा वक्तारं मां तारय इत्युक्तम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

This mediation does not help as a means to Moksha; in fact, the mere utterance of Dvaya will do.

अत्र तु अर्थानुसन्धानं भोगरूपत्वेन उक्तम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

This is however mentioned not as compulsory act to be performed but only as a way of spending the time fruitfully.

अत्रैव इत्युपलक्षणम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Srirangam means not merely Srirangam…

भगवदभिमानतदीयसम्बन्धव 24द्देशविशेषेषु24 इत्यर्थः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

but includes any place favoured by Gods and Godly men.

यावच्छरीरपातम् इति कियानयं काल इति भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Till when? till the body falls.

वेङ्कट-नाथः

भयावहायां देहेन्द्रियादिदशायां कथं कुत्र च निरपायः कालक्षेप इत्यत्राह - आध्यात्मिक इति । अत्रत्योत्कटसुखस्याप्युपलक्षणार्थमिह दुःखोक्तिः । श्लोकत्रयाद्युक्तज्ञानभक्तिशालिनं प्रति प्रातिकूल्याविशेषाद्वा दुःख-शब्देन सुखस्यापि सङ्ग्रहः । गन्ध-शब्देन वा तद्विवक्षा । तेन सर्वसाधारणः क्षुदादिर्वाऽभिप्रेतः । दुःखस्य द्वयार्थानुसन्धानं प्रति विघ्नत्वं स्यात्, अतस्तद्राहित्योक्तिः । इह च पूर्णविवेकानामाभिमानिकं दुःखं सुखं च नास्ति । सांस्पर्शिकानां तु प्रारब्धकर्मवशात् सम्भवतामपि प्रतिदिनं कर्मक्षयमोक्षासक्तिदर्शनप्रीत्या द्वयार्थानुसन्धानविघ्नत्वं नातीवास्ति । अतो न प्रत्यक्षादिविरोधः । त्वम्अ नन्यज्ञानभक्त्यादिप्रार्थनावान् । उच्चारणं प्राधान्येन स्तोतुमर्थानुसन्धाने सह-शब्दः । एवम् अर्थानुसन्धानेन इत्यन्वयः । एवम् - ‘अखिलहेय’ इत्याद्युक्तविशदप्रकारेणेत्यर्थः । एतच्चान्त्र 25कृतकृत्यत्वप्रतिसन्धान25-प्रीत्यर्थम्, अस्य च स्वयम्प्रयोजनकैङ्कर्यरूपत्वात् । ‘यन्मुहूर्तम्’ (ग.पु.पू. खं.२२२-२२) इत्य्-आदि-न्यायेन भगवदनुभवप्रीत्यनुवृत्त्यर्थं, सम्भवद्वन्द्वतितिक्षार्थं, निर्भरत्वानुसन्धानरसानुवृत्त्यर्थम्, निषिद्धकाम्यादिसङ्गनिवृत्त्यर्थं च सदा इत्युक्तिः ।

इदं तु स्वभावार्थशास्त्रप्राप्ताविरोधेन नेयम्, अन्यथा सर्वप्रमाण विरोधात् । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये,’ (छां.उ.६-१४-२) ‘प्रारब्धमात्रं भुक्त्वाऽत्र26 तत्त्ववित्सुखमाप्नुयात्’, (पाञ्चरात्रम्) ‘प्रारब्धमेव भोक्तव्यं कर्मब्रह्मविदामपि (पाञ्चरात्रम्) ‘अनारब्धकार्ये एव तु पूर्वे तदवधेः’ (ब्र.सू. ४-१-१५) इति दर्शितः प्रक्रान्तकर्मफलभोगोऽपि प्रपन्नस्य यथाभिलाषं प्रपत्त्युत्पत्तिशरीरावधिरित्यभिप्रायेणाह - यावच्छरीरपातम् इति । आतितारतम्या 27दत्र27 स्थितितारतम्यम् । अत्रैव - अत्यन्तासन्नमत्सेवानुगुणे, न तु मत्कैङ्कर्यविरुद्धदेशेष्वित्यर्थः ।

अत्र अनेकपुराणादि-प्रसिद्ध-श्रीरङ्गोपादानं
भागवताभिमत-स्वयं-व्यक्तादि-भगवत्-क्षेत्रान्तराणाम् अप्य् उपलक्षणम् ।

सुखमास्स्व - कृतकृत्यत्वप्रतिसन्धानेन प्रतिदिनं कर्मक्षय दर्शनेन अविलम्बितानायासपरमपुरुषार्थलाभव्यवसायेन विषमधुकल्पवैषयिकरसवैमुख्यहेतुभूतद्वयार्थानुसन्धानसारस्येन च सन्तुष्टो वर्तस्वेत्यर्थः । स चायमत्रत्यसेवासौकर्यार्थ उपदेशः, सुखी भवेतिवदनुग्रहोक्तिर्वा । एवमर्थानुसन्धानद्वयवचनसुखासिकाभिः मनोवाक्कायानामयोग्यव्यापार निवृत्तिरपि स्यात् । भवत्वेवं कृतकृत्यस्योत्तरकृत्यं फलम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Thus relieved and not troubled by the obstructions in the least degree which are the cause of worldly or divine grieves and sorrows,
always uttering dvaya mantra with full understanding of its meaning and significance,

You shall reside in Srirangam till the body falls to the ground (death).

मूलम्

आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छरीरपातं अत्रैव श्रीरङ्गे सुखमास्व । २० ॥

विषयः - यदुगिरिग्रन्थोक्तः

निरन्तरायतया भगवन्-मार्ग-प्रयाणानुगुणावस्थायाः
उत्क्रमण-समये भगवद्-अनुग्रहतः सिद्धिः

विश्वास-प्रस्तुतिः

शरीर-पात-समये तु
केवलं मदीयया +एव दयया ऽतिप्रबुद्धो
माम् एव +अवलोकयन्न्,

सुदर्शन-भट्टः

शरीर इति । केवलं त्वय्यकिञ्चित्करेऽपीति भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Kevalam: Even if the Jeeva does not do anything.

सुदर्शन-भट्टः

दयया एवेति एवकारः पुष्कलत्वद्योतकः।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Dayaayeva - eva here indicates the complete effectiveness of His Dayaa.

अतिप्रबुद्धः - जीवद्दशायां प्रबोधः अन्धतमसस्थानीय इति भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Ati pribhudda: implies that the knowledge gained during one’s lifetime is to be compared to darkness.

परमात्मनि विश्रमानन्तरं भाव्ययं प्रबोधः, ततः प्राक्तनं स्मरणम्, अन्तिममुपासकानाम् अपेक्षितम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The dawning of spiritual knowledge starts after the Finite Soul rests on Paramaatman. In the case of the Devotees practising Bhakti Yoga, the ’last reminiscence’ (Antima smaranam) should be gained by them.

प्रपन्नन्तु ‘काष्ठपाषाणसन्निभम्’ (वरा.च.श्लो.) भगवानेव स्मरति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In the case of a Prapanna, however, he may (at the time of his death) be like a log of wood, a piece of stone, etc., yet Iswara will remember him

स्वस्मिन् विश्रमा नन्तरं प्रबोधं च जनयति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and favour him with high spiritual knowledge when his soul rests in Him.

‘तेन प्रद्योतेनैष आत्मा निष्क्रामति’ (बृ.उ.६४-२) इति हि श्रूयते ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The Finite soul enters on its journey towards Iswara by the light shown by Him.

अतः तदा बोधसिद्धिः ।

माम् - स्वरूपरूपगुणविभवान्वितम् एव इति विषयान्तरकालुष्यविरह उक्तः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The word “Maam” refers to Iswara with His natural personality, resplendent form, His attributes and His Vibhutis. Eva indicates that at that time the Jeeva is not disturbed by any other thoughts.

अवलोकयन् साक्षात्कुर्वन् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Avalokayan: Having a Direct vision of Iswara.

वेङ्कट-नाथः

देहपातदशा कीदृशी ? परमफलं च कदा? इत्याकाङ्क्षायां प्रारब्धशरीरानुवर्तकप्रतिबन्धनिवृत्तौ दयार्णवस्य दिव्यशक्तेः स्वस्य पूर्वकृतरक्षासङ्कल्पानुगुणमन्यैरनिवार्यमुत्तरकृत्यमाह - शरीरपातसमये इति । ‘वाङ्मनसि ‘(छां. उ. ६-८-६) इत्य्-आदि-श्रुतिसिद्धाय मनःसम्पत्तेः पूर्वावस्थायामित्यर्थः । एतेन ‘निशि नेति चेत् न’ (ब्र.सू.४-२-१८) इत्याद्युक्तः कालनियमाभावश्च सूचितः ‘ततस्तं म्रियमाणं तू’ (वरा.च.श्लो.) इतिवत् । अत्र तु-शब्दोऽधिकार्यन्तराद्विशेषमनुग्रहकार्यं द्योतयति । यद्वा, काष्ठपाषाणसन्निभतया स्वेन वा परैर्वा तदानीं प्रबोधस्य दुःसम्पादत्वम् । एवं तु-शब्दद्योतितमेव विशेषं व्यनक्ति - केवलम् इत्य्-आदिना ।

केवलं पूर्वाभ्यासानपेक्षम्, ‘यं योगिनः, (म.भा. शां. ४६-१३९) इत्याद्युक्ततादात्विक-स्वयत्ननिरपेक्षं च । मदीययैव मत्स्वभावभूतयैव, नान्यदीयया28, नापि पूर्वोक्तक्षेत्रवासद्वयार्थानुसन्धानजन्यया, न च तादात्विकप्रार्थनासापेक्षायेत्यर्थः ।

अतिप्रबुद्धः - शरीरपातात् पूर्वकाल इव ज्ञानपौष्कल्यवान् । यद्वा, न केवलं सङ्कोचाभावमात्रम्, किन्तु प्रत्यूषप्रकाश कल्पपूर्वावस्थातोऽतिशयोऽपि स्यादित्यर्थः । अपरिच्छिन्नस्तु प्रबोधो विशिष्टदेशगत्यनन्तरभावी । अन्तिमदशायाम् आदिभरतादिवदन्यदर्शनं तव न स्यादित्याह - मामेवावलोकयन् इति । नित्यमनुचिन्तनं मामेव शुभाश्रयविग्रहविशिष्टं विशदमनुसन्दधान इत्यर्थः । अविच्छिन्नसाक्षात्कारं कुर्वन्निति वा तदानीमवलोकनीयं सर्वं भगवदपृथक्सिद्धतयैव भातीति वा अवधारणस्याभिप्रायः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

You will, by My Grace, attain true knowledge

मूलम्

शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः, मामेवावलोकयन्,

विश्वास-प्रस्तुतिः

अप्रच्युत+++(गुरूपदेशादि)+++-पूर्व-संस्कार-मनोरथो,

सुदर्शन-भट्टः

अप्रच्युत इति गुरूपदेशादिजन्यसंस्कारः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Aprachyuta denotes a person with the full and undiminished impression on the memory produced by the teachings of Acharya etc.,

भगवत्प्राप्तीच्छा च अप्रच्युते यस्य स तथोक्तः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and the desire to attain Iswara.

वेङ्कट-नाथः

एवं ज्ञानदर्शने प्रोक्ते, अथ वक्ष्यमाणायाः प्राप्तेः पुरुषार्थत्वाय तदिच्छानुवृत्तिमाह - अप्रच्युत इति ।

भगवानेव मे परमप्राप्य

इति शास्त्र-जन्यानुभव-संस्कारस्य काल-विप्रकर्ष–काय-विश्लेष-क्लेशादिभिः प्रच्युतिः न भविष्यति,
तत एव संस्कार-मूलः प्राप्ति-मनोरथोऽपि
तदानीं भवतस् त्यज्यमानेषु29 देह–तद्-अनुबन्धिषु रागाद् वा,
किं भविष्यतीति भयाद् वा न प्रच्यवत30
इति भावः ।

अतिप्रबुद्धः इत्य्-आदिभिः परभक्तयादित्रयं वा परमात्मनि विश्रमादनन्तरभाविप्रबोधादिकं वा विवक्षितमिति केचित् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

with no diminution of your capacities of consciousness of desires (to go to heaven)

मूलम्

अप्रच्युत पूर्वसंस्कारमनोरथः,

विश्वास-प्रस्तुतिः

जीर्णम् इव वस्त्रं,
सुखेन +इमां प्रकृतिं स्थूल-सूक्ष्म-रूपां विसृज्य

वेङ्कट-नाथः

लब्धनूतनशुभवस्त्रान्तरस्य जीर्णवस्त्र इव अत्यासन्नदिव्यदेहलाभस्य चिरपरिचितेऽपि भोगायतने जिहासोत्पत्तिमनायासहानप्रीतिं च निदर्शयति - जीर्णमिव वस्त्रम् इति । ‘कृतकृत्याः प्रतीक्षन्ते’ (इति.स.६-३७) ‘नोपजनं स्मरन्निदं शरीरम्’ (छां.उ.८-१२-३) इत्य्-आदिभिः अभिप्रेतं लब्धपरित्यागक्लेशाभावम्, यमकिङ्करादिभयाभावम्, चिकित्सकशल्यप्रयोगन्यायशङ्कितोत्क्रमणदुःखाभावम्, अत्यासन्नपरमपुरुषार्थानुसन्धानहार्दानुग्रहतादात्विकभगवदनुभवातिवाहिकदर्शनजनित हर्षप्रकर्षं31 च अभिप्रेत्याहसुखेन इति । इमाम् - अनाद्यनुवृत्तां भगवत्स्वरूपतिरोधानादिभिपकारिणीं कारागृहनरकादिवत् अनुसंहितां दुरत्ययां मदन्यैः त्याजयितुमशक्यां चेति भावः । प्रकृतिम् - सततविकारशीलं त्रिगुणद्रव्यम् । उत्क्रान्तिपादे च अर्चिरादिपादे चोक्तं सर्वमभिप्रेत्याह स्थूलसूक्ष्मरूपां विसृज्य इति । स्थूलप्रकृतित्यागोऽत्रैव, सूक्ष्मप्रकृतित्यागस्तु ‘त्रिभावभावनातीतो मुक्तये योगिनां नृप! । देवयानं परः पन्था योगिनां क्लेशसङ्क्षयः’ ॥ (वि.पु. ६-७-७६) इत्याद्युक्त देवपथेन32 दिव्यदेशगमनदशायामेव भवति । एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य’, (छां.उ.८-३-४) ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत्’ (ऐ.उ. ४-६) इत्य्-आदिषु ब्रह्मप्राप्तिपर्यन्त अभिधानात् तिरोधायकसूक्ष्मप्रकृतिविश्लेषोऽप्यभिप्रेतः । सुबालोपनिषदि तु ‘अपुनर्भवाय नाड्या कोशं भिनत्ति ) ( सु.उ.११-२) ‘कोश भित्त्वा शीर्ष कपालं भिनत्ति’ ‘शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति’, इत्यारभ्य ‘अक्षरं भित्त्वा मृत्युं भिनत्ति’ (सु.उ.११ - २) इत्यन्तेन स्थूलशरीरत्यागपूर्वकतमःपर्यन्तसर्वतत्त्वातिक्रम उक्तः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and shaking off easily this mortal coil (body) both physical and subtle,

मूलम्

जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य,

विश्वास-प्रस्तुतिः

तदानीम् एव
मत्-प्रसाद-लब्ध
मच्-चरणारविन्द-युगल+
एकान्तिक- मच्-चरणारविन्द-युगल+एकान्तिक+आत्यन्तिक-
पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++
-कृत-
परिपूर्ण+अनवरत-नित्य-विशदतम-+अनन्य-प्रयोजन-
+अनवधिक+अतिशय-प्रिय–
मद्-अनुभवस् त्वं

सुदर्शन-भट्टः

तदानीमेव - प्रकृतिं विमोक्षा 33नन्तरमेव ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Tadaaneem eva without delay - Directly the bonds of Prakrti are released.

उपरि पूर्ववत् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(The rest of the passage has been explained already).

वेङ्कट-नाथः

तदेवङ्क्रमेण सूक्ष्मप्रकृतिविमोक्षानन्तरं स्वस्यैव प्रसादेन अविलम्बितमनोरथ पूर्तिमाह - तदानीमेव इति ।

अपेक्षणीयान्तराभावात् न विलम्ब इति भावः । प्रसाद इह तिरोधाय कांशपर्यन्तस्य निग्रहरूपकालुष्यस्य निःशेषनिवृत्त्या सूरिष्विव स्वभावत एवावस्थितं सौहार्दम्, तच्चात्र निर्दुःखनित्यनिरतिशयानन्दमनुभवत्वसावितीच्छैव ।

मूलम्

तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं,

विश्वास-प्रस्तुतिः

तथा-विध–मद्-अनुभव-जनित-
+अनवधिक+अतिशय-प्रीति-कारिताशेषावस्था+उचित+
अशेष-शेषता+एक-रति-रूप-नित्य-किङ्करः भविष्यसि ॥ २१ ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

you will at once attain the privilege of constant and ever service (as stated above).

मूलम्

तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भविष्यसि । २१ ॥

विषयः - यदुगिरिग्रन्थोक्तः

शरणागतस्य शरण्यविषये नैर्भर्यम्

विश्वास-प्रस्तुतिः

मा ते भूद् अत्र संशयः ॥ २२ ॥

सुदर्शन-भट्टः

इदमाश्वासनवाक्यमिति न संशयितव्यम् इत्याह मा ते भूत् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Ma Te bhoot Atra Samsaya: These are words of assurance that what was said already is not mere words of consolation.

वेङ्कट-नाथः

अत्र तावदस्ति क्षुद्रफलेष्वप्युपायगौरवम्, मोक्षे तु - ‘अनेकजन्म संसिद्धिः, (भ.गी.६-४५) ‘क्लेशेन महता सिद्धैः’ (लघुतन्त्रम्) ‘क्षपयित्वाऽधि कारान् स्वान् शश्वत् कालेन भूयसा’ (ल.तं. १७-१८) इत्य्-आदिभिः कृच्छ्रसाध्य तयोक्ते ‘विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरम्’ (स्तो.र.४७) गुरूपायसाध्ये न्यासमात्रनिष्ठस्य मादृशस्य निर्यत्नलब्धिवचनमुपच्छन्दनमिति केषाञ्चिच्छङ्का जायेत, अतस्तान् वित्रम्भयितुं भाष्यकारमपदिश्याह - मा ते भूदत्र संशय इति । ननूपायलाघवप्राप्यगौरवादिनिमित्तशङ्काविधूननेन महा विश्वासपूर्वकं शरणमुपगतस्य संशयप्रसङ्गाभावादत्र तत्प्रतिषेधो निरर्थकः ? मैवम्, तादात्विकमहाविश्वासेनोपाये निष्पन्नेऽपि तस्य फलाविनाभावेऽपि केषाञ्चित् प्रारब्धकर्मविपाकवैचित्र्यात् संशयोऽपि सम्भवति , न च तेनोपाय वैकल्यम्, फलप्रतिबन्धो वा । मतिकालुष्यनिवृत्तिस्तु अत्रत्यपरभक्त्यादिवत् स्वयं पुरुषार्थः, अतः प्रसन्नेन भगवता संशयनिवर्तनमुपपद्यत इति ।

यद्वा, यावत्फललाभं विमर्शदशायामक्षोभणीयो विश्वासो महाविश्वासः, स च तात्कालिक उपायाङ्गम् , पश्चात्तु मदभिप्रायं मद्वाक्यं च परामृशतां मदनुग्रहादेव संशयो न भवत्येवेति ज्ञापनार्थमिह मा ते भूत् इत्य्-आदि । निःसंशयः इत्यन्तमुच्यते इति । ते - निश्चितशास्त्रार्थस्य सर्वसुहृदि सर्वशक्तौ34 मयि न्यस्तभरस्य च । अत्र - मत्प्रयोजनप्रधानायां मन्नित्यकिङ्करत्वप्राप्तौ ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(18) [Assurance by the Lord] Entertain no doubt about it.

मूलम्

मा ते भूद् अत्र संशयः ॥ २२ ॥

विश्वास-प्रस्तुतिः

“अनृतं न +उक्त-पूर्वं मे
न च वक्ष्ये कदाचन ।“ (रा.कि.७-२२)

“रामो द्विर् न +अभिभाषते ।“ (रा. अयो. १८-३०)

“सकृत् एव प्रपन्नाय तव अस्मि इति च याचते ।
अभयं सर्व-भूतेभ्यो
ददामि +एतत् व्रतं मम ॥“ (रा.यु.१८-३३)

“सर्व-धर्मान् परित्यज्य
माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो
मोक्षयिष्यामि मा शुचः ॥“ (भ.गी. १८-६६)

इति मया +एव हि उक्तम् ॥ २३ ॥

सुदर्शन-भट्टः

अनृतस्यानुक्तत्वमाह - अनृतम् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Anrtam, etc.-The first quotation says that He never tells a lie.

उक्तस्य दृढत्वमाह - रामो द्विः इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The second is just to confirm the assurance. He has given before.

न केवलं तव । अन्येषामपि मयोक्तमिति आह सकृत् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Sakrteva, etc. The assurance is for the whole world.

अवतारद्वयेऽपि वचनद्वयम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

[The quotations are from Ramayana and Mahabharata, the first by Rama, and the other by Krishna.]

वेङ्कट-नाथः

यद्येतदुपच्छन्दनम्, तदा मे स्ववचनविरोधः स्यादित्यभिप्रायेणाह - अनृतं नोक्तपूर्वं मे इति । इयमनृतानुक्तिराश्रितविषया, आसुरेषु प्रतारण दर्शनात् । अनुक्तपूर्वमप्यनृतं पश्चात् स्वातन्त्र्यादुच्येतेत्यत्राह - न च वक्ष्ये कदाचन इति । इतः पूर्वमिवेति भावः ।
इदमपि त्वद्वाक्यतया पूर्ववदाशङ्कनीयमित्यत्र ‘सत्यवादी च राघवः’ (रा. अयो. २-३३)इति प्रसिद्धं लोकोक्तिच्छायया स्वयमेवाह रामो द्विर्नाभिभाषते इति । स्वोक्तविरुद्धं नाभिभाषत इत्यर्थः । मम सकृदुक्त्यैवार्थिनामपेक्षितार्थः सिद्ध्येदिति वा तात्पर्यम् ।

एवं सामान्यतः प्रत्यायितस्य प्रकृतपर्यवसानाय रावणानुजपरिग्रहे पार्थोपदेशपर्यवसाने च विशेषत उक्तं श्लोक द्वयमाह सकृदेव इति, सर्वधर्मान् इति च ।

वेदवैदिकवाक्यमात्रातिशायिनोरनयोः शरण्यवाक्ययोरर्थं तदधिकारयोरभिधास्यामः ।

इदं मोक्षप्रदानोत्सुकेन मयेवोक्तम्, न तु मदादेशभूतदुरधिगमार्थवेदमुखेन वा सम्भवद् भ्रमादिदोषपुरुषान्तरमुखेन वेत्याहमयैव ह्युक्तम् इति । हि प्रसिद्धौ हेतौ वा ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“I have never uttered nor shall I ever utter a falsehood.”

“Rama never speaks in two voices.”

“Have I not already given the assurance?”

“Him who even once bows to Me saying that I am Thine, I grant him shelter and protection from all (evils). This is my vow.”

“Renounce all Dharmas and surrender unto Me only. I shall save you from all sins. Don’t grieve.”

मूलम्

“अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।”
“रामो द्विर्नाभिभाषते ।”
“सकृदेव प्रपन्नाय तवास्तीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥”
“सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥”

इति मयैव ह्युक्तम् ।

विश्वास-प्रस्तुतिः

अतस् त्वं तत्त्वतो मज्-ज्ञान-दर्शन-प्राप्तिषु निस्संशयः सुखम् आस्व ॥ २४ ॥

सुदर्शन-भट्टः

अतः भक्तिसाध्यं प्रपत्त्यैव लभ्यमिति निर्भरेण त्वया भवितव्यमित्याह - अतस्त्वम् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Ata: Tvam - What may be attained by Bhakti Yoga can also be attained by Prapatti is indicated by these and the words following. “Rest in assured and peaceful Mind.”

आचार्यतो लब्धं ज्ञानं यथा तत्त्वविषयमिति - न संशयः,

तथा भाविन्योर्दर्शनप्राप्नोरपि निस्संशय इत्यर्थः ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Sukham Aaswa. - A question is raised here as to whether Gnaana referred to in the passage is one to be acquired hereafter. No, the Gnaana has been gained already by the teachings of the Acharyas and that gnaana is true knowledge. Just as that knowledge is true and truly attained, the next stages of Direct Vision and Absolute Attainment are certain; rest assured.

(Here Nigamanta Desika gives the solution in a different way - Gnana referred to here is the confirmation of that knowledge acquired Acharyas unimpaired.)

॥ इति श्रीहारीतकुलतिलकस्य श्रीरङ्गराजदिव्याज्ञालब्ध-
श्रीवेदव्यासभट्टारकापरनामधेयस्य श्रीमत्सुदर्शनाचार्यस्य कृतिषु श्रुतप्रकाशिकाभिधानं शरणागतिगद्यव्याख्यानं सम्पूर्णम् ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Thus ends the commentary by Srutaprakaasika Acharya of Saranaagathi Gadya.

॥ श्रीमते रामानुजाय नमः ॥

वेङ्कट-नाथः

उक्तमेव स्थिरीकरणार्थं सन्तोषातिशयार्थं च निगमयति - अत इति । अतः सत्यवादिना सत्यव्रतेन मयोक्तस्य वाक्यस्य विश्वसनीयतमत्वात् । त्वम् - प्रामाणिकः । तव - ‘ये प्रपन्ना महात्मानस्ते मे नयनसम्पदः’ (पाञ्चरात्रम्) इति मत्प्रशंसनीयस्य, मत्स्वीकृतभरस्य च । तत्त्वतः - संशयविपर्ययराहित्येन । ।

मज्ज्ञानदर्शनप्राप्तिषु यथायोगमत्र परत्र च अपेक्षितास्विति शेषः ।
‘निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान् हेतुबलान्नाध्यवसति माधवः’ ॥ (म.भा.शां.३५९-७१)
इत्य्-आदि-प्रमाणसूचनायाह - निःसंशय इति । सिद्धस्यैव ज्ञानस्य अनुवृत्तौ संशय इह निवार्यते । अनेनैव निर्भरत्वादिकमप्याकृष्यते । सुखमास्व - आध्यात्मिकेत्यादिना पूर्वं मयोक्तमेव तवोचितमिति भावः ।

यावच्छरीरपातम् इति पूर्वोक्तस्यानुक्तेर् अयम्35 अभिप्रायः
मत्प्राप्तेः प्रारब्धकर्मप्रतिनियतायुरवसाननिर्बन्धो नास्ति,
यावद् अत्रत्य-मद्-अनुभवापेक्षा
तावद् अत्र सुखमास्स्व,
परिपूर्णानुभवालाभाद्
इह सुखासिकायाम् अप्य् उद्वेगे सति
आयुः शेषशृङ्खलाम् अप्य् अपोह्य
आत्यन्तिक-मत्कैङ्कर्याय
मत्पदं गमिष्यसि - इति ।+++(5)+++

एतेन अनादिकालमाज्ञातिलङ्घनमूलभगवदप्रसादेन संसरतो मे
भगवत्कृपामूल-सदाचार्याङ्गीकारेण-
द्वयोच्चारण-अनूच्चारणपूर्वक-स्वरक्षाभरन्यासे सिद्धे,
प्रसादनेषु अस्माद्-अभ्यधिकस्याभावात्
स्वीकृतभरः श्रियः पतिः नारायणः
कालत्रय-वर्तिनः सर्वान् अप्रसादहेतून्
यथार्हं क्षान्त्वा,
स्वयमेव स्वार्थम् एव
मां स्वज्ञान-दर्शन-प्राप्त्य्-आदिप्रदानेन रक्षेद्
इति विश्वस्तो
निर्भरो निर्भयः सन्तुष्टो भवेति36 निगमितं भवति ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Therefore, you may rest free of doubt or fear in the matter of obtaining true knowledge about Me, True Realisation and attainment of Me.

Thus ends the translation of the original text ot the Saranaagati Gadya.

मूलम्

अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः सुखमास्व । २४ ॥

विश्वास-प्रस्तुतिः

[37तृणी-कृत-विरिञ्चादि-
निरङ्कुश-विभूतयः ।
रामानुज-पदाम्भोज-
समाश्रयण-शालिनः ॥ २५ ॥]-

मूलम्

[37तृणीकृतविरिञ्चादि निरङ्कुशविभूतयः ।
रामानुजपदाम्भोजसमाश्रयणशालिनः ॥ २५ ॥]-

विषयः - यदुगिरिग्रन्थोक्तः

भगवति अन्त्यकालिकस्मृतिप्रार्थना

विश्वास-प्रस्तुतिः

अन्त्य-काले स्मृतिर् या तु
तव कैङ्कर्य-कारिता ।
ताम् एनां भगवन्न् अद्य
क्रियमाणां कुरुष्व मे ॥

मूलम्

अन्त्यकाले स्मृतिर्या तु तव कैङ्कर्यकारिता । तामेनां भगवन्नद्य क्रियामाणां कुरुष्व मे ॥

वेङ्कट-नाथः

इति शरणागति-गद्यं
यतीश-रङ्गेश-संलपन-रूपम् ।
व्यवृणुत देशिक-दृष्ट्या
विमृश्य निश्चित्य वेङ्कटेश-कविः ॥38

वितमसि निगमान्ते बिभ्रता देशिकत्वं
कृतिभिरनुमतेन क्षेमबुद्ध्या मयैवम् ।
यति-पति-पृथु-गद्य-व्याक्रियायां यथावत्
कथितम् अकथितं च क्षम्यतां नः सयूथ्यैः ॥

॥ इति रहस्यरक्षायां पृथु-39गद्याधिकारः प्रथमः39
॥ श्रीमते रामानुजाय नमः ॥

<dg 75/>

॥ इति शरणागतिगद्यम् ॥


  1. भगवद्वचःइ । ↩︎

  2. प्रकाश्यता-आ। ↩︎

  3. विषयविभागः -अ । ↩︎

  4. नयात् - इ । ↩︎

  5. इत्युक्त - इ । ↩︎

  6. ‘पुरुषार्थवासना’ - अ । ↩︎

  7. अभोग्य इ । ↩︎

  8. शिरो यक्ष्मा रोगःअ। ↩︎ ↩︎

  9. नुताप - इ । ↩︎

  10. धर्मात्मा - अ । ↩︎

  11. जीवगत - अ । ↩︎

  12. मत्प्रसाद - अ । ↩︎

  13. प्रतिबन्धक - अ । ↩︎

  14. क्वाचित्कस्वरूपा - इ । ↩︎

  15. वक्ष्यमाणेनाप्यवधारणेन - अ । ↩︎

  16. प्रवृत्तित्वाद्यशेषभ्रमव्युदासः - इ । ↩︎

  17. आत्माभिमाना - इ । ↩︎

  18. पुरुषार्थानुभव - इ । ↩︎

  19. तथा - अ । ↩︎

  20. गवस्थोऽसि - इ । ↩︎

  21. महालाभइ । ↩︎

  22. अन्येन -अ । ↩︎

  23. अत एव । ↩︎

  24. द्देशेषु । ↩︎ ↩︎

  25. कृतकृत्यत्वानुप्रतिसन्धान - अ । ↩︎ ↩︎

  26. मात्रभुक् - अ । ↩︎

  27. दत्रत्य - अ । ↩︎ ↩︎

  28. नान्यदीयत-अ। ↩︎

  29. भवतस्त्याज्य - अ । ↩︎

  30. प्रच्युत - आ । ↩︎

  31. हर्षं - अ । ↩︎

  32. देवयानपथेन - अ । ↩︎

  33. विमोका - आ । ↩︎

  34. सर्वशक्तौ च -आ। ↩︎

  35. पूर्वोक्तस्यात्रानुक्तेरयम् - अ । ↩︎

  36. भवेदिति - अ । ↩︎

  37. मन्दिरे पारायणकाले एषः अनुसन्धीयते । ↩︎ ↩︎

  38. वेङ्कटकविः - आ । ↩︎

  39. गद्याधिकारः - अ । ↩︎ ↩︎